________________
द्वितीये काण्डे -
स्तम्भादेर्यद्यनेनानुमानेन न प्रतीयते कथमस्य बाधकता ? बाध्यज्ञानगृहीत धर्माभावग्राहकस्यैव बाधकत्वात् 'अश्रावणः शब्दः' इत्यस्य प्रत्यक्षवत् अन्यथा नीलज्ञानस्यापि पीतज्ञानबाधकता भवेत् । प्रतीयत इति चेत् स यद्यपरमार्थसन् नातः स्तम्भादेरसत्त्वसिद्धिः परमार्थसंश्चेत् अनेनैव हेतोर्व्यभिचारः । न चाभावग्राहकत्वादनुमानं तद्बाधकं नेष्यते अपि तु परमार्थसत्त्वसमारोपव्यवच्छेद५ करणादिति वक्तव्यम् तस्यैवासिद्धेः । तथाहि तद्व्यवच्छेदः समारोपस्वभावः तदभावरूपो वा भवेत् ? 'प्रथमपक्षे समारोपव्यवच्छेदकार्यनुमानं समारोपकारि प्रसक्तम् न चैतद् युक्तम् कृतस्य करणायोगात् । द्वितीयपक्षे विनाशस्य सहेतुकत्वमनिष्टमासज्यते । किञ्च, असौ व्यवच्छेदोऽनुमानेन यदि प्रतीयते परमार्थसंश्च पुनरपि हेतोरनैकान्तिकत्वम् । न प्रतीयते चेत् न तर्ह्यनुमानेन समारोपव्यवच्छेदकरणम् अन्यथाभूतस्यं तस्य तेन करणासंभवात् । न च स्तम्भादिस्वरूपोऽपि समारोपव्यवच्छेदोऽनुमानेन १० क्रियते स्तम्भादेः स्वहेतुभ्य एवोत्पत्तेः । न चासावनुमानस्वरूप एव तेनैव तस्य करणविरोधात् । न चानुमानसन्निधौ तदनुत्पत्तिरेव ततस्तद्व्यवच्छेदः तत्रापि पूर्वोक्तदोषस्य समानत्वात् । किञ्च, समारोपविविक्तं भावान्तरं यदि भाविसमारोपानुत्पत्तिः तच्चानुमानेन प्रतीयते परमार्थसच्च पुनरपि हेतुस्तेनैव व्यभिचारी । अथ न परमार्थसन्न तर्हि तद्राह्यनुमानं प्रमाणमिति कथं तस्य बाधकत्वम् ? न च न तद्व्यवच्छेदकरणादनुमानं तद्वाधकमपि तु तदभावाविसंवादादिति वक्तव्यम् तदविषयस्य तदवि - १५ संवादकत्वायोगात् । तत आत्मलाभ एव तदविसंवाद इति चेत्; ननु तदात्मलाभोऽपि यद्यनुमानेनात्मनो ज्ञायते पारमार्थिकश्च पुनरप्यनेनैव हेतुर्व्यभिचारी अपारमार्थिकश्चेन्न तद्विषयमनुमानं तद्बाधकम् । न च स्वापादौ तदभावदर्शनावसेयत्वयोः प्रतिबन्धग्रहणादन्यत्रापि दर्शनावसेयत्वं तत्प्रतिबद्धं तज्जनितं चानुमानं पदार्थाभावजनितमिति सिद्धस्तत आत्मलाभोऽविसंवादः यतः साकल्येन प्रतिबन्धग्रहणे प्रतिबन्धस्य ग्राहकं तदासक्तं तत्र च पूर्वप्रतिपादित एव दोषः तदग्रहणे २० च न तस्मादनुमानस्यात्मलाभनिश्चयः । न च तयोरेकत्र सहभावदर्शनात् सर्वत्र तथाभावः अन्यथेश्वराद्यनुमानमप्यविसंवादकं भवेत् । अपि च, स्वापाद्यवस्थावभासिनो घटादेर्यदि परमार्थसत्त्वाभावो न गृह्यते कथं न साध्यविकलता दृष्टान्तस्य । गृह्यते चेत् तस्य पारमार्थिकत्वे हेतोर्व्यभिचारस्तदवस्थः अपारमार्थिकत्वे दृष्टान्तः साध्यविकलः । अथ न सौगतेन तदभावो गृह्यते अपि तु बहिरर्थवादिनेति न पूर्वोक्तो दोषः, नः तेन प्रमाणेन तदभावग्रहणे सौगतेनापि तग्रहणप्रसङ्गात् प्रमाणस्य क्वचित् २५ पक्षपातासंभवात् प्रमाणमन्तरेण ग्रहणे न तेन हेतोर्व्याप्तिः अभ्युपगममात्रसिद्धस्य व्यापकत्वायोगात् अन्यथा बौद्धाभिमतनाशादिना सुखादेरचेतनत्वसाधनं साङ्ख्यस्य किमित्ययुक्तं भवेत् ? तन्न प्रकृतमनुमानं साध्यसाधनयोर्व्यात्यग्रहणात् प्रकृतसाध्यसाधनायालमिति न तद्वाधकं युक्तम् । न च प्रत्यक्षानुमानव्यतिरिक्तं प्रमाणान्तरं सौगतस्याभीष्टं यत् तद्वाधकं भवेत् अतः 'सुनिश्चितासंभव -' ईत्यादिहेतुर्नासिद्धः । न चापरमार्थसति यथोक्तो हेतुः संभवीति नानैकान्तिकः ।
३० अथ स्वप्नदृष्टे घटादावपरमार्थसति यथोक्तहेतोः सद्भाव इति कथं नानैकान्तिकः ? न च तत्र बाधकप्रमाणविषयत्वम् वाध्यत्वस्य क्वचिदप्यसंभवात् । तथाहि न तावद् बाधकेन ज्ञानस्य प्रतिभासकाले स्वरूपं बाध्यते तस्य परिस्फुटेन रूपेण प्रतिभासनात् नाप्युत्तरकालं क्षणिकत्वेन तदा तस्य स्वयमेवाभावात् नापि तत्प्रमेयस्य प्रतिभासमानेन रूपेण स्वरूपं बाध्यते प्रतिभासनादेव न च प्रतिभासमानरूपसहचारिणा स्पर्शादिरूपेण, तस्य ततोऽन्यत्वात् न चान्याभावेऽन्यस्याभावो ऽति३५ प्रसङ्गात् । न च ज्ञानस्य ज्ञेयस्य वा फलमुत्पन्नमनुत्पन्नं वा बाध्यते उत्पन्नस्य विद्यमानत्वेन वाध्यत्वासंभवात् अनुत्पन्नस्यापि स्वयमेवासत्त्वात् । न च स्वप्नदृष्टे घटादिके उदकाहरणाद्यर्थक्रिया न संभवति तस्या अपि तत्र दर्शनात् "असंतः सत्त्वेन प्रतिभासनमस्य" [ ] इति ज्ञापनात् स तेन बाध्यत इति चेत्, न; प्रतिभासमानस्य तज्ज्ञापनासंभवात् जाग्रदृष्टघटादावपि तत्प्रसङ्गात् । न च १- सत्वे स-आ० वि० । २- स्य तेन बृ० विना । ३ " अनुमानेन ” – बृ० ल० टि० । ४ " तस्यानुमान - रूपसमारोपस्य” – बृ० ल० टि० । ५ " समारोप " - बृ० ल० टि० । ६ प्र० पृ० पं० ५। ७ हणं त-ल० । ८ " बाह्यार्थवादिना " - बृ० ल० टि०
।
९ " न संविद्रूपाः सुखादयः विनाशित्वादिभ्यः कुम्भवदिति" - बृ० ल० टि० ।
१० पृ० ४८५ पं० ३१ । ११ - भावो - बृ० ल० । १२- त्पन्नं बा - बृ० ल० । १३ “ उदकस्य " - बृ० ल० टि० ।
१४ " खमवेदने" - बृ० ल० टि० । १५ " घटादिकोऽर्थः " - बृ० ल० टि० ।
४८६