________________
४९८
द्वितीये काण्डेगमस्तर्हि प्रवृत्तिकरणान्निश्चय एव प्रमाणं भवेत् न च दर्शनगृहीतं नीलं निश्चिन्वन्नुपजायमानो विकल्पो गृहीतग्राहितया अप्रमाणम् यतोऽर्थक्रियासम्बन्धितामुल्लिखन्ती दर्शनावगतस्यार्थस्य कल्पना प्रवृत्तिमारचयति । न च विशददृशार्थक्रियासाधकता तस्यावगतेति कथं कल्पना न भिन्नविषया? सर्वत्र च कल्पनैव प्रवृत्तिं विरचयति दर्शनाभावेऽप्यनुमानात् प्रवृत्तिदर्शनाद् दर्शनसद्भावेऽपि ५क्षणिकादौ व्यवसायाभावात् प्रवृत्तेरभावाद् व्यवहारमुपरचयन्ती मतिः प्रमाणमिति न निर्विकल्पिका
सा प्रमाणं किन्तु विकल्पिकैव । ननु न विकल्पस्याप्रामाण्यम् किन्त्वसौ प्रत्यक्षं न भवति अनुमानताभ्युपगमात् । अथ लिङ्गजत्वाभावादपरोक्षमर्थ निश्चिन्वन् कथमनुमानं विकल्पः? नैतत्; यतो नापरोक्षमेवार्थमसौ निश्चिनोति अर्थक्रियासम्बन्धित्वस्य परोक्षस्याप्यध्यवसितेस्तदावे च प्रवृत्तेरयोगात् ।
सा च फलसङ्गतिः परोक्षाऽनुमानग्राह्या दृश्यमान इव प्रदेशे परोक्षदहनसङ्गतिः । न च तत्र धूम१०लिङ्गसद्भावादनुमानावतारेऽपि फलसम्बन्धितायां लिङ्गाभावान्नानुमानप्रवृत्तिः प्रतिभासमानरूपस्यैव लिङ्गत्वात् । तथाहि-उपलभ्यमाने जलरूपे शीतस्पर्शादयस्तत्सहचारिणो यदि निश्चेतुं शक्याः कालान्तरस्थायितया तदा तत्र प्रवृत्तिर्युक्ता रूपप्रतिभासमात्रस्य तु तदैवोदयान्न तदर्था प्रवृत्तिः सङ्गता प्रवृत्तौ वा तदविरतिप्रसक्तिः स्पर्शादीनां चैकसामग्र्यधीनतयोपलभ्यमानं रूपं हेतुः स्थैर्य चोपलभ्यमानं कालान्तरस्थितौ लिङ्गमिति कथं न निश्चयोऽनुमानम् ? न च सम्बन्धस्मरणपक्ष१५धर्मत्वनिश्चयादुपजायमानमनुमानमनुभूयते अंत्र तु त्रैरूप्यपर्यालोचनमन्तरेणापि नीलानुभवानन्तरं 'नीलमेतत्' इति निश्चयो झगित्युदेतीति नानुमानतास्य यतो न सर्वदानुमितिौरूप्यपर्यालोचनमपेक्ष्य प्रवर्तते अत्यन्ताभ्यासात् कदाचित् सम्बन्धस्मरणानपेक्षलिङ्गस्वरूपदर्शनमात्रादुदयदर्शनाद् धूमोपलम्भादभ्यासदशायामग्निप्रतिपत्तिवत् । अथात्राविनाभावपर्यालोचनंप्रागासीदनवगतसम्बन्धस्य
धूमदर्शनादेवाप्रतीतेस्तर्हि मन्दाभ्यासे प्रकृतेऽपि पर्यालोचनमस्त्येव-'एवंजातीये पूर्वमप्यर्थक्रियो२० पलब्धा इदमप्येवंजातीयं प्रतिभासमान रूपम्' इति । अभ्यासदशायां तु रूपदर्शनादेव पर्यालोचनमन्तरेणापि झगिति फलयोग्यता प्रतीयते इति व्यवस्थितमेतत्-दृश्यमानं रूपं धर्मि तत्फलयोग्यता साध्या तपसामान्य लिङ्गमिति न प्रतिज्ञार्थकदेशत्वमपि हेतोः अतो निश्चयः स्वरूपावभासादुदयमासादयन् परोक्षमर्थक्रियायोग्यत्वं निश्चिन्वन्ननुमानमेव । व्यवहारोऽप्यते एव न प्रत्यक्षात । आहच
"तदृष्टावेव दृष्टेषु संवित्सामर्थ्य भाविनः।
स्मरणादभिलाषेण व्यवहारः प्रवर्तते" ॥[ ] इति स्मरणादनुमानरूपाद् व्यवहारः प्रवर्तत इत्ययमर्थः।।
नॅन्वन्यगतचेतसोऽभ्यस्ते परिमलादावविकल्पाक्षमतेः प्रवृत्तिदर्शनात् कथं न निर्विकल्पकं प्रवर्तकम् ? किञ्च, यद्यनुमितिरेव बाह्ये सर्वदा प्रवृत्तिमारचयति तर्हि तत्र नाध्यक्ष प्रमाणमिति
-
१ "सविकल्पिका"- बृ.टि.। २-भावे प्र-आ. हा०वि०विना। ३ “उत्तरम्"-बृ.टि.। ४ "जलरूपे"-बृ.टि.। ५ “अनुमानरूपानिश्चयात्"-बृ० टि०। ६ “येन वार्तिककार एवमाह" इत्युल्लिख्य विभिन्नोत्तरार्धकमेतत् पद्यं न्यायबिन्दुटीकाटिप्पण्यामुद्धृतमित्थं वर्तते
"तदृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । खव्यापारसकरणात् स्मरणादित्यादि"-पृ. ३१ पं. ५-६ ।
"तदुक्तम्" इति कृत्वा इदं पद्यं सिद्धिविनिश्चयटीकायामुपन्यस्तमस्ति-लि. पृ. ९.पं. १८॥ सिद्धिविनिश्चयटीकायां "कारिकां विवृण्वन्नाह" इत्युपक्रम्य “ 'तदृष्टावेव' इत्यादि"प्रतीकं निर्दिश्य च व्याख्यातमेतत् पद्यमित्थं दृश्यते-"निर्विकल्पिका दृष्टिस्तदृष्टिस्तस्यां सत्यां पुनये दृष्टास्तेषु व्यवहारः । प्रवृत्तावङ्गीक्रियमाणायां कुत इत्यत्राहसंवित्तीत्यादि-संवित्तेर्बलं सामर्थ्य तस्माद् या सजातीयस्मृतिस्तस्या अभिलाषः आदिशब्देन द्वेषपरिग्रहस्तस्मादिति"-लि. पृ० ११८ पं० १९-२२ । सिद्धिविनिश्चयटीकाव्याख्यानत एतत् पद्यमित्थं कल्पयितुमुचितं भाति
तदृष्टावेव दृष्टेषु संवित्तिबलभाविनः । स्मरणादभिलाषादेर्व्यवहारः प्रवर्तते ॥ "यदुक्तम्" इत्युल्लिख्योद्धृतं पद्यमिदं धर्मसंग्रहण्यां वर्तते-पृ. २६ द्वि.पं. ७ पृ.१६ पं० २६ । न त्वन्य-पृ. विना।