________________
ज्ञानमीमांसा।
४९९ खसंवेदनमात्रमेवैकमध्यक्षं भवेत् तथा च-"रूपादिखलक्षणविषयमिन्द्रियज्ञानम् आर्यसत्यचतुष्टयगोचरं योगिज्ञानम्" [
__] इत्यादि चतुर्विधाध्यक्षोपवर्णनमसङ्गतमनुषज्येत । अथ निर्विकल्पकमध्यक्षं नार्थस्यार्थक्रियायोग्यतामधिगच्छति तदभावे न प्रवृत्तिरित्यप्रवर्तकत्वान्न बाह्ये प्रमाणं तहनुमानमपि नार्थक्रियासङ्गतिमवभासयति तस्यावस्तुविषयत्वात् तथा च तदपि कथं प्रवर्तकम् ? अथ तदध्यवसायितया तस्योत्पत्तरर्थग्राहित्वाभावेऽपि प्रवर्तकता, असदेतत् तद्ध्यव-५ सायित्वस्याप्यनुपपत्तेः । तथाहि-तदध्यवसायित्वं तस्य किं ग्राहकाकारः, उत ग्राह्याकारः इति वक्तव्यम् यदि ग्राहकाकारस्तदा तस्य ग्राहकं स्वरूपं न बाह्यमर्थ सन्निधापयतीति न तदध्यवसायोsनुमानसाध्यः। अथ ग्राह्याकारः सोऽपि नार्थवरूपसंस्पर्शीति कथं तदवगमे बाह्यार्थाऽध्यवसितिरनुमानफलम् ? तदेवमनुमितेः स्वसंवेदनमात्रपर्यवसितत्वान्नार्थप्रदर्शनद्वारेण प्रवर्तकता युक्ता । नन्वनुमाने सति प्रवृत्तिदृष्टा तदभावे सा न दृष्टेति तत्कार्यासौ निश्चीयते त_भ्यासदशायां विकल्प-१० विकले दर्शने सति प्रवृत्तिदृष्टा प्रतिपदोच्चारं तत्र विकल्पनासंवेदनेऽपि पुरःपरिस्फुटप्रतिभासमात्रादेव प्रवृत्त्युपपत्तेस्तत्कार्याऽसौ किं न व्यवस्थाप्यते? अथानुमानादनभ्यासदशायां प्रवृत्तिरुपलब्धेति तदन्तरेण सा कथं भवेत् ? न; मन्दाभ्यासेऽनुमानादेव प्रवृत्तिः अभ्यासदशायां तु पर्यालोचनलक्षणानुमानव्यतिरेकेणापि वस्तुदर्शनमात्रादेव समस्तु तथादर्शनात् अन्यथाऽनभ्यासदशायामनुमानात् प्रवृत्तिदर्शनात् सर्वदानुमानस्यैव व्यवहृतिजनकत्वे प्रत्यक्षेण लिङ्गग्रहणाभावतस्तन्निश्चयकृदपरमनु-१५ मानमभ्युपगन्तव्यम् तत्राप्यनुमानान्तराल्लिङ्गनिश्चय इति तन्निश्चयकृदपरमनुमानमित्यनवस्थाप्रसङ्गतो न कदाचिद् व्यवहृतिर्भवेत् । ततोऽविकल्पकं दर्शनमभ्यासदशायां व्यवहारकृदभ्युपगन्तव्यमन्यथा पूर्वोक्तप्रकारेणानुमानानवतारात् । न च पौर्वापर्येऽप्रवृत्तिमत् सन्निहितमात्रावभास्यध्यक्षं कथं तारलिङ्गग्रहणक्षमं यतोऽनभ्यासावस्थायामनुमानात् प्रार व्यवहारः पश्चात्त्वध्यक्षादभ्यासदशायामिति प्रेर्यम् ? यतः संवृत्या लिङ्गप्रतिबन्धग्राहि प्रत्यक्षमभिमतम् लोकस्य ह्येवमभिमानः 'तदेव साध्य-२० प्रतिबद्धं लिङ्गमहं पश्यामि' इति तदभिमानाञ्च लिङ्गप्रतिबन्धग्राह्यध्यक्षं व्यवहारकृदभ्युपेयते परमार्थपर्यालोचनया तु न प्रत्यक्षानुमानभेदः नापि व्यवहारः संवेदनमात्रत्वात् सर्वप्रपञ्चस्य। स्वसंवेदनं च सकलविकल्पविकलमिति कथं स्वार्थनिर्णयस्वभावं ज्ञानं प्रमाणं सिद्धिमासादयेत् ? [निर्विकल्पकमेवाध्यक्षमिति मतं प्रति विधाय सविकल्पस्याध्यक्षत्वमुपपाद्य च सिद्धान्तिना स्वार्थनिर्णयस्वभावज्ञानस्य प्रमाणसामान्यलक्षणत्वव्यवस्थापनम् ]
२५ अत्र प्रतिविधीयते-'स्वार्थनिर्णयस्वभावं प्रत्यक्षं न भवति' इत्येतत् किं तद्राहकप्रमाणाभावादभिधीयते, आहोखित् तद्वाधकप्रमाणसद्भावात? तत्र न तावदाद्यः पक्षोऽभ्युपगमाहः स्थिरस्थूलसाधारणस्य स्तम्भादेरर्थस्य बहिरन्तश्च सद्रव्यचेतनत्वाद्यनेकधर्माकान्तस्य ज्ञानस्यैकदा निर्णयात् सांशस्वार्थनिर्णयात्मनोऽध्यक्षस्य स्वसंवेदनप्रत्यक्षसिद्धत्वात् तद्राहकप्रमाणाभावोऽसिद्धः। तथाहिअन्तर्बहिश्च स्वलक्षणं पश्य(श्य)ल्लोकः स्थूलमेकं स्वगुणावयवात्मकं ज्ञानं घटादिकं च सकृत्प्रति-३० पत्त्याध्यवस्यति, न चेयं प्रतिपत्तिरनध्यक्षा विशदखभावतयानुभूतेः । न च विकल्पाऽविकल्पयोर्मनसोर्युगपट्टत्तेः क्रमभौविनोर्लघुवृत्तेर्वा एकत्वमध्यवस्यति जनस्तत्रेत्यविकल्पाऽध्यक्षगतं वैशचं
१ बौद्धसम्मतं केवलनिर्विकल्पकप्रामाण्यपक्षं वैयाकरणसम्मतं केवलसविकल्पकप्रामाण्यपक्षं च निराकृत्य निर्विकल्पकसविकल्पकोभयप्रामाण्यं व्यवस्थापयितुं कुमारिलेन चर्चा कृताऽस्ति-श्लो० वा. प्रत्यक्षसू० श्लो० ८६-१४५ ।
__ सैव चर्चा तदीयानि कानिचित् पद्यान्युपयुज्य वाचस्पतिमिश्रेण सूक्ष्मेक्षिकया हृदयहारिण्या च शल्या विस्तरमुपनीता दृश्यते-ज्यायवा. ता.टी.पृ. १३३-१३७।
अत्रत्यः शास्त्रार्थः प्रस्तुतप्रन्थशैल्या क्वचित् कचित् शब्दसाम्यमजहदेव संक्षेपेण भणयन्तरेण च प्रमेयकमलमार्तण्डे वर्तते-पृ. ८ द्वि.पं०६-पृ० ११ द्वि० पं० २।
मार्तण्डगतश्च स एव शास्त्रार्थः अक्षरशः समादाय पुनरनेकधा पल्लवीकृत्य च वर्णितः स्याद्वादरत्नाकरे दृश्यते-पृ. ७५-८८ आ० । शास्त्रवा० स्याद्वादक. पृ० १५६ द्वि. पं०९-।
२-पद वृ-आ० हा०वि० । शास्त्रवा० स्याद्वादक. पृ० १५६ द्वि.पं. ११। ३-भाविनोल-वृ. आ. वि.।