________________
ज्ञानमीमांसा।
४९३
पश्यन्ती वागेव न भवति बोधरूपता(पत्वात्) वर्णपदाद्यनुक्रमलक्षणत्वाद् वाचः न तद्युक्ता प्रतिपत्तिर्विकल्पिका अपि तु निर्विकल्पिकैव श्रुतिस्मृतिविषयवर्णपदानुक्रमोल्लेखशून्यत्वात् । यदि चाविकल्पकं संवेदनं किञ्चिन्नाभ्युपेयते तदा वाक्संस्मरणासंभवाद् विकल्पस्याप्यसंभव एव स्यात् । अथ प्रथमं संवेदनं तदा वाचकस्मृतेरभावादविकल्पकम् तजनितवाचकस्मृतिसहकारीन्द्रियप्रभवं त्वभिधानानुरक्तार्थावभासि द्वितीयं सविकल्पकम् , नैतदस्ति; यतः स्मृतिसचिवमपि लोचनं न५ वाचके तत्संकेतसमयभाविनि प्रवृत्तिमदिति कथं तदविषये स्मृतिदर्शितेऽपि वाचकानुषक्तेऽध्यक्षप्रवृत्तिः यतो न गन्धस्मृतिसहकारिलोचनमविषये परिमलादौ संवेदनं जनयद दृष्टम् किन्तु सन्निहित एव मलयजरूपे दर्शनं तु तत्सहचारिणि परिमलादौ स्मृति जनयतीति न तत् तद्रूपसंविदो रूपं हेतुविषयभेदात् तथात्रापि नयनसंवेदनं रूपमात्रसाक्षात्कारि भिन्नम् तद्दर्शनोपजनितं तु विकल्पशानं वचनंपरीतार्थाध्यवसायस्वभावं भिन्नमेवेत्यविकल्पकमध्यक्षं सिद्धम् ।
[नैयायिकादिसम्मतं केवलसविकल्पकवादमुपन्यस्य निर्विकल्पकवादिना तस्यापि दूषणम् ] ___ स्यादेतत् यद्यपि वाचो नयनजप्रतिपत्त्यविषयत्वान्न तद्विशिष्टार्थदर्शनमध्यक्षं तथापि द्रव्यादे. नयनादिविषयत्वात् तद्विशिष्टार्थाध्यक्षप्रतिपत्तिः सविकल्पिका भविष्यति । तथाहि-नियतदेशादितया वस्तु परिदृश्यमानं व्यवहारोपयोगि अन्यथा तंदसंभवाद् देशादिसंसर्गरहितस्य च तस्य कदाचिदप्य. ननुभवात् यच्च देशादिविशिष्टतया नामोल्लेखाभावेऽपि वस्तु संगृह्णाति तत् सविकल्पकम् विशेषण-१५ विशेष्यभावेन हि प्रतीतिः कल्पना देशादयश्च नीलादिवद् तदवच्छेदका दर्शने प्रतिभान्तीति न तत्र शब्दसंयोजनापक्षभावी दोषः। ___एतदप्यसत्, यतोऽध्यक्षं पुरोवर्ति नीलादिकमवलोकयितुं समर्थम् न तवष्टब्धं भूतलम् तदनवभासे च कथं तद्विशिष्टमर्थ तदवगन्तुं प्रभुः(भु)? यदपि तदनवष्टब्धं तत्र प्रतिभाति तदपि न तद्विशेषणमिति शुद्धस्यैव सकलस्य प्रतिभासनान्न विशेषणविशेप्यभावग्रहणम् । तथाहि-२० दर्शने रूपमालोकश्च स्वखरूपव्यवस्थितं द्वितयमाभाति न तव्यतिरिक्तं काल-दिगादिकमिति कथमप्रतिभासमानं तद्विशेषणं भवति सर्वत्र तद्भावग्रसक्तेः तेन 'देशादिभिर्विशिष्टस्य सर्वस्यार्थस्य संवेदनम्' इति निरस्तम् विशेषणभूतस्य कस्यचिदप्रतिभासनात् । यत्रापि स्थिराधेयदर्शनाद्धस्तादाधारमनुमिन्वन्ति तत्रापि नानुमानावसेयमधिकरणमिन्द्रियविज्ञानविषयविशेषणम् नापि तदवसायोऽक्षवुद्धेः स्वरूपमिति न विशेषणविशिष्टप्रतिपत्तिरक्षबुद्धिः । किञ्च, २५ समानकालयोर्वा भावयोर्विशेषणविशेष्यभावम् भिन्नकालयोर्वा अक्षवुद्धिरवभासयति? न तावद् भिन्नकालयोः तयोर्यगपत् तत्राप्रतिभामनात-यदा हि विशेषणं स्वादिकं पूर्वमवभाति न तदा स्वाम्यादिकं विशेष्यम् यदापि चोत्तरकालं तदवभाति न तदा स्वादिकम् असन्निधानादिति न तद्विशिष्ठतयाऽध्यक्षेण तस्य ग्रहणम् । तथाहि-चक्षुर्व्यापारे पुरोव्यवस्थितश्चैत्र एव परिस्फुटमाभातीति तन्मात्रग्रहणान्न तद्विशिष्टत्वप्रतीतिः । न चासन्निहितमपि विशेषणं स्मरणसन्निधापितमक्षबुद्धिरधि-३० गच्छति स्मरणात् प्रागिव तदुत्तरकालमपि विशेषणासन्निधेस्तुल्यत्वान्न तत्र तदाप्यध्यक्षबुद्धिप्रवृत्तिरित्यपास्तविशेषणस्यार्थस्य साक्षात्करणं युक्तियुक्तम् । नापि तुल्यकालयोर्भावयोर्विशेषणविशेष्यभावमध्यक्षमधिगन्तुं समर्थम् तस्यानवस्थितेः । तथाहि-अविशिष्टेऽपि दण्डपुरुषसंयोगे कश्चिद् दण्डविशिष्टतया पुरुष 'दण्डी'इति प्रतिपद्यते अपरस्तु तत्रैव पुरुषविशिष्टतया 'दण्डोऽस्य'इति प्रतिपद्यते असङ्केतितविशेषणविशेप्यभावस्तु 'दण्ड-पुरुपौ' इति स्वतनयं द्वयमधिगच्छति वास्तवे तु तस्मिन् ३५
१-धरूप। ताव-वा. वा० । “संहृताशेषवर्णादिविभागानु पश्यन्ती सूक्ष्मा चान्तज्योतीरूपा वागेव न भवति अनयोरात्मदर्शनलक्षणखात्" । संहृत-"नष्ट-"1-वर्णादि-"पद-वाक्य-"1-विभागा-“अर्थदर्शनम्" ।-पश्यन्ती "अर्थदर्शनलक्षणा" ।-ज्योतीरूपा “आत्मदर्शनलक्षणा"-प्रमेयक पृ० १२ प्र. पं. ८ तथा टि० २७, २८, २९, ३०, ३१ । २ "पश्यन्तीवाचा युक्ता"- बृ.टि.। ३-कल्पकै-बृ०। ४ यदि वावि-बृ• विना। ५-चके संकेत-वा. वा० भ० मा०।-चके तत्सम-वृ०। ६ न तद्र-बृ० वा. बा. हा. वि. विना। -नव्यप-आ० हा० वि० । ८ "एवं शब्दब्रह्मवादिपूर्वपक्षप्रतिक्षेपः कृतः। संप्रति नैयायिकान् प्रत्याह"-बृ.टि.। ९-पि न वा-वा. बा. विना । १. "व्यवहार-" बृ.टि.। ११ प्र० पृ. पं०१३। १२ "स्वादि-" बृ.टि.। १३ "उत्तरकालेऽपि"-पृ. टि.।