________________
द्वितीये काण्डेविकल्पे सांशस्वार्थाध्यवसायिन्यध्यारोपयतीति वैशद्यावगतिः एकस्यैव तथाभूतस्वार्थनिर्णयात्मनो विशदज्ञानस्यानुभूतेरननुभूयमानस्याप्यपरनिर्विकल्पकस्य परिकल्पने बुद्धेश्चैतन्यस्यापरस्य परिकल्पनाप्रसङ्ग इति साङ्ख्यमतमप्यनिषेध्यं स्यात् । किञ्च, सविकल्पाविकल्पयोः कः पुनरैक्यमध्यवस्यति? न तावदनुभवो विकल्पेन आत्मन ऐक्यमध्यवस्यति व्यवसायविकलत्वेनाभ्युपगमात् तस्य अन्यथा ५भ्रान्तताप्रसङ्गात् । नापि विकल्पोऽविकल्पेन स्वस्यैक्यमध्यवस्यति तेनाविकल्पस्याविषयीकरणात
अन्यथा स्खलक्षणगोचरताप्राप्तेः अविषयीकृतस्य चान्यत्राध्यारोपाभावात् न ह्यप्रतिपन्नरजतः शुक्तिकायां रजतमध्यारोपयितुं 'रजतमेतत्' इति समर्थः। न च यथेश्वरादिविकल्पस्तदविषयीकरणेऽप्यध्यवसिततद्भाव उपजायते तथात्राप्यध्यवसिताविकल्पस्वभावो विकल्पः समुपजायत इति स तयो
रैक्यमध्यवस्यति, उक्तोत्तरत्वात् । तथाहि-न तावदनुभव ऐवंरूपमात्मानमवगच्छति तेनास्यार्थस्या१०विषयीकरणात् एतत्'रूपतया तस्यासिद्धेश्च । न हि मरीचिका जलरूपतयाऽध्यवसिता तद्रूपतयाऽसिद्धार्थक्रियोपयोगिन्युपलब्धा एवमनुभवोऽपि विकल्परूपतयाऽध्यवसितस्तथाऽसिद्धो नार्थक्रियोपयोगी नातः किञ्चित् सिध्यति । नापि विकल्पः तस्याऽवस्तुविषयत्वाभ्युपगमात् । यदि पुनर्विकल्पस्तद्रूपमात्मानमध्यवस्येत् तर्हि परमार्थविषयता तस्येति
_ "विकल्पोऽवस्तुनिर्भासाद् विसंवादादुपप्लवः" [. १५ इति असङ्गतं स्यात् । अत एव न विकल्पान्तरमपि तमध्यवस्येत् तस्यापि तुल्यदोषत्वात् । किञ्च,
तयोरैक्यं व्यवस्यतीत्यत्र यदि विकल्पं निर्विकल्पकतया मन्यते व्यवहारी तदा निर्विकल्पकमेव सर्व ज्ञानमिति विकल्पव्यवहारोच्छेदादनुमानप्रमाणाभावः। अथाविकल्पं विकल्पतया तदा सविकल्पकमेव सर्व प्रमाणमिति अविकल्पप्रत्यक्षवादो विशीर्यत । यथा हि प्रज्ञाकराभिप्रायेण मणिप्रभायां
मणिज्ञानं 'य एव मणिर्मया दृष्टः स एव प्राप्तः' इत्यभिमानिनःप्रत्यक्षं प्रमाणम्-अन्यथाऽभ्यासदशायां २० भाविनि दृश्य-प्राप्ययोरेकत्वाध्यवसायात् प्रत्यक्षमेव प्रमाणमिति न भवेत् अन्यस्य तन्निबन्धनस्य
तत्राप्यभावात्-तथा सर्व निर्विकल्पं विकल्पत्वेन निश्चित्य सविकल्पकमेव सर्व ज्ञानमिति यो व्यवहरति तस्य किमिति तदेव न प्रमाणम् ? यथा हि दृश्यं प्राप्यारोपात प्राप्यम् तथाऽविकल्पो विकल्पारोपाद विकल्पो भवेत् न्यायस्य समानत्वात् । अथ यथा प्राप्यमणिप्रभा-मणिप्रतिभासयोरेकत्वाध्यवसायेऽपि न मणिप्राप्तौ तत्प्रतिभासस्याभावः-अन्यथा मणिः प्रतिभातो न प्राप्तः स्यात्-तथा २५सविकल्पाविकल्पयोरेकत्वाध्यवसायेऽपि निर्विकल्पकस्य नाभावः; नन्वेवं सांशस्थूलैकस्पष्टप्रतिभास
व्यतिरिक्तस्य निरंशक्षणिकपरमाणुप्रतिभासलक्षणनिर्विकल्पकानुभवस्य तदैव निर्णयप्रसक्तिः । अथ विकल्पनाविकल्पस्य सहस्रांशुनों तारानिकरस्येव तिरस्कारान्न तथा निर्णयस्तर्हि विकल्पस्याप्यविकल्पेन तिरस्कारात् प्रतिभासनिर्णयो न स्यात् ।
अथ विकल्पस्य बलीयस्त्वाद्विकल्पस्य च दुर्बलत्वात् तेन तस्य तिरस्कारः; ननु कुतो विकल्पस्य ३० बलीयस्त्वम् ? प्रचुरविषयत्वादिति चेत्, न; अविकल्पविषय एव प्रवृत्त्यभ्युपगमात् अन्यथाऽस्य गृही
१-कल्पे खांश-बृ. ल. वा. बा. विना। २-स्याप-आ० । ३-कल्पत्वे-ल. विना । “न तावन्निर्विकल्पकम् अध्यवसायविकलखात् तस्य अन्यथा भ्रान्तताप्रसङ्गः"-प्रमेयक पृ. ९ द्वि. पं. ३ । “न तावन्निर्विकल्पकम् तस्याध्यवसायशून्यत्वात् इतरथा भ्रान्तलप्रसक्तिः"-स्याद्वादर. पृ. ८२५०४ आ० । ४-स्तद्वि-बृ० । ५ एवंस्वरूआ. हा० वि०। ६ तथावस्तु-भां० मा० विना। ७“अनुभवरूपम्"-बृ. ल. टि.।
८ “विकल्पोऽवस्तुनिर्भासः इत्यस्य विरोधः" । अवस्तुनिर्भासः “अवस्तुनि निर्भासः प्रतिभासो यस्य विकल्पस्य सः" इत्यस्य "ग्रन्थस्य"-प्रमेयक० पृ. ९ द्वि. पं० ४ टि. १६, १७ । “तदुक्तम्-विकल्पोऽवस्तुनि सौ(सो) विसंवादादुपप्लवः"सिद्धिवि० टी० लि. पृ० ९० पं० २२ । “यथोक्तम् विकल्पो वस्तुनिर्भासाद्विसंवादादुपप्लव इति"-प्रशस्त. कं० पृ० १९. पं० १८ । “विकल्पोऽवस्तुनिर्भासात्" इति वचो विरुध्यते" स्याद्वादर० पृ० ८२५० ६ आ० । “विकल्पोऽवस्तुनिर्भासाद् विसंवादादुपप्लवः । प्रत्यक्षाभः" इति वचनात्"-धर्मसं० पृ० १३४ प्र. पं० १। “तदुक्तम्" इति कृखा "विकल्पो वस्तु. निर्भासादसंवादादुपप्लवः" इत्युद्धृतं वर्तते सर्वदर्शनसंग्रहे-पृ. ४४ द० २५० ३३५।।
९"विकल्पान्तरस्य"-बृ० ल. टि.। १० सर्वज्ञा-भां० मा. आ. विना। ११-माणं न बृ. ल.। १२-सकलक्ष-आ. हा० वि०। १३-कल्पिकानु-ल. आ० हा० वि० ।-कल्पिका त्वानु-वा. बा. भां० मां०। १४-ना तमोनि- आ० । “भानुना तारानिकरस्येवेति चेत्"-प्रमेयक पृ० ८ द्वि. पं० १४ । “तिग्मभानुना विभावरीभुजंगस्येवेति चेतू"-स्याद्वादर० पृ. ७९ पं० २५ आ० ।