________________
४८८
द्वितीये काण्डेवाध्यबाधकभावाभावेऽपि तदभिमानो लोकस्येति प्रतीतिश्रितावभ्युपगन्तव्यः स इति बाध्यबाधकभावः स्वप्नोपलब्धौ घटादौ सिद्धो न प्रकृतहेतोर्व्यभिचारः । नापि विरुद्धता परमार्थसत्ताभावेन व्याप्त्यसिद्धेः अन्यथाऽपारमार्थिकं स्वसंवेदनमात्रमपि भवेत् तत्राप्यपरहेतोः पारमार्थिकत्वसाधकस्याभावात् विपर्ययव्याप्तश्च हेतुर्विरुद्धो भवेदिति असिद्ध-विरुद्धाऽनैकान्तिकत्वदोषरहिताद् भव५ त्यतो हेतोर्जाग्रदवस्थोपलभ्यमानस्य घटादेः परमार्थसत्त्वसिद्धिः । तेन 'संवृतानुमानसाध्या शून्यता यद्वा परेण यः कश्चिद्धर्मः पदार्थस्याभ्युपगम्यते स प्रमाणाभान्नि सिध्यति प्रमाणव्यावृत्तौ प्रमेयस्य व्यावृत्तेरभ्युपगमाहत्वात्' इत्याद्यपि परोक्तं निरस्तं द्रष्टव्यम् । उक्तदूषणप्रकारस्यात्रापि समानत्वात् ।
__ यच्च प्रतिभासाविशेषप्रतिपादनं कृतम्, तदप्ययुक्तम् ; स्वसंवेदनमात्रवत् प्रधानादेरपि सद्भावसिद्धेस्तदभावे स्वसंवेदनस्याप्यभावापत्तेः अन्यथा प्रतिभासाविशेषायोगात् तस्याप्यभावे न किञ्चित् १० तत्त्वं स्यात् । शून्यताभ्युपगमात् तत्त्वाभावः समिष्यत एवेति चेत्, न; तदभ्युपगमस्यापि तत्त्वरूपत्वात् । न च सापि निष्प्रमाणिका अभ्युपगन्तुं युक्ता प्रमाणभावे वा कथं शून्यता तस्यैव तत्त्वरूपत्वात् । न चान्यपरिहारेण तस्य शून्यताव्यवस्थापकत्वे प्रतिभासाविशेषसिद्धिः । अथ न शून्यता नाम काचित् यव्यवस्थापकं प्रमाणमन्विष्येत अपि तु प्रतिभासोपमत्वं सर्वधर्माणां सेति । उक्तं
च-"मायोपमाः सर्वधर्माः" [ ] इति, असदेतत् प्रमाणाभावे सर्वधर्माणां मायोपमत्व१५ स्यैवासिद्धेः । यदपि 'प्रतिभासमानस्यैकानेकत्वरूपतयाऽयोगः' तदपि प्रतिभासाभावे असङ्गतम्
तत्सद्भावे वा यथा प्रतिभासस्यास्तित्वं तथैकत्वानेकत्वादेरपि धर्मकलापस्यास्तु तन्निषेधकयुक्तिकलापस्य निरस्तत्वात् प्रतिभासस्य च विद्यमानत्वात् इत्यलमतिप्रसङ्गेनेति सिद्धा विज्ञान-शून्यतावादनिषेधेन अर्थनिर्णीतिस्वभावता प्रमाणस्य । [स्वार्थनिर्णयस्वभावं ज्ञानमिति प्रमाणलक्षणं प्रतिक्षेनुकामेन सौगतेन निर्विकल्पस्यैव
प्रत्यक्षवस्थापनम् ] अत्राह सौगतः-भवतु स्वार्थनिर्णीतिखभावमनुमानम् प्रत्यक्षं तु निर्विकल्पकत्वान्न तन्निर्णयस्वभावम् । तथाहि-यद् यथा अवभाति तत् तथाव्यवहृतिमवतरति यथा विशदमाभासमानं सुखादिसंवेदनम् नामाद्युल्लेखविविक्ततया चाक्षजं संवेदनमाभातीति स्वभावहेतुः नामाद्युल्लेखपरिष्वक्तवपुषः
संविदोऽध्यक्षत्वविरोधात् यतः साक्षात्कारिज्ञानमध्यक्षतया लोके प्रसिद्धम् साक्षात्कारित्वं च २५सन्निहितार्थावभासित्वम् असन्निहिते तद्भावात् नामादिकं चासन्निहितत्वात् परोक्षमिति न तद्योजनामवतरीतुमलम् ।
१-धकाभावाभावे-वा० बा० ।-धकभावे-आ०। २ “खने उपलब्धिर्यस्येति समासः यद्वा स्वप्नोपलब्धौ यो घटादिस्तत्रासौ"-वृ० ल. टि. । “स्वप्नोपलब्धे [ब्धेः-बृ.टि.] इति पाठान्तरम्"-ल. टि. । ३-थापा-बृ० विना । ४-त्रापि प-वा. वा० । ५ "तेन निरस्तं द्रष्टव्यमिति संटङ्कः"-बृ. ल. टि. । ६-वान्ना सि-आ• हा० वि०। ७ स्याद्वादर० पृ. ९३ प्र. पं० १०-१३ । “अभ्यधिष्महि च
शून्ये मानमुपैति चेन्ननु तदा शून्यात्मता दुःस्थिता नो चेत् तर्हि तथापि किं न सुतरां शून्यात्मता दुःस्थिता ?"रत्नाकराव० १,१५ पृ. ३२ पं० २५ ।
"विना प्रमाणं परवन्न शून्यः खपक्षसिद्धेः पदमश्नवीत । कुप्येत् कृतान्तः स्पृशते प्रमाणमहो ! सुदृष्टं खदसूयिदृष्टम्"स्याद्वा० का० १७ पृ० १४४ । ८ पृ० ३७७ पं० १, टि. १ । पृ. ३७१ टि०८।
न्यायप्रवेशकारेण "तत्र प्रत्यक्षं कल्पनापोढं यज्ज्ञानमर्थे रूपादौ नामजात्यादिकल्पनारहितं तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम्” इत्यनेन निर्विकल्पकस्य प्रत्यक्षप्रमाणलं सूत्रितम्-न्यायप्र. सू. ५४ पृ. ७ । तदेव धर्मकीर्तिना "तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम्" इत्यत्र सूत्रे 'अभ्रान्त'पदनिवेशनेन परिष्कृत्य समर्थितम्-न्यायविं० १-४-पृ. ६ । “यदुकं धर्मोत्तरादिना-कल्पनापोढमभ्रान्तं प्रत्यक्षमिति"-सिद्धिवि० टी० लि. पृ. ५४ पं०९।
एतदेव निर्विकल्पकस्य प्रमाणलोपवर्णनं शान्तरक्षितेन प्रत्यक्षलक्षणपरीक्षायां सविस्तर विविधाक्षेपपरिहारादिना समर्थ्य प्रतिष्ठापितम्-तत्त्वसं० का० १२१३-१३६१ पृ. ३६६-४०४ ।