________________
४९४
द्वितीये काण्डेयोग्यदेशस्थप्रतिपत्तृणां दण्ड-पुरुषरूपयोरिव तुल्याकारतयाऽवभासो भवेत् न चैवम् । तेन दण्डपुरुषस्वरूपमेव स्वतन्त्रमध्यक्षावसेयम् विशेषणविशेष्यभावस्तु कल्पनाविरचित एव । येन हि दण्डोपकृतपुरुषजनितार्थक्रिया प्रागुपलब्धा तदर्थी च स तत्र विशेषणत्वेन दण्डं विशेष्यत्वेन च पुरुष प्रतिपद्यते प्रधानत्वात् येन च पुरुषोपकृतदण्डेन फलमभ्युपेतं स तत्र दण्डं प्राधान्याद ५विशेष्यमध्यवस्यति अपरिगतफलोपकारस्य प्रथमदर्शने स्वरूपमात्रनिर्भासात् ततोऽन्वय-व्यतिरेकाभ्यामवगतसामर्थ्य द्वयमासाद्य विशिष्टत्वप्रतिपत्तिः प्रागवगते च सामर्थ्य नेन्द्रियस्य व्यापार: तस्यासन्निहितत्वात् । न च व्यापाराविषये तत् प्रतिपत्तिजननसमर्थम् । न च पुरःसन्निहितेऽर्थे प्रवर्तमानमिन्द्रियं तत्रापि प्रतिपत्तिमुपजनयितुं समर्थम् वर्तमानकालालीढनीलादिदर्शनप्रवृत्तस्य चिरातीतभावपरम्परादर्शनप्रवृत्तिप्रसक्तेः सकलातीतभावविषयस्मृतेरध्यक्षता भवेत् तथा खगोचर१०चारिणी स्मृतिरपि स्फुटमर्थं वर्तमानसमयमुद्भासयिष्यतीति सर्वाक्षमतिः स्मृतिर्भवेत् । न च वर्त्त
मानमर्थमध्यक्षमेवोद्भासयतीति किं तत्र स्मृत्या? यत्र हि दर्शनानवतारस्तत्र स्मृतिपरिकल्पना फलवती स्पष्टदर्शनावतारे तु वर्तमानसमयभाविनि रूपादौ स्मृतिप्रवृत्तिरसंभविनी विफला चेति न तत्परिकल्पना; नन्वेवमतीते विशेषणादी स्मृतिरेव प्रवर्तिष्यत इति किं तत्र विशदसंविदवतारेण?
सा हि सन्निहितमेवार्थमवतरति न च तदा विशेषणादयः सन्निहितास्तानवलम्बमाना निरालम्बनैव १५भवेत् ततो विशुद्धरूपमात्रप्रतिभासादध्यक्षसंविनिरस्तविशेषणमर्थमवगमयति विशेषणयोजना तु स्मरणादुपजायमाना अपास्ताक्षार्थसन्निधिर्मानसी । न च स्पष्टप्रतिभासाद वर्तमानार्थग्राहिणीति वक्तव्यम् तामन्तरेणापि स्फटमर्थप्रतिभासात् । न च स्मृतिमन्तरेणापि यदि विशदतनुरात्मा प्रतिभातीति न तस्य ग्राहिका स्मृतिस्ताक्षव्यापारसद्भावे सुखमन्तरेणापि विषयावगतिरस्तीति
सुखमपि विषयग्राहि न स्यात् यतो निरस्तवहिरर्थसन्निधयो भावनाविर्भूततनवः सुखादयो नार्था२०वेदकाः स्वग्रहणपर्यवसितस्वरूपत्वात् तेषाम् अक्षान्वयव्यतिरेकानुविधायिन्यो विशदसंविद एव बहिरावभासिकाः पृथगवसीयन्ते सुखादिभ्यस्ता एव तवभासिकास्तद्वद् विकल्पोऽपि नार्थसाक्षात्करणखभाव इति ।
ननु यदि न पुरःस्थितार्थग्राही विकल्पः कथं ततस्तत्र प्रवृत्तिर्भवेत् ? यदेव विशेषणादिकं प्राक् तेनानुभूतं तत्रैव ततः प्रवृत्तिर्भवेत् नहि स्वात्मानमनारूढेऽर्थे प्रवृत्तिविधायि विज्ञानमुपलब्धम् २५ अन्यथा शुक्लमर्थमवतरन्ती संविन्नीलार्थे प्रवर्तिका भवेत । न च निर्विकल्पकमेव संवेदनं वर्तमानेऽर्थे प्रवृत्तिविधायि, विकल्पमन्तरेणापि सर्वत्र प्रवृत्तिप्रसक्तेः । न च सुखसाधनत्वनिश्चयमन्तरेण पुरःप्रकाशनमात्रेण कश्चित् प्रवर्तत इति विकल्प एव पुरोव्यवस्थितार्थग्राही प्रवर्तकत्वात् अक्षानुसारितया च स एवाध्यक्षमिति युक्तं पूर्वदृष्ट-नामादिविशेषणग्राही निश्चय इति, एतदप्यसङ्गतम्। धूमग्राह्यध्यक्षव्यतिरिक्ताऽस्पष्टावभासाग्यनुमानाकारस्येव विशददर्शनभृतोऽर्थाकाराद व्यतिरिक्त३० विकल्पमत्युल्लिख्यमानाऽस्पष्टाकारस्य तदाऽननुभवात् । ततो वहिरर्थग्राहिण्यो विकल्पमतयोऽभ्युप
गन्तव्या न पुनस्तदा विकल्पमतिः पूर्वदृष्टविशेषणमात्राध्यवसायिनी अपरा पुरोवर्तिविशदार्थावभासाध्यक्षसंविदपरैव भेदप्रतिभासाभावादिति, असदेतत: यतो यदि नाम पुरोवर्तिनमर्थ विकल्पमतिरुद्दयोतयितुं प्रभवति तथापि न तत्र प्रवृत्तिःप्रवृत्तिविरचनाचतुरार्थक्रियासमर्थरूपानवभासनात् तवभासने ह्यर्थक्रियार्थिनां प्रवृत्तिर्युक्ता । न चार्थक्रियासम्बन्धं वर्तमानसमयसम्बन्धिन्यर्थे ताः ३५प्रदर्शयितुं समर्थाः तदानीं तस्या असन्निधानात् असन्निधौ च न तत्र सामर्थ्यावगतिः पदार्थखरूपमात्रावसायात् । न च तत्स्वरूपमात्रावसायादेव सामर्थ्यावगतिः अतिप्रसङ्गात् । ततः पुरोवतिनि प्रवर्तमानोऽपि न विकल्पः प्रवर्तकः। न च यतः पूर्वमर्थक्रिया प्रभवन्ती दृष्टा संप्रत्यपि तदर्थक्रियार्थितया तदध्यवसायात प्रवृत्तिर्भविष्यति, यतो येन प्रागर्थक्रिया निर्वर्तिता तदेवेदं पुरःप्रतिभातीति
तन्निसाभावे कुतः सिध्यति? न च कल्पनैव तदध्यवसायिनी तन्निर्भासः यतो न कल्पनाबुद्ध्य४०ध्यवसितं तत्त्वं परमार्थसद्व्यवहारमवतरति प्रत्यक्षप्रतिभातस्यैव तद्व्यवहाँरावतारात् तदभावे तद्
१-ददर्शनाव-वा. बा. भा. मा० । २-त्मा न प्र-भां० मा । ३ पुरोऽवस्थि-वृ० वा. बा० भां० मा०। ४-म्बन्धं प्रव-वा० बा० ।-म्बन्धव-बृ० आ० हा० वि०। ५“अर्थक्रियासमर्थवस्तु"-बृ.टि.। ६-वुझ्यव-बृ० वा. वा. विना। -हारात्तद-आ० वि०।