________________
ज्ञानमीमांसा |
४८७
'नेदम्' इति तत्र ज्ञानाभावान्न तत्त्रसङ्गः 'नेदम्' इति ज्ञानस्य संत्यपि क्वचित् झटित्यपसृते भावात् असत्यपि चान्यगतचित्तस्याभावात् । तथाहि शीघ्रं गच्छतो मरीचिकाजलज्ञाने 'नेदम्' इति प्रत्ययो नोत्पद्यत एव । 'नेदम्' इति प्रत्ययविषयस्यापि च कथं सत्यता ? बाधकाभावादिति चेत्; ननु बाधकं 'नेदम्' इति ज्ञानम् तस्य चाभावोऽसत्यपि विषये भवतीत्युक्तम् । किञ्च तद्विषयम् अन्यविषयं वा बाधकमभ्युपगम्यते ? न तावत् तद्विषयम् विरोधात् नहि यत् यद्विषयं तदेव तस्यासत्प्रति- ५ भासनं ज्ञापयतीत्युपपन्नम् । नाप्यन्यविषयम् तेनाप्रतिभासमानस्यान्यस्य तज्ज्ञापनायोगात् अन्यथा घंटज्ञानं पटस्य तद् ज्ञापयेदिति ।
अत्र प्रतिविधीयते - नहि बाधकेन ज्ञानेन स्वरूपम् ज्ञानस्य विषयः फलं वा वाध्यते किन्तु ज्ञानस्यासद्विषयत्वम् अर्थस्य वाऽसत्प्रतिभासनं तेन ज्ञाप्यते यथा शुक्तिकाज्ञानेन रजतविज्ञानस्य रजताकारस्य वा । एतच्च वाध्यबाधकभावमनिच्छताप्यवश्यमभ्युपगन्तव्यम् प्रतिभासाद्वैते स्कन्ध - १० सन्तानादिविकल्पानां स्वयमेव निर्विषयत्वोपवर्णनात् तदुपवर्णनाऽभावे बाह्यभावानामेकानेकरूपतया सामान्य - सामानाधिकरण्य-विशेषणविशेष्यभावादेः पारमार्थिकस्य भावात् प्रतिभासाद्वैतस्याभाव एव स्यात् । किञ्च बाध्यबाधकभावप्रतिषेधविधायियुक्त्युपन्यासेन वादिना किं क्रियते इति वक्तव्यम् न किञ्चिदिति चेत्, तदुपन्यासवैयर्थ्यम् । अथ तूष्णींभावो निग्रहः स्यादिति तदुपन्यासस्तर्हि तदुपन्यासेऽप्यसाधनाङ्गवचनं निग्रह एव भवेदिति तदुपन्यासानर्थक्यम् । बाध्यबाधक - १५ भावाभावप्रतिपत्तिस्तदुपन्यासप्रयोजनमिति चेत्, न तत्प्रतिपत्तेर्यथार्थत्वे परमतसिद्धिप्रसक्तेः तस्या अयथार्थत्वे पुनरप्यानर्थक्यम् । समारोपव्यवच्छेदार्थ तदुपन्यास इति चेत् बाध्यबाधकभावाभावेऽपि र्तंद्भावाध्यवसायसमारोपस्य व्यवच्छेदः स्वरूपापहारश्चेत् तर्ह्यभ्युपगत एव वाध्यबाधकभावः । किञ्च, उदयकाल एव तदपहारे तदप्रतिभास इति न समारोपो नाम इति कस्य निवृत्त्यर्थः शास्त्राद्यारम्भः अन्यदापि स्वयमेव नाशान्न ततस्तन्निवृत्तिः ? अथ शास्त्रादेः प्राक्तनसमारोपक्षणादुत्तर- २० समारोपक्षणजननासमर्थः क्षणः समुपजायत इति तन्निवृत्तिस्तर्हि बाधकाद् वाध्यनिवृत्तिरपि तथैव संपत्स्यत इति न बाध्यबाधकभावनिराकरणं युक्तिसंगतं स्यात् । न च बाध्यबाधकाभावेऽपि परस्य तद्भावाभिमान इति शास्त्रादिना ज्ञाप्यते 'असत्येवार्थे सदभिमानो बाध्यस्येति बाधकेन ज्ञाप्यते' इत्यस्य स्वयमेवाभ्युपगमप्राप्तेस्तद्विषयातद्विषयबाधकपक्षोक्तदोषस्याप्येवमभ्युपगच्छता स्वयमेवाङ्गीकरर्णात् । अथ न किञ्चित् शास्त्रादिना क्रियते केवलमलीकाभिमानोऽयं लोकस्य 'शास्त्रेण बाध्य - २५ बार्धकभावाभावो ज्ञाप्यते तत्समारोपो वा व्यवच्छिद्यते' इति ननु तदभिमानस्यालीकता तदभावेऽपि तदध्यवसायः तथा चैतत्परिज्ञाने परमतमेवाभ्युपगतं भवेत् । अथ शास्त्राद्युपन्यासोऽपि नाभ्युपगम्यते तर्हि 'बाध्यत्वायोगात्' इत्यादिकं किमिति वक्तव्यम् ? तदपि नास्तीति चेत् उपलभ्यमानस्य कथमसत्त्वम् ? अथोपलभ्यते किन्तु स्वप्नोपलब्धसदृशं तत् । तथाहि तद्वचनमपरमार्थसत् उपलभ्यमानत्वात् स्वप्नोपलभ्यमानवचोवदित्यतोऽनुमानात् तदसत्त्वम्, असदेतत्; पूर्वोपन्यस्तदोषानुबन्धात् ३० पुनरपि 'स्वप्नोपलभ्यमानवत्' इत्युत्तराभिधाने चक्रकप्रसक्तिरिति किञ्चिच्छास्त्रादिकमभ्युपगच्छता
१ " घटादिके" - बृ० ल० टि० । २ “कर्तृभूतम् " - नृ० ल० टि० । ४ " बाघकेन" - धृ० ल० टि० ।
३ " बाधकं कर्मभूतम्”-ल० टि० ।
५ " असाधनाङ्गवचनमपजयप्राप्तिरिति व्याहतम् " - अष्टश० का० ७ पृ० ७ ० ८ । "तदुक्तम् - खपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः । नासाधनाङ्गवचनं नादोषोद्भावनं द्वयोः " ॥ अष्टस० पृ० ८७ पं० २० । “अत्र कीर्ति राह--- द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते तेषां च प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे । कुतः ? असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यत् तु न युक्तमिति नेष्यते" । -न्यायमअ० आ० १२ पृ० ६३९ पं० ५-९ । सौगतागमितं पराजयाधिकरणं परीक्षमाणेनाचार्य हेमचन्द्रेण प्रस्तुतटिप्पणोपन्यस्तः “ असाधनाङ्गवचन – ” इत्यादिकः श्लोकः " यथाह धर्मकीर्तिः” इत्युल्लिख्योद्धृतः प्रमाणमीमांसायाम् - २-१-३४ पृ० १०४ पं० २०-२१ । न्यायदर्शन संमतं पराजयाधिकरणमक्षपादेनेत्थं लक्षितम् - " विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् " - न्यायद० १ २ १९ । एतदपि निग्रहस्थानलक्षणं “न विप्रतिपत्त्यप्रतिपत्तिमात्रम्" इति सूत्रयन्नाचार्य हेमचन्द्रस्तत्रैव प्रतिक्षिप्तवान् ।
६ तदभा वा० वा० आ० । ७-धकाभा - बृ० । ८-णादेव न कि आ० ।
९-धकाभाव० ल० ।