________________
द्वितीये काण्डे
किञ्च, यदि शुद्धमेव दर्शनं स्मृतिनिरपेक्षं पूर्वरूपताग्राहि; नन्वेवं भाविरूपताग्राहि प्रथमदर्शनं कि नोपेयते न हि भाविभूतयोरसन्निहितत्वे विशेषः येनैकत्राध्यक्षवृत्तिरपरत्र नेति भवेत् ? न च 'पूर्वदृष्ट पश्यामि' इति व्यवसायात् पूर्वरूपे एव दर्शनव्यापारः 'पूर्वमेवेदं मया दृष्टम्' इत्यध्यवसायाद भाविरूपेऽपि दर्शनव्यापारप्रसक्तेः । अतोऽपाकृतम्-"इदानींतनमस्तित्वं नहि पूर्वधिया ५ पूर्वदृशा तदा भाविकालताया असन्निधानादग्रहणम् संप्रति दर्शनकाले पूर्वरूपताया अप्यसन्निधेस्ततोऽग्रहणप्रसक्तेः। यदि पुन विरूपतामप्यध्यक्षमनुभवति 'पूर्वमेवेदं मया दृष्टम्' इति व्यवहृतिदर्शनात् तर्हि प्रथमसंवेदनमेव मरणावधिरूपपरम्परामधिगच्छतीति तदैव मृतो भवेत् । न च मृतिसद्भावे मृतो भवत्युत्पत्तिसमये तु नासाविति कुतोऽयं दोषः यतो यदि तदासौ नास्ति कथमसती
सौ दर्शने प्रतिभाति? तदप्रतिभासने तु कथं भाविरूपपरिगतो भावोऽवभातो भवेत् ? यदेव तत्र १० वर्तमान रूपमाभाति तदेवाध्यक्षमस्तु न भावि यदि तु तदपि तदाध्यक्षं तदाद्याध्यक्ष एव मृत्युपाधेः
सकलविषयस्य प्रतिभातस्यास्तमयात् तद्विषां तदुत्तरकालभाविनी सर्वा मतिर्निविषया भवेत् । किञ्च, भावि-भूतयोरध्यक्षविषयत्वे भिन्नमपि तदध्यक्षविषयं भवेदिति सर्वस्त्रिकालदर्शी भवेदिति "भविष्यंश्चैषोऽर्थो न ज्ञानकालेऽस्तीति न प्रतिभाति" [.
] इति निराकृतं द्रष्टव्यम् भावि-भूतकालतावद भविष्यतो धर्मादेर्दर्शनकालेऽसतोऽपि प्रतिभासनात् । न चाभिन्नयोर्भावि
रूपयोः प्रतिभासेऽपि भाविधर्मादेभिन्नत्वान्न प्रतिभासः भेदेनाध्यक्षप्रतिभासनाविरोधात् दृश्यन्त एव हि भिन्नरूपा घट-पटादयोऽध्यक्षप्रतिभासमादधानास्तन्न भाविभूतरूपताध्यक्षावसेयेति स्मृतिविषयः पूर्वरूपता दर्शनावभासिनोऽर्थस्य भाविरूपता चानुमानावसेया । तेन
"न च स्मरणतः पश्चादिन्द्रियस्य प्रवर्तनम्" ॥
"वार्यते केनचिन्नापि तदिदानी प्रदुष्यति"। २०
__ [श्लो० वा० प्रत्यक्ष० श्लो० २३५-२३६] इति निरस्तम् यतो यदि स्मरणादूर्ध्व वर्तमानरूपे इन्द्रियस्य प्रवर्त्तनमभिप्रेतं तथासति वर्तमानमात्रपरिच्छेदान्न स्मरणोपढौकितैकत्वग्रहः । अथ पूर्वरूपे तत्रापि यथा प्राक् स्मृतेर्दर्शनं पूर्वरूपतायामविषयत्वान्न प्रवर्तते तथा तदुत्तरकालमपि अविषयत्वाविशेषात् । “तदा प्रवर्तने चक्षुषो न दोषः"
] इत्यत्रापि यद्यसन्निहिते स्मरणोपढौकिते नयनं प्रवर्तते तह्यविद्यमानविषयत्वात् २५ तदालम्बनं ज्ञानं निर्विषयं भवेदिति कथं न दोषः? तिमिरोपहतदृशोऽप्यसत्यदर्शनमेव दोषः तच्चा
त्रापि समानमिति कथं न दोषः? अथ वर्तमाने स्मृत्युत्तरकालं तत् प्रवर्तमानमदुष्टं तर्हि नैकत्वप्रतीतिः। न च यदेव वर्तमानं तदेव पूर्वमिति भेदाभावात् तत्त्वग्रहः अभेदस्यासिद्धेः-न हि दृश्यमान-स्मर्यमाणयोरमेदसिद्धिः दृश्यमाने स्मृतेः स्मर्यमाणे च दृशोऽनवतारात् । न च स्मरणोपनीते
पूर्वरूपे दोषाभावेऽपीन्द्रियप्रवर्तनं युक्तम् धूमदर्शनोत्तरकालं स्मृत्युपस्थापिते पावकेऽपि दोषा३० भावादिन्द्रियप्रवृत्तिप्रसक्तेः शक्यं ह्यत्रापि वक्तुम्
न चापि लिङ्गतः पश्चादिन्द्रियस्य प्रवर्तनम् ।
___ वार्यते केनचिन्नापि तदिदानी प्रदुष्यति ॥ अथ प्रत्यक्षप्रतिभाताद्भूमात् स्पष्टावभासाद् व्यतिरिक्ता स्मृतिप्रभवानुमितिर्भिन्नाकाराग्निमुल्लिखतीति न तत्र दृगवतारस्तर्हि विशदहगवसेयाद् रूपादस्पष्टतया पूर्वरूपमुल्लिखन्ती स्मृत्युपजनिता प्रति३५ पत्तिर्न दृगुपदर्शितं रूपमवतरतीत्यभ्युपेयम् ततः स्मृतेः पूर्वमुत्तरकालं वा पौर्वापर्यविविक्तं वर्तमान
कालमर्थ दृगवतरतीति नैकत्वग्राहिणी । ततो विकल्पविकलाध्यक्षमतिः सिद्धा एकत्वप्रतिपत्तिस्तु स्मृतिकृतोदया पृथगेव पूर्वापरविविक्तरूपावभासिस्पष्टदृशः।
अथ पौर्वापर्ये दृशोऽप्रवृत्तेर्न तहहात् सविकल्पाध्यक्षमतिः जातिगुणक्रियादीनां तु दर्शनविषयत्वात तद्विशिष्टार्थप्रतिपत्तिः सविकल्पिका भविष्यति, नः जात्यादेः खरूपानवभासनातन हि
१ "मृतिः"-बृ० टि.। २“मृतिः"-वृ.टि.। ३ “यतो मृतेरभावस्ततः कथं भाविरूपपरिगतो भावो भवेत्"-बृ.टि.। ४-यात्तदु-बृ०। ५-ध्यंश्चैकार्थी वृ. वा. बा. भ. मां. विना। ६ पृ. ३१९ पं० ६-७ । प्रमेयक० पृ. ९७ द्वि. पं०९। ७ “परोदिते"-बृ० टि.। ८ “एकल-" बृ.टि.।