________________
ज्ञानमीमांसा।
५०१
तग्राहित्वासंभवात । निर्णयात्मकत्वात् तस्य तदात्मकत्वमिति चेतः नन तस्य किं स्वरूप निर्णयात्मकत्वम्, उतार्थरूपे? न तावत् स्वरूपे “सर्वचित्त-चैत्तानामात्मसंवेदनं प्रत्यक्षम" [न्यायविं० १-१०] इत्यस्य विरोधात् । एवमपि तत्र तेस्य निर्णयात्मकत्वे चक्षुरादिज्ञानं स्वपरयोस्तदात्मकं किं न भवेत् ? तथा च स्वार्थाकाराध्यवसायाधिगमश्चक्षुरादिचेतसां सिद्ध इति केन कस्य तिरस्कारः? तन्न विकल्पः स्वरूपे निर्णयात्मकोऽभ्युपगन्तव्यः । अथाऽर्थे तस्य निर्णयात्मकत्वम् : नन्वेवमेकस्य५ विकल्पस्य निर्णयानिर्णयस्वभावं रूपद्वयमायातम् तच्च परस्परं तद्वतश्च यद्येकान्ततो भिन्नमभ्युपगम्यते समवायादेरनभ्युपगमात् सम्बन्धासिद्धेः 'वलवान् विकल्पो निर्णयात्मकत्वात्' इत्यस्यासिद्धिः। न च रूपादीनामिव परस्परमेकसामग्यधीनतालक्षणः तयोः सम्बन्धः तद्वता चाग्निधूमयोरिव तदुत्पत्तिलक्षण इति वक्तव्यम् स्वाभ्युपगमविरोधात् । किञ्च, यदा विकल्पस्य कारणत्वम् निर्णयाऽनिर्णययोश्च कार्यत्वं तदा विकल्पस्य पूर्वकालत्वं तयोश्चोत्तरकालत्वम् प्रज्ञाकराभिप्रायात् तु विपर्ययोऽपि १० मरणलिङ्गस्यारिष्टादेस्तत्कार्यतया प्राग्भाविनस्तनाभ्युपगमात् तथा च भिन्नकालस्य विकल्पस्य न निर्णयानिर्णयात्मकत्वमिति ज्ञानरूपताया अप्यभावः तद्विकलस्य गत्यन्तराभावात् तयोश्च विकल्पस्वभावविकलतया निःस्वभावता । ज्ञानाद भिन्नयोरनुपलभ्यत्वेन गत्यन्तराभावात् स्वयं तयोरुपलम्भे विकल्पाद भिन्ने ज्ञाने स्याताम् एवं च यदनिर्णयात्मकं तत तदेव यञ्च निर्णयस्वरूपं तदपि तदेव तथा च निर्विकल्पकस्य पृथगुपलम्भनिर्णयः स्यादिति पूर्वोक्तमेव दूपणं पुनरापतति, निर्णयात्मकेऽपि १५ चक्षुरादिज्ञानमपि तथैव स्यादिति पूर्वोक्त एव दोषः । तत्रापि रूपद्वय कल्पनायां प्रकृतो दोपः अनवस्था च । तन्न परस्परं तद्वतश्च भेदैकान्तो युक्तः । अभेदैकान्तेऽपि तवयमेव तद्वान् वा भवेत् तथा चन प्रकृतसिद्धिः।
अथ निर्णयानिर्णयस्वभावयोरन्योन्यं तद्वतश्च कथञ्चित्तादात्म्यं तर्हि यत् खात्मनि अनिर्णयात्मकं बहिरर्थे च निर्णयस्वभौवं रूपं तत्साधारणमात्मानं प्रतिपद्यते चेद् विकल्पः स्वरूपेऽपि सविकल्पकः २० प्रसक्तः अन्यथा निर्णयस्वभावतादात्म्यायोगात् । न च स्वरूपमनिश्चिन्वन् विकल्पोऽर्थ निश्चिनोति इतरथाऽगृहीतखरूपमपि ज्ञानमर्थग्राहकं भवेदिति न नैयायिकमतप्रतिक्षेपः। न च नैयायिकाभ्युपगमेन परगृहीतस्य स्वगृहीततादोषः भवन्मतेऽपि परनिश्चितस्य स्खनिश्चितत्वप्रसक्तेः । यथा च परझाँतमननुभूतत्वान्नात्मनो विषयस्तथा विकल्पस्य स्वरूपमनिश्चितत्वान्नात्मनो विषय इति समानं पश्यामः। न च तस्यापि विकल्पान्तरेण निश्चयः तस्यापि विकल्पान्तरेण निश्चयापत्तेरनवस्थाप्रसक्तेः।२५ न च विकल्पस्वरूपमनुभूतमपि क्षणिकत्वादिवदनिश्चितमर्थनिश्चायकं युक्तम् अनिश्चितस्यानुभवेऽपि क्षणिकत्ववत् स्वयमव्यवस्थितत्वात् अव्यवस्थितस्य च शशशृङ्गादेरिवान्यव्यवस्थापकत्वायोगात् । यथा च विकल्पस्य स्वार्थनिर्णयात्मकत्वं तथा चक्षुरादिबुद्धीनामपि तद्युक्तम् अन्यथा तासां तबाहकत्वायोगात् । अथ विकल्पस्य बहिरर्थे प्रवृत्तिरेव नास्तीति कथं तन्निर्णयात्मकः? न हि नीलज्ञानं पीताप्रवृत्तिकं तन्निर्णयात्मकं वक्तुं शक्यम् प्रतिपत्रभिप्रायवशात् बौद्धर्वाह्यार्थव्यवसायात्मकत्वं विकल्पस्य ३० परमार्थतो निर्विषयत्वेऽपि व्यावय॑ते, तदयुक्तम् । यतः किमिदं विकल्पस्य परमार्थतो निर्विषयत्वम् ? यद्यात्मविषयत्वं तात्मविषयं निर्विकल्पकमपि ज्ञानं निर्विपयमित्यर्थनिर्णयात्मकत्वाद् बलवान् विकल्प इति निर्विकल्पकानुभवस्य निर्णयस्तिरस्कारक इत्यसङ्कतं स्यात् सविकल्पकस्यैव कस्यचिदभावादात्मविषयस्य निर्विकल्पकण्यापि विकल्पवत् सविकल्पकस्यैवं वा भावात् नचैवं कस्यचित् प्रतिपत्तुरभिप्रायः। अथ साधारणस्यास्पष्टस्य स्व-परयोरविद्यमानस्याकारस्य शब्दसंसर्गयोग्यस्य विषयी-३५ करणं निर्विषयत्वम्, न तस्य तत्र संबन्धाभावतो विषयीकरणासंभवान् तथापि तद्विषयीकरणे सर्व
१“विकल्पस्य"-बृ. ल. टि.। २ “बलीयस्वम्"-बृ० ल.टि.। ३ न्यायबिन्दुसूत्रे 'प्रत्यक्ष पदं नास्ति । ४ "खरूपे"-वृ. ल.टि.। ५ "तस्य विकल्पस्य"-बृ० ल० टि०। ६-सायो धि-वृ०। ७ इति न व-बृ० । ८ "निर्णयानिर्णययोः"-बृ.टि.। ९-था भि-बृ०। १० तद्विकल्पस्य ल. भां० मां० विना। ११च निआ० हा० वि०। १२-था नि-बृ०। १३-त्मके च-ल. वा. बा. विना । १४-रर्थे नि-बृ०। १५-भावरूआ० हा० वि०। १६-था गृ-वृ• विना। १७-ज्ञानम-बृ० ल० वा. बा. भां मां० विना। १८-त्वात्मनो वृ०।-त्वान्न मनो बृ० सं०। १९-शात् तु बौ-बृ० वा. बा. भा. मां०। २०-व चाभा-भा० मा० ।