________________
ज्ञानमीमांसा ।
४८९
[ वैयाकरणसम्मतं केवलसविकल्पकवादमुपन्यस्य निर्विकल्पकवादिना तस्य दूषणम् ] अत्राह वैयाकरणः:-न वाक्संस्पर्शरहिता काचित् प्रतिपत्तिरस्ति शब्दानुविद्धायास्तस्याः प्रतिभासनात् यदि तु तत्संस्पर्शविकला साऽभ्युपगम्येत प्रकाशरूपतापि तस्या हीयेत वाग्रूपता हि शाश्वती प्रत्यवमर्शिनी च तदभावे न तस्याः किञ्चिदपरं रूपमवशिष्यते । तदुक्तम्"वाग्रूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी " ॥ [ वाक्यप० प्र० का लो० १२५ न च निरस्तोल्लेखं स्वसंवेदनं व्यवहारविरचैनचतुरमिति सविकल्पमभ्युपगन्तव्यम् ।
असदेतत् यतोऽध्यक्षं पुरः सन्निहितमेव भावात्मानमवभासयति तत्रैवाक्षवृत्तेः वाग्रूपता च न पुरःसन्निहितेति न सा तत्र प्रतिभाति । न च व्यापितया पदार्थात्मतया वा अर्थदेशे सन्निहिता वागिति तद्दर्शने साप्यवभाति, वाचामर्थदेशे सन्निधेरयोगात् । तथाहि यदाऽक्षान्वये संवेदने १० पुरस्थो नीलादिराभाति न तदा तद्देश एव शब्दात्मा वक्तमुखदेशस्य तस्यावभासनात् । न चान्यदेशतयोपलभ्यमानोऽन्यदेशोऽभ्युपगन्तुं युक्तः नीलादेरपि तथाभावप्रसक्तेः । अतो वाग्विविक्तस्य नीलादेरवभासनान्नार्थदेशे वाक्सन्निधिरिति न तत्संस्पर्शवत्यक्षमतिः । न च पदार्थात्मता वाचो युक्ता, तत्त्वेनाप्रतिभासनात् । स्तम्भादिर्हि शब्दाकारविविक्तः पुरः प्रतिभाति शब्दोऽप्यर्थविविक्तस्वरूपेण श्रोत्रज्ञानेऽवभातीति न तयोरैक्यम् प्रतिभासभेदतो भेदात् तथाप्यभेदे न क्वचिद् भेदो १५ भवेदित्यध्यक्षं शब्दविविक्तरूपादिविषयं न वाग्रूपतासंसृष्टं तत्र तस्या असन्निधानात् । व्यवहिताया अपि वाचः प्रतिभासे सकलव्यवहितभावपरम्परा प्रतिभासताम् अर्थसन्निधानेऽपि वा वाचो लोचनमतावर्थप्रतिभासे न तस्याः प्रतिभासः तदविषयत्वात् नहि यो यदविषयः स सन्निहितोऽपि तत्र प्रतिभाति यथाऽऽम्ररूपप्रतिपत्तौ तद्रसः अविषयश्च लोचनबुद्धेः शब्द इति । लोचनबुद्धिर्वाऽर्थमनुसरन्ती स्वविषयमेवावभासयति नेन्द्रियान्तरविषयं सन्निहितमपि यथा रसनसमुद्भवा मधुरादि- २० प्रतिपत्तिस्तदेव न परिमलादिकं लोचनप्रभवप्रत्ययेनैव श्रुतिविषयशब्दप्रतिपत्तौ नयनबुद्धिरेव सर्वाक्षविषयग्राहिका इतीन्द्रियान्तरपरिकल्पनावैयर्थ्यम् । शब्दात्मकेऽपि पदार्थेऽभ्युपगम्यमाने श्रुतिरेव शब्दपरिणतिमधिगच्छति लोचनं च रूपविवर्त पर्येतीत्यभ्युपगन्तव्यम् अन्यथैकमेवाक्षं विषयपञ्चकं विषयीकरोतीति तत्राप्यक्षपञ्चककल्पना विफलतामनुभवेत् ततः सकलमक्षवेदनं वाचकविकलं स्वविषयमेवावलोकयतीति निर्विकल्पकम् । न चार्थसन्निधानाद् वाचः - सन्निधावप्यक्षान्तर. २५ वैफल्यप्रसक्तेः – लोचनमतौ यदि नाम न शब्दसन्निधिजनिता शब्दाकारता तथाप्युपादानाद् बोधरूपतैव वाग्रूपतापि वाचकस्मृतिजनिता तत्र भविष्यति यतो यदि स्मरणजनितो वाग्रूपतोल्लेखस्तदा स्पटलोच प्रभवशोभिन्न एव भवेत् कारण - विषयभेदात् । तथाहि - लोचनव्यापारानुसारिणी हर घर्तमानकालं रूपमात्रं विशदतयाऽवभासयति विकल्पस्तु शब्दस्मरणप्रभवोऽसन्निहितां वाग्रूपतामध्यवस्यति कथं न हेतुविषयभेदात् तयोर्भेदः १ अथ वाक्परिष्वक्तं रूपमधिगच्छद् 'रूपमिदम्' इत्येकं ३० संवेदनमध्यवस्यति जन इति कथं न तयोरैक्यम् ? नैतत् यतः 'रूपमिदम्' इति ज्ञानेन वाग्रूपतापन्नाः पदार्था गृह्येरन्, भिन्नवाग्रूपताविशेषणविशिष्टा वा ? प्रथमपक्षे लोचनं वाश्रूपतायां न प्रभवतीति तदनुसारिण्यध्यक्षमतिरपि न तत्र प्रवृत्तिमती ततः कथमसावर्थरूपापन्नां वाग्रूपतामधिगन्तुं क्षमेत्यन्यैवाक्षमतिर्नामोल्लेखात् । अथ द्वितीयः पक्षस्तदापि नयेंनडेंग् तद्विषये शुद्ध एव पुरोव्यवस्थिते
५
१ इदं मतं तन्निरसनं च प्रमेयकमलमार्तण्डे समानप्रायं वर्तते पृ० ११ द्वि० पं० ३ - पृ० १२ प्र० पं० ११ । अष्टसहख्यां तु वैयाकरणीयशब्दाद्वैतदर्शन- तत्प्रतिवादपरा चर्चा संक्षिप्ता भङ्गयन्तरेण च दृश्यते - पृ० १३० पं० १ । २- ते यदुक्तम् बृ० ल० वा० वा० । ३ पृ० ३८० पं० १४, टि० १३ । “ तथा च वैयाकरणा आहुः" इत्युल्लिख्य श्लोकोऽयमुद्धृतो वर्तते न्यायबिन्दुटीकाटिप्पण्याम् पृ० २० पं० २-४ । न्यायमञ्ज० आ० ९ पृ० ५३२ पं० ११ ॥ ४- चनाच- आ० । ५ " सौगत उत्तरमिति” -ल० टि० । ६- क्तनी - आ० । ७ - विक्तः स्व बृ० । ८-ति अत्रा घृ० वा० बा० । ९ चार्थे स वा० बा० । चास पृ० । १० - यनं ह - भ० छा० वि० विना । ११- ग् वि धृ० ।
६३ स० त०