________________
५३२
द्वितीये काण्डे
पठितम् । तस्मान्मनो नेन्द्रियम् । पृथक् चानभिधानान्नास्ति मनस इन्द्रियले प्रमाणं ततश्च नेन्द्रियं मनः । न चैवं प्रत्यक्षाः सुखादयो भविष्यन्तीति । प्रत्यक्षाश्चैते नानुमानिकाः लिङ्गाभावात् । न हि लिङ्गमन्तरेणानुमेयार्थो गम्यते । नाप्यन्यत् प्रमाण प्रतिपादकमस्ति सुखादीनाम् । न च तेषामनुमेयत्वम् । न चान्या गतिरस्ति । तस्मात् कर्तव्यं सुखादीनां प्रत्यक्षेण ग्रहणोपसं. ख्यानमिति । कश्चैवमाह न प्रत्यक्षाः सुखादय इति ? इन्द्रियार्थसन्निकर्षजन्यप्रत्यक्षवाद्याह । नैष दोषः । मनस इन्द्रियखादिन्द्रियार्थसन्निकर्षोत्पन्नं सुखादिज्ञानमिति । यत्तु सूत्रेऽनभिधानं तद्वैधयात् । किं तद्वैधयं ? सर्व विषयत्वासर्व विषयले । सर्वविषयं मनोऽसर्व विषयाणीतराणि । सर्वविषयं तु मनः स्मृतिकारणसंयोगाधारखात् आत्मवत् सुखग्राहकसंयोगाधिकरणवात् समस्तेन्द्रियाधिष्ठातृवाच आत्मवत् । भौतिकाभौतिकवं तु न, विरोधात् । न हि भौतिकं मनो नाप्यभौतिकमिति । कार्यधर्मावेतौ भौतिकत्वमभौतिकलं च । न च कार्य मनः । तस्मान्न भौतिकं नाप्यभौतिकमिति । श्रोत्रे चासम्भवः यदि भौतिकवाभौतिकवलक्षणाद् वैधादपरिपाठः सूत्रे मनसः, श्रोत्रमपि सूत्रे न पठितव्यं तर्हि, न हि श्रोत्रं भौतिकं नाप्यभौतिकमिति । खार्थे प्रत्ययविधानमिति चेत् । न । प्रत्ययवैयर्थ्यात् । स्यादेषा बुद्धिः खार्थिक एष प्रत्ययो भूतमेव भौतिकमिति । तच्च न। प्रत्ययवैयर्थ्यात् । न हि भौतिकमित्यनेन कश्चित्तद्धितार्थो लभ्यते । तस्माद् व्यर्थमेतत् स्वार्थे प्रत्ययविधानमिति । यत्पुनरेतत् पृथगभिधानं नास्तीति । न नास्ति युगपज्ज्ञानानुपपत्तरिति । युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमित्युच्यते । तेन च प्रतिपादित. मेतन्मनसः करणलमिति सगुणानामिन्द्रियभावो वैधर्म्यमित्येतदप्ययुक्तम् । श्रोत्रानभिधानप्रसङ्गादेव । तस्मात् सर्व विषय. खासर्व विषयत्वमेव वैधर्म्यमित्येतदेव ज्यायः । तत्रान्तरसमाचाराच्च । तन्त्रान्तरे मन इन्द्रियमिति पठ्यते । तच्चेह न प्रतिषिध्यते । अप्रतिषेधादुपात्तं तदिति न । शेषाभिधानवैयर्थ्यात् । शेषाण्यपीन्द्रियाणि तैः परिपठितानि तस्मात् तान्यपि न बक्तव्यानि यद्यप्रतिषेधादुपादानं स्यादिति । न । तत्रयुक्त्यनवबोधात् । न भवता तन्त्रयुक्तिः परिज्ञायते । परमतमप्रतिषिद्धमनुमतमिति हि तत्रयुक्तिः । न च यस्य खमतपरिग्रहो नास्ति तस्य स्वमतं परमतं वा भिद्यते । भवता च परमतानुरोधेन सर्व खमतं निवार्यत इति । तन्निवारणात् खमतं परमतमित्येतदेव न स्यात् । तस्मादस्ति मन इन्द्रियं चेति । तदुपपन्नमिन्द्रियार्थसन्निकर्षोत्पन्नं सुखादिज्ञानमिति व्यापकं लक्षणम्”-न्य यवा० पृ. ३८१० १-।
"अव्यापकलेन लक्षणाक्षेपपरं भाष्यमात्मादिष्वित्यादि, तझ्याचष्टे । इन्द्रियार्थेति । देशयति । कथं पुनरिति । परिहरति । इन्द्रियेति । मा भूदिन्द्रियसूत्रे पाठः, तद्धि बाह्येन्द्रियलक्षणमान्तरं च मन इत्यत आह । पृथक् चेति । न च सुखादौ प्रमाणान्तरमस्ति, तस्मात् पारिशेष्यात् सिद्धं प्रत्यक्षवमित्याह । प्रत्यक्षाश्चेति । ननु नेते प्रमेयाः, खसंवेदनसिद्धत्वात् , तत् किमत्र प्रमेयार्थेन प्रमाणेनेत्यत आह । न च तेषामिति । ननूक्तं स्वसंवेदनतया न प्रमाकर्मभाव एषामित्यत आह । न चान्या गतिरिति । संवेदनलेन हि तेषां खसंवेदनता न चैते संवेदनमित्युक्तमधस्तादिति भावः । आक्षेपमुपसंहरति । तस्मादिति । भाष्ये चात्मादिषु सुखादिष्विति नित्यानित्याभिप्रायं वर्गद्वयमात्मसुखदुःखखादयो नित्या अनित्याश्च सुखदुःखादय इति । तदिदमुक्तं दिग्नागेन ।
'न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् ।' मच तत् सम्भवति । घ्राणादिसूत्रेण विभागपरेण निषेधादिति भावः ।
समाधिभाष्यमिन्द्रियस्य वै सत इति । तझ्याचिख्यासुगूढाभिप्रायः पृच्छति । कश्चैवमिति । आक्षेप्नुरुत्तरमिन्द्रियार्थेति । समाधाता आह । नैष दोष इति । आक्षेप्तुरनुशयबीजमुद्धाट्य दूषयति । यत्तु सूत्र इति । नेदं विभागपरं घ्राणादिसूत्रमपि तु लक्षणपरं, तत्र चेन्द्रियमपि मनो न लक्षितं वैधादित्यर्थः । वैधर्म्यमाह । वैधय॑मिति । तत्र प्रमाणयति । सर्वविषयं खिति । वैधान्तर दूषयति । भौतिकेति । कार्य्यस्य हि विशेषौ भौतिकवाभौतिकले, भूतकार्य भौतिकं यद् भूतकायं न भवति तदू भौतिकं न भवति । भूतकार्यवप्रतिषेधश्च तदन्यकार्यलं गमयति । विशेषनिषेधस्य शेषाभ्यनुज्ञानहेतुत्वात् । इतरथा खकार्यमेवोच्येत न खभौतिकम् । तस्मादकार्य्यस्य मनसोऽभौतिकवं कार्यधर्मो विरुद्धमित्यर्थः । अपि च वैधान्मनोवत् श्रोत्रमपि न वक्तव्यमित्याह । श्रोत्रे चेति । शङ्कते । स्वार्थ इति । भूतानि हि घ्राणादीनि श्रोत्रान्तानि मनस्तु न भूतमिति वैधर्म्यमित्यर्थः । निराकरोति । तच नेति । दर्शयिष्यति हि वार्तिककारो यथा स्वार्थिको न कश्चिदपि प्रत्यय इत्यर्थः । आक्षेपहे. तुमनुभाषते । यत्पुनरिति । दूषयति । तन्नास्तीति । तदनेन सति चेन्द्रियार्थसन्निकर्षे इत्यादि भाष्यं व्याख्यातम् । यच्चापरं वेधर्म्य घ्राणादिभ्यो मनस उक्तं भाष्यकारेण तत्सिंहावलोकितेन दूषयति । सगुणानामिति । घ्राणादीनि यथा खस्खगुणेन गन्धादिना बाह्यं गन्धादि बोधयन्ति नैवं खगुणेन शब्देन श्रोत्रं बाह्यं शब्द बोधयति, तन्मनोवत् श्रोत्रमपि घ्राणादिसूत्रे न पठितव्यमित्यर्थः । भाष्योक्तेषु मध्येऽभिमतं वैधर्म्यमुपसंहरति । तस्मादिति । भूतखाभूतत्वलक्षणं वैधयं न भौतिकवाभौतिकखग्रहन शक्यमित्यवधारणाभिप्रायः। ननु युगपज्ज्ञानानुत्पत्तेख़नकारणं मनोऽस्तीत्यवगम्यते न पुनरस्येन्द्रियलमपि, तद्भावानवगमे च नेन्द्रियार्थसन्निकर्ष सुखादिज्ञानं शक्यं वक्तुमित्यत आह । तन्त्रान्तरेति । सच्यते व्युत्पाद्यते अनेन तत्त्वमिति तन्त्रं शास्त्रम् । तदनेन मनसश्चेत्यादि भाष्यं व्याख्यातम् , तद दूषितं दिग्नागेन ।