________________
ज्ञानमीमांसा |
व्यक्तिर्द्वयव्यतिरिक्तवपुर्ग्राह्याकारतां बहिर्बिभ्राणा विशददर्शने जातिराभातीति न तद्योजनादध्यक्ष-मतिः सविकल्पका । न चाम्र- बकुलादिषु 'तरुस्तरुः' इत्युल्लिखन्ती बुद्धिराभातीति नाऽसती जातिः विकल्पोल्लिख्यमानतयापि बहिर्ग्राह्याकारतया जातेरनुद्भासनात् प्रतीतिरेव तत्रापि तुल्याकारतां वचनं वा बिभर्ति । न च शब्दः प्रतीतिर्वा जातिमन्तरेण तुल्याकारतां नानुभवति 'जातिर्जातिः' इत्यपरजातिव्यतिरेकेणापि गोत्वादिसामान्येषु तयोस्तुल्याकारतादर्शनात् । न च तेष्वप्यपरा जातिः ५ अनवस्थाप्रसक्तेः। अथ तुल्याकारा प्रतिपत्तिर्यदि निर्निमित्ता तदा सर्वदा भवेत् न वा क्वचित् व्यक्तिनिमित्तत्वे आम्रादिष्विव घटादिष्वपि 'तरुस्तरुः' इति प्रतिपत्तिर्भवेत् व्यक्तिरूपताया अत्रापि समानत्वात्, असदेतत्; व्यक्तिनिमित्तत्वेऽपि प्रतिनियतव्यक्तिनिमित्तत्वान्नातिप्रसङ्गः यथा हि ताः प्रतिनियता एव कुतश्चिन्निमित्तात् प्रतिनियतजातिव्यञ्जकत्वं प्रतिपद्यन्ते तथा प्रतिनियतां तुल्याकारां प्रतिपत्तिं तत एव जनयिष्यन्तीति किमपरजातिकल्पनया ? यथा वा गुडूच्यादयो भिन्ना १० एकजातिमन्तरेणापि ज्वरादिशमनमेकं कार्य निर्वर्तयन्ति तथा आम्रादयस्तरुत्वमन्तरेणापि तत एव 'तरुस्तरुः' इति प्रतिपत्तिं जनयिष्यन्ति नान्य इति व्यर्था तेषु तरुत्वजातिकल्पना । तन्न जातिर्दर्शने कल्पनाज्ञाने वा बहिराकारमाविभ्रती स्वेन वपुषा प्रतिभाति कल्पनाबुद्धावप्यविशदाकारव्यक्तिरूपमन्तःशब्दोल्लेखं वापहाय वर्णसंस्थानव्यतिरिक्तजातिस्वरूपानवभासनात् । तन्नाप्रतीयमाना जातिः सती । नापि कस्यचिद् विशेषणमिति न तद्योजनाविधायिनी अध्यक्षमतिरिति न सविकल्पिका । एवं १५ गुण-क्रियादीनामप्यप्रतिभासनादसत्त्वमिति न तद्विशिष्टार्थग्राह्यध्यक्षं सविकल्पकतामनुभवति । अथ निर्विकल्पकत्वेऽध्यक्षेण शुद्धवस्तुग्रहणात् कथं ततो व्यवहृतिः साँ हि हेयोपादेययोर्दुःख-सुखसाधनत्वनिश्चये हानोपादानार्था दृष्टा न च निर्विकल्पकमध्यक्षं तन्निश्चयरूपम्, असदेतत् यतो यद्यपि सविकल्पकमध्यक्षं तथापि कथं तदर्थिनां तत्र ततः प्रवृत्तिः न हि निश्चयमात्रात् फलार्थिनः प्रवर्तन्ते अपि तु तज्जननयोग्यतावसायात् सा चासन्निहितफलानिश्चये न निश्चेतुं शक्या । न च २० परोक्षं सुखसाधनत्वं निश्चिन्वती मतिरध्यक्षतामनुभवति अनुमितेरप्यध्यक्षताप्रसक्तेः परोक्षनिश्चयरूपताया अविशेषात् । न च निश्चयात्मकेनाध्यक्षेण वस्तु निश्चीयते तत्प्रतिवद्धा च प्रागर्थक्रियोपलब्धा ततः पुरस्थार्थावसायात् तत्र स्मृतिः प्रादुर्भवन्ती तत्राभिलाषजननात् प्रवृत्तिमुपजनयति निर्विकल्पकेऽप्यस्य समानत्वात् । तथाहि - प्रत्यक्षप्रतिभाते वस्तुनि पूर्वमर्थक्रियावगतेति तत्स्मरणीव( णाद)भिलाषेण प्रवृत्तिर्भविष्यतीति कः स्व-परपक्षयोर्विशेषः ? अथ वस्तुस्वरूपप्रतिभासं दर्शन - २५ मर्थक्रियासम्बन्धाननुभवान्न प्रवृत्तिमुपरचयितुं क्षमम् तत्सम्बन्धानुभवे वा सविकल्पकं तद् भवेत् । न चाप्रवर्तकस्य प्रामाण्यम् - " प्रामाण्यं व्यवहारेण" [
इत्यत्र
"व्यावहारिकस्य चैतत् प्रमाणस्य लक्षणमुक्तम्" [ ] इत्यभिधानात् असदेतत् ; यतो न दर्शनं केवलं प्रमाणं क्षणिकत्वादावपि तस्यै भावात् किन्तु अभ्यासपाटवादिसव्यपेक्षं यत्रांशे विधिप्रतिषेधविकल्पद्वयं जनयत् पुरुषं प्रवर्तयति तत्रास्य प्रामाण्यमिति निश्चयापेक्षस्य प्रत्यक्षस्य ३० व्यवहारसाधकत्वान्न प्रामाण्यक्षतिः; नन्वेवमपि यदि निश्चये सति प्रवृत्तिस्तदभावे च नेत्यभ्युप
१- द्वयद्व्यति-आ० हा ० वि० ।-द्वयाद्व्यति - वि० सं० । २ " शब्द - प्रतीत्योः " - बृ० टि० । ३ शास्त्रवा० स्याद्वादक० पृ० १५६ द्वि० ० ५ ४ पत्तिं त ए- बृ० ।
५
“यथा धात्र्यभयादीनां नानारोगनिवर्तने । प्रत्येकं सह वा शक्तिर्नानावेऽप्युपलभ्यते ॥ न तेषु विद्यते किश्चित् सामान्यं तत्र शक्तिमत् । चिरक्षिप्रादिभेदेन रोगशान्त्युपलम्भतः ॥ सामान्येऽतिशयः कश्चिन्न हि क्षेत्रादिभेदतः । एकरूपतया नित्यं धात्र्यादेस्तु स विद्यते ॥ एवमत्यन्तमेदेऽपि केचिन्नियतशक्तितः । तुल्यप्रत्यवमर्शादेर्हेतुत्वं यान्ति नापरे" ॥
४९७
-तत्त्वसं० का० ७२३-७२६ पृ० २३९ ।
६-त एव बृ० भ० मां० । ७ " व्यवहृतिः " - बृ० टि० । ८-ननि-आ० । १०- णाभि- बृ० भ० मां० आ० हा० वि० । ११ - ण्यं व्यवहारेण तत्र भां० १२ पृ० १५० २४ । १३ “ दर्शनमात्रस्य " - बृ० टि० ।
६४ स० त०
९ " अर्थक्रिया" - बृ० टि० । मां० आ० हा०वि० ।