________________
ज्ञानमीमांसा |
५३१
चायम्' इत्येतद् ज्ञानमिन्द्रियार्थसन्निकर्षजत्वात् प्रत्यक्षं फलं तत्स्मृतेस्तु प्रत्यक्षप्रमाणता, सुखदुःखसम्बन्धस्मृतेस्त्विन्द्रियार्थसन्निकर्षसहकारित्वात् तथा चायम् इति सारूप्यज्ञानजनकत्वेनाध्यक्षप्रमाणता सारूप्यज्ञानस्य च 'सुखसाधनोऽयम्' इत्यानुमानिकफलजनकत्वेनानुमानप्रमाणता । न च सुखसाधनत्वज्ञानमिन्द्रियार्थसन्निकर्षजं शंक्तरसन्निहितत्वात् शक्तिर्हि सहकारिकारणान्तरसान्निध्यम् तच्चासन्निहितमिति नाध्यक्षप्रमाणफलं सुखसाधनत्वज्ञानमिति केचित् । अपरे तु५ याsयर्थे विशेष्याकृष्टमसन्निहिते विशेषणे मनः प्रवर्तते इति मनोलक्षणेन्द्रियार्थसन्निकर्षजमध्यक्षप्रमाणफलमेतज् ज्ञानमिति सम्प्रतिपन्नाः । नन्वेवमप्यव्यापकं लक्षणम् आत्मसुखादिविषयज्ञानस्याप्रत्यक्षफलत्वात् तच्च मनसोऽनिन्द्रियत्वात् अनिन्द्रियत्वं तु मनस इन्द्रियसूत्रे अपरिपाटितत्वात् प्रत्यक्षफलता च तद्विपयज्ञानस्याभ्युपगम्यते, असदेतत्; मनस इन्द्रियधर्मापतत्वेनेन्द्रियत्वात् अधिगतानधिगतविषयग्राहकत्वमिन्द्रियधर्मः स च मनसि विद्यत एव तेनेन्द्रियधमपितस्य सर्वस्यैव १० प्रत्यक्षसूत्रे इन्द्रियग्रहणेनविरोधः । ततः प्रत्यक्षसूत्र एवेन्द्रियत्वं मनसः सिद्धम् तत्सिद्धौ च नाव्याप्तिर्लक्षणदोषः । इन्द्रियसूत्रे च मनसोऽपाठः तत्सूत्रस्य नानात्वे इन्द्रियाणां लक्षणपरत्वात् सूत्रशब्देन हि जात्यपेक्षया सूत्रसमूह एवोच्यते तेन लक्षणसूत्रसमूहोद्देशार्थं तत्सूत्रम् । तथा च जिघ्रत्यनेनेति घ्राणं भूतं गन्धोपलब्धौ कारणम् ' घ्राणम्' इत्यभिधीयमाने सन्निकर्षे प्रसङ्गः तन्नि वृत्त्यर्थे 'भूतम्' इति भूतस्वभावत्वं विशेषणम् । एवं चष्टे अनेनेति चक्षू रूपोपलब्धौ कारणम् सन्निकर्षे १५ प्रसङ्गस्तन्निवृत्त्यर्थं भूतग्रहणं सम्बन्धनीयम् प्रदीपे प्रसङ्गस्तनिवृत्त्यर्थमिन्द्रियाणामिति वाच्यम् एवं वगादिष्वपि योज्यम् । एवं च सूत्रपञ्चकमेतल्लक्षणार्थ प्रत्येकमिन्द्रियाणां न पुनर्विभागार्थम् आदिसूत्रोद्दिष्टस्य भेदवतो विभागाभ्युपगमात् विभक्तविभागे चानवस्था विभागार्थे वा वाह्यानामित्यध्याहारः कार्यः स्वलक्षणसामर्थ्यात् । मनसस्तु तदनन्तरं लक्षणानुपदेशो वैधर्म्यात् तच्च तस्याभूतस्वाभाव्यात् भूतस्वाभाव्येनेन्द्रियाणि व्यवच्छिद्यन्ते "भूतेभ्यः " [ न्यायद० १-१-१२] इति वचनात् न तु मनस २० तल्लक्षणमस्ति अत एव सर्वविषयत्वं मनसः न त्विन्द्रियाणि वाद्यानि सर्वविपयाणि तन्त्रयुक्तया वा मनसोऽनभिधानम् परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः । न चैवं घ्राणादीनामप्यनभिधानं प्रसज्यते घ्राणादेरप्यनभिधाने स्वमतस्यैवाभावात् परमतमिति व्यपदेशासंभवात् । अस्ति च "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” [ न्यायद० १-१-१६] इति वचनात् मनसोऽभिधानमिन्द्रियत्वेन इन्द्रियानन्तरं त्वनभिधानं वैधर्म्यादित्युक्तम् । तन्नाव्याप्तिर्दोष इति स्थितम् ।
प्रमाणम् । यदि भावसाधनः प्रमाणशब्दः किं फलम् विषयस्याधिगतत्वात् । उक्तं फलं हानादिबुद्धय इति । ज्ञाते तद्भावात् ज्ञाते खल्वर्थे त्रिधा बुद्धिर्भवति हेयो वा उपादेयो वा उपेक्षणीयो वेति । केचित् तु सन्निकर्षमेव प्रत्यक्षं वर्णयन्ति न तश्याय्यं प्रमाणाभावात् - सन्निकर्ष एव प्रमाणमिति न प्रमाणमस्ति । उभयं तु युक्तं परिच्छेदकत्वात् उभयं परिच्छेदकम् - सन्निकर्षो ज्ञानं च । एकान्तवादिनस्तु दोष इति” - न्यायवा० पृ० २९ पं० १ । न्यायवा० ता० टी० पृ० १०२ पं० ८- पृ० १०५ पं० १६ ।
" तस्मात् सुष्टकं यदा ज्ञानं प्रमाणं तदा हानादिबुद्धयः फलमिति । तदेवं फलविशेपणपक्षे 'यतः 'शब्दाध्याहारेण वाचकं सूत्रम् यत इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशेषितं ज्ञानाख्यं फलं भवति तत् प्रत्यक्षमिति” – न्यायमञ्ज० आ० २ ० ७२ पं० ४
१-त्यक्ष फ-वा० वा० विना । २ सर्वस्येव भां० मां० । ३-नाविरोधः ल० वा० बा० आ० हा ० वि० । ४- वत्वं च वि-वृ० । ५-भागे वा बृ० । ६ " मनसः " वृ० ल० टि० । ७ " घ्राण- रसन-चक्षुस् - त्वक्-श्रोत्राणीन्द्रियाणि भूतेभ्यः" इति सूत्रम् । न्यायवा० पृ० ६९- । न्यायवा० ता० टी० पृ० २२१ - न्यायमञ्ज० आ० ८ पृ० ४७६-१ ८ प्र० पृ० पं० १९ । ९ " आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम् अनिन्द्रियार्थसन्निकर्षजं हि तदिति इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात् भौतिकानीन्द्रियाणि नियतविषयाणि सगुणानां चैषामिन्द्रियभाव इति, मनस्त्वभौतिकं सर्वविषयं च नास्य सगुणस्येन्द्रियभाव इति । सति चेन्द्रियार्थसन्निकर्षे सन्निविमसन्निधिं चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्यामः ( अ० १ ० १ सू० १६ ) इति । मनसश्चेन्द्रियभावान् तन्न वाच्यं लक्षणान्तरमिति । तन्त्रान्तरसमाचाराच्चैतत् प्रत्येतव्यमिति । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्र युक्तिः " - वात्स्या० भा० पृ० २१पं० १४ -
२५
“इन्द्रियार्थसन्निकर्षोत्पन्नमित्येवमादिलक्षणमात्मादिषु सुखादिषु च नास्ति मनसोऽनिन्द्रियत्वादव्यापकमेतत् प्रत्यक्षलक्षणमिति । कथं पुनरिन्द्रियं मनो न भवति ? इन्द्रियसूत्रेऽपठितलात् । परिपठितानि घ्राणादीनीन्द्रियाणि । न च तेषु मनः
1