________________
ज्ञानमीमांसा |
भावात् । न चाध्यक्षबुद्धेस्तत्वावसायः प्रथमाक्षसन्निपातवेलायामेव नीलादिरूपतावत् तन्निर्भासोदयप्रसक्तेः। अतो न कल्पनाध्यक्षविषयस्तत्त्वम् आद्यदर्शनानधिगतत्वात् ।
४९५
अथ सहकारिवैकल्याद् यद्यप्याद्यदर्शनावभासि न तत्त्वं तथापि न तन्नास्ति न हि तीक्ष्णांशुकरनिकरोपहतदृशां गर्भगृहाद्यनुप्रवेशानन्तरमप्रतिभासमाना अपि घटादयो भावाः स्वस्थीभूतनेत्राणां न प्रतिभान्ति, न च प्रागप्रतिभासनान्न सन्ति यथा चं सहकारिवशात् पूर्वमप्रतिभाता अपि पश्चात् ५ प्रतिभान्ति तथात्राप्याद्यदर्शनं शुद्धार्थावभासि यद्यपि तत्त्वं नानुभवति स्मरणसहायाक्षप्रभवा तु प्रत्यभिज्ञा तदनु भविष्यतीति न तत्त्वस्यासत्त्वम् नाप्यक्षान्वयव्यतिरेकानुविधायिनी प्रत्यभिज्ञा न प्रत्यक्षमिति, अत्रोच्यते; यद्यक्षप्रभवा संविदाद्या न तत्त्वमवभासयति पश्चादपि तदविषयत्वान्नावभासयेत् यथा ह्यक्षमविषयत्वान्नैकत्वे प्रतिपत्तिं विदधाति तथा स्मरणसहकृतमपि न तत्र तां विधास्यति अविषयत्वाविशेषात् न हि परिमलस्मरणसहायमपि लोचनं गन्धे प्रतिपत्तिकृदुपलब्ध- १० मिति न तत्त्वग्रहणमध्यक्षात् । किञ्च किं कुर्वाणा स्मृतिरिन्द्रियस्य सहकारित्वं प्रतिपद्यते ? पूर्वापरस्य ढौकनमिति चेत्; ननु विनष्टेऽप्यर्थे स्मृतिरुदयन्ती दृष्टेति कथं तत्सन्निधापिते' पौर्वापर्ये प्रवर्तमानाध्यक्षधी: सत्यार्था भवेत् ? अथ यदुपरतं वस्तु तद्राहिणी बुद्धिर्न सत्यार्थग्राहिणीति युक्तम् अनुपरतं त्वर्थमवगच्छन्ती कथं सा न सत्यार्था ? अयुक्तमेतत्; यतः स्मर्यमाणस्यार्थस्यानुपरतिः कुतोऽवगता ? न स्मरणात् व्युपरतेऽपि स्मृतिप्रवृत्तेरित्युक्त- १५ त्वात् । न च स्मरणोपनीतपौर्वापर्यस्य दर्शने प्रतिभासनात् तदप्रच्युतिः इतरेतराश्रयदोषप्रसक्तेः । तथाहि - स्मर्यमाणस्यार्थस्यानस्तमयसिद्धेस्तदुपनीते तत्र दर्शनप्रवृत्तिः सिद्ध्यति तत्सिद्धौ च स्मरणोपनी तस्यानस्तमयसिद्धिरिति कथं नेतरेतराश्रयत्वम् ? अथ स्मृतिः संप्रति प्रतिभासविषयादर्थाद् भिन्नं विषयमध्यवस्यन्ती निरालम्बना स्यात् प्रतिभासविषयं तमेवार्थमुल्लिखन्ती तु कथमसदर्थ - विषया ? न; दर्शनगृहीतमेवार्थमुल्लिखतीत्यत्र प्रमाणाभावान्न स्मरणोपनीतै कत्वावभासिन्यध्यक्षमतिः २० सत्यार्थग्राहिणी सिद्धा । न च पूर्वदर्शनमेव पूर्वरूपसङ्गतमर्थमनुभव देकत्वे प्रमाणम् यतो यदि पूर्वरूपतामर्थस्याऽऽद्यदर्शनमेवावभासयति तथासति पूर्वापरैकत्वं तदेवावगमयिष्यतीति तत्र स्मृतिः प्रवर्तमाना व्यर्था । न च तदपि पूर्वरूपतां तस्यावभासयितुं क्षमम् तस्य सन्निहितमात्रविषयत्वात् पूर्वरूपता हि पूर्वदेश-काल- दशासम्बन्धिता पूर्वदेशादीनां च तद्दर्शने अप्रतिभासनात् न तत्संस्पर्शिरूपप्रतिभासस्तत्र संभवी न हि तदप्रतिभासे तत्सम्बन्धिपदार्थ रूपप्रतिभासः अन्यथा नीलता - २५ प्रतिभासेऽपि पीते नीलसम्वन्धिताऽवगतिर्भवेत् । तन्नैकत्वग्राहिण्यध्यक्षमतिः । यच्च 'दृष्टता प्रत्यक्षग्राह्या' इति परैरुच्यते तत्र दृष्टता यदि तद्दृशि प्रतिभातता तदा वर्त्तमानतैव । अथ पूर्वदृशि प्रतिभातता तदा पूर्वदृशोऽप्रतिभासने कथं तत्प्रतिभाततावभासः संप्रति संवेदने ? तत्र हि स्वदृष्टतया सन्निहितं रूपमाभातीति सैव तत्र युक्ता पूर्वदर्शनं तु प्रत्यस्तमितमिति तद्दृष्टतापि व्युपरतैवेति कथं सा वर्तमानदृशि प्रतिभासेत ? तदभ्युपगमे वा तद्दृशो निरालम्बनत्वप्रसक्तिः । ३० न च पूर्वदृश्यमानता तत्र व्युपरता दृष्टता तु तदैवोत्पन्नेति कथमसती येन तां प्रतियती प्रत्यक्षमतिर्निरालम्बना भवेत् ? यतो यदि दृष्टता तत्र सन्निहिता भवेत् तदा प्रथममागतो नीलादिरूपतामिव तामप्यधिगच्छेत् न चाधिगच्छतीति ज्ञानस्वभावोऽसाधारणतयाऽसौ नार्थस्वरूपमिति कुतोऽध्यक्षावसेया ? तथाहि - पूर्वदर्शनमनुस्मरन्नेव पूर्वदृतां व्यवहारी तत्राध्यारोपयति विस्मरणे तदनध्यवसायात् यच्च स्मृतिरध्यवस्यति स्वरूपं न तद्दर्शनपथोपयुक्तम् आकारभेदात् । न च ३५ तद्दर्शन- स्मरणे एकं विषयं विभृतः 'पूर्वदृएं पश्यामि' इत्यध्यवसायात् । यतः किं स्मर्यमाणं दृश्यमानतया रूपं प्रतीयते, आहोस्विद् दृश्यमानं स्मर्यमाणतयेति विकल्पद्वयम् । तत्र यद्याद्यः पक्षस्तथासति स्मर्यमाणं परिस्फुटतया रूपमाभातीति कथं तस्य परोक्षता ? अथ द्वितीयस्तत्रापि दृश्यमानं स्मर्यमाणेन रूपेणावभातीति सर्वं परोक्षं भवेदिति न काचिदध्यक्षमतिः सत्यार्था स्यात् । अतोऽक्षधीवर्तमानमेव रूपं प्रत्येति स्मृतिरपि तदसंस्पर्शि परोक्षं रूपमिति न तयोरैक्यम् प्रतिभासभेदस्य सर्वत्र ४० भेदकत्वात् तस्य च विशदाविशदरूपतयावभासमानयोर्दश्य- स्मर्यमाणयोः सद्भावात् कथं न भेदः ? ४ - गमे त बृ० ।
१ च पूर्वसह - भ० मां० । २- धानेपि ते बृ० वा० वा० विना । ३ - स्यानु -वृ० । ५-रणे' ए-'णे' इत्यस्य शिरसि न्यस्तोऽयं द्वित्वसंख्यासूचकोऽङ्को द्विवचनख्यापनाय प्रतौ निर्दिष्टो भाति ।