________________
४९२
द्वितीये काण्डेविषयां मध्यमां तामवगमयति तामन्तरेणापि शुद्धसंविदो भावात् । संहृताशेषवर्णादिविभागा
केवलं बुद्धथुपादानक्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ अविभागा तु पश्यन्ती सर्वतः संहृतकमा । खरूपज्योतिरेवान्तस्सैषा वागनपायिनी॥ सैषा संकीर्यमाणाऽपि नित्यमागन्तुकैर्मलैः । अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ॥
तस्यां दृष्टस्वरूपायामधिकारो निवर्तते । पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥ इति सैषा त्रयी वाक् चैतन्यग्रन्थिविवर्तवदनाख्येयपरिमाणा तुरीयेण भागेन मनुष्येषु प्रत्यवभासते"-का. १ पृ०५६ पं० १-पृ. ५७ पं०६। "एतेन
वाग्रूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी॥ इति वाक्संस्पृष्टस्यैव सकलार्थस्य संवेदनम् इति शाब्दिकमतं निरस्तम् अर्थदर्शने तद्वाक्स्मृतेस्तत्संस्पर्शः तत्संस्पर्शे च तत्संस्पृष्टार्थग्रहणमिति अन्योन्याश्रयात् अगृहीतसंकेतस्य च बालस्य वागसंस्पर्शनार्थाग्रहणप्रसङ्गात् 'किम्' इति वाक्संस्पर्श च सामान्यग्रहेऽपि विशेषाग्रहात् । किञ्च, वैखरी वाचं न नायनं ज्ञानमुपस्पृशति तस्याः श्रोत्रमात्रग्राह्यलाभ्युपगमात् । नापि स्मृतिविषयां मध्यमाम् तामन्तरेणापि शुद्धसंविदो भावात् । संहृताशेषवर्णादिविभागा पश्यन्ती च वागेव न भवति बोधरूपलात् वाचश्च वर्णरूपत्वात् अतो न तद्युक्ता प्रतिपत्तिः अपि तु अविकल्पिकैवेति"-शास्त्रवा० स्याद्वादक. पृ० १५५ द्वि. पं० १०-पृ० १५६ प्र. पं०३ । "उक्तंचवैखरी शब्दनिष्पत्तिमध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी" ॥
-कुमारसं० स० २ श्लो० १७ टीका।। श्रुतज्ञानभेदान् संख्यापयता विद्यानन्दिवामिना स्याद्वाददृष्ट्या द्रव्यभावभझ्या ता एव चतस्रोऽपि वैखर्यादयो वाचो द्रव्य-पर्याय-व्यक्ति-शक्तिप्रकारतया निरूपितास्तत्त्वार्थश्लोकवार्तिके तट्टीकारूपे तत्त्वार्थश्लोकवार्तिकालङ्कारे च"चतुर्विधा हि वाग् वैखरी मध्यमा पश्यन्ती सूक्ष्मा चेति"-१, २० पृ. २४० पं० १९ ।
"स्याद्वादिनां पुनर्वाचो द्रव्य-भावविकल्पतः । द्वैविध्यं द्रव्यवाग द्वेधा द्रव्यपर्यायभेदतः ॥ श्रोत्रग्राह्यात्र पर्यायरूपा सा वैखरी मता । मध्यमा च परैस्तस्याः कृतं नामान्तरं तथा ॥ द्रव्यरूपा पुनर्भाषावर्गणाः पुद्गलाः स्थिताः । प्रत्ययान्मनसा नापि सर्वप्रत्ययगामिनी ॥ भाववाग् व्यक्तिरूपात्र विकल्पात्मनिबन्धनम् । द्रव्यवाचोभिधा तस्याः पश्यन्तीत्यनिराकृताः॥ वाग्विज्ञानावृतिच्छेदविशेषोपहितात्मनः । वक्तुः शक्तिः पुनः सूक्ष्मा भाववागभिधीयताम् ॥ तया विना प्रवर्तन्ते न वाचः कस्यचित् क्वचित् । सर्वज्ञस्याप्यनन्ताया ज्ञानशक्तेस्तदुद्भवः ॥” ।
-१,२० पृ० २४१ श्लो० १०४-१०९। "ननु च श्रोत्रग्राह्या पर्यायरूपा वैखरी मध्यमा च वागुक्ता शब्दाद्वैतवादिभिः यतो नामान्तरमानं तस्याः स्यान पुनरर्थमेद इति । नापि पश्यन्ती वाग् वाचकविकल्पलक्षणा सूक्ष्मा वा वाक् शब्दज्ञानशक्तिरूपा किं तर्हि स्थानेषु उरःप्रभृतिषु विभज्यमाने विवृते वायौ कृतवर्णवपरिग्रहा वर्णखमापद्यमाना वक्तृप्राणवृत्तिहेतुका वैखरी “वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना" इति वचनात् । तथा मध्यमा केवलमेव बुद्धथुपादाना कमरूपानुपातिनी वक्तृप्राणवृत्तिमतिक्रम्य प्रवर्तमाना निश्चिता "केवलं बुद्धथुपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥” इति वचनात् । पश्यन्ती पुनरविभागा सर्वतः संहृतकमा प्रत्येया। सूक्ष्माऽत्र खरूपज्योतिरेवान्तरवभासिनी नित्यावगन्तव्या । “अविभागानु पश्यन्ती सर्वतः संहृतकमा । खरूपज्योतिरेवान्तःसूक्ष्मा वागवभासिनी ॥” इति वचनात् । ततो न स्याद्वादिनां कल्पयितुं युक्ताश्च. तस्रोऽवस्थाः श्रुतस्य वैखर्यादयस्तदनिष्टलक्षणखादिति केचित् । तेऽपि न प्रातीतिकोक्तयः । वैखर्या मध्यमायाश्च श्रोत्रग्राह्यललक्षणानतिक्रमात् । स्थानेषु विवृतो हि वायुर्वक्तृणां प्राणवृत्तिश्च वर्णवं परिगृह्णत्या वैखर्याः कारणम् । वर्णवपरिग्रहस्तु लक्षणम् । स च श्रोत्रग्राह्यवपरिणाम एव इति न किञ्चिदनिष्टम् । तथा केवला बुद्धिर्वक्तृप्राणवृत्त्यतिक्रमश्च मध्यमायाः कारणं तु (3) लक्षणं क्रमरूपानुपातित्वमेव च तत्र श्रोत्रग्रहणयोग्यत्वाविरुद्धमिति न निराक्रियते । पश्यन्याः सर्वतः संहृतक्रमसमविभागलं च लक्षणम् । तच यदि सर्वथा तदा प्रमाणविरोधः, वाच्यवाचकविकल्पक्रमाविभागयोस्तत्र प्रतिभासनात् कथंचित् तु संहृतकमत्वं विभागलं च तत्रेष्टमेव युगपदुपयुक्तश्रुतविकल्पानामसंभवाद् वर्णादिविभागाभावाचानुपयुक्तश्रुतविकल्पस्येति तस्याविकल्पात्मकत्वलक्षणानतिक्रम एव । सूक्ष्मायाः पुनरन्तःप्रकाशमानस्वरूपज्योतिलेक्षणलं कथंचिन्नित्यत्वं च नित्योद्घाटितानिरावरणलब्ध्यक्षरज्ञानाच्छक्तिरूपाच चित्सामान्यान्न विशिष्यते"-१,२०पृ० २४१५०२३-पृ. २४२ पं०६।