________________
४९०
द्वितीये काण्डे -
प्रवर्तते न वाचि, तत्र चावर्त्तमाना कथं तद्विशिष्टं स्वविषयमुद्द्योतयितुं समर्था, न हि विशेषणं भिन्ननवभासयन्ती तद्विशिष्टतया विशेष्यमवभासयति दण्डाग्रहण इव दण्डिनम् । न च यद्यपि वाग शिन प्रतिभाति तथापि स्मृतौ प्रतिभातीति विशेषणमर्थस्य भिन्नज्ञानग्राह्यस्यापि विशेषणत्वोपपत्तेरिति वक्तुं शक्यम् संविदन्तरप्रतीतस्य स्वातन्त्र्येण प्रतिभासनात् तदनन्तरप्रतीयमानविशेषण५ त्वानुपपत्तिः । यतो नैककालमनेककालं वा शब्दस्वरूपं स्वतन्त्रतया स्वग्राहिणि ज्ञाने प्रतिभासमानं विशेषणभावं प्रतिपद्यते सर्वत्र तस्यं तद्भावापत्तेः । न च शब्दानुरक्तरूपाद्यध्यक्षमतिरुदेतीति शब्दस्य विशेषणत्वं रूपादेश्व विशेष्यत्वम् यतो यदि तदनुरक्तता तत्प्रतिभासस्तदा शब्दस्याक्षबुद्धावप्रतिभासनान्न तदनुरक्तता । अथ रूपादिदेशे शब्दवेदनं तदनुरक्तता, तदपि न युक्तम्; निरस्तशब्दसन्निधीनां रूपादीनां स्वज्ञाने प्रतिभासनात् । अथ तत्कालशब्दप्रतिभासस्तदनुरागः, न; नयनदृशि १० रूपादिव्यतिरिक्तशब्दप्रतिभासाभावात् यतो न तुल्यकालमपि शब्दं लोचनसंविद् अवभासयितुं क्षमा तस्य तदविषयत्वात् । अथ शब्दानुषक्तरूपस्मृतिदर्शनात् तद्रूपस्य तस्य प्राग्दर्शनमुपेयते तर्हि शब्दविविक्तमर्थरूपं प्रत्यक्षमधिगच्छति वाचकं तु स्मृतिरुल्लिखतीति न तत्संस्पर्शमध्यक्षमनुभवतीति निर्विकल्पकमासक्तम् अन्यथा शब्दस्मरणासंभवादध्यक्षाभावो भवेत् । तथाहि यदि वाक्संस्पृष्टस्य सकलार्थस्य संवेदनं तथासत्यर्थदर्शने तद्वाक्स्मृतिस्तत्र च तत्परिकरितार्थदर्शनम् न च कश्चिद१५ वाक्संस्पर्शविकलमर्थमवगच्छति तमन्तरेण च न वाक्स्मृतिः तां चान्तरेण न वागनुषक्तार्थदर्शनमित्यर्थदर्शनाभावो भवेत् ततोऽर्थदर्शनान्निर्विकल्पकमेव तदभ्युपगन्तव्यम् । यदि च वाक्संसृष्टस्यैवार्थस्य ग्रहणं तदाऽगृहीतसंकेतस्य बालकस्य तग्रहणं न भवेत् । अथ तस्यापि 'किम' इति वागुखोऽस्तीति तदनुषक्तग्रहणं सविकल्पकम् नैतद् युक्तम्; तस्य 'किमपि इति सामान्यस्यैव ग्रहणं भवेन्न विशेषस्येति न विशदावभास्यर्थसंवेदनसंभवः । यदा चावं विकल्पयतो गोदर्शनं परिणमति २० तदा तद्वागपरिच्छेदात् कथमवबोधस्य शाश्वती वाग्रूपता ? न हि तदा गोशब्दोल्लेखस्तदवबोधस्य संभवति तत्संवेदनाभावात् युगपद्विकल्पद्वयानुत्पत्तेश्च । ततोऽध्यक्षमर्थ साक्षत्करणान्न वाग्योजना
१-पत्तेः । आ० हा० वि० । २-स्य सद्भा-वृ० । ३ " शब्दस्य लोचनसंविद विषयत्वात् " - बृ० टि० । ४-मर्थस्वरू- बृ० वा० बा० भ० मां० । ५ " शब्द - " बृ० टि० । ६- संसृष्ट- बृ० वा० बा० आ० । ७- कश्चिद् वाधृ० । कश्चिदव - आ० । ८- संस्पृष्ट-आ० । ९ हणे स वृ० विना । १० - क्षात्का वा० बा० भ० मां० विना । 'न वाक्संस्पर्शरहिता काचित् प्रतिपत्तिरस्ति शब्दानुविद्धायास्तस्याः प्रतिभासनात्' इति वैयाकरणसिद्धान्तस्य निरसनं तत्त्वार्थश्लोकवार्तिकेऽनेन प्रकारेण दृश्यते
" तथासति यदाह परः
“वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी " ॥ इति तदपास्तं भवति तया विनैव आभिनिबोधिकस्य प्रकाशनादित्यावेदयति
वाग्रूपता ततो न स्याद्योक्ता प्रत्यवमर्शिनी । मतिज्ञानं प्रकाशेत सदा तद्धि तया विना ॥ वैखरीं मध्यमां वाचं विनाशज्ञानमात्मनः । खसंवेदनमिष्टं नोऽन्योन्याश्रयणमन्यथा ॥ पश्यन्त्या नु विना नैतद्व्यवसायात्म वेदनम् । युक्तं न चात्र संभाव्यः प्रोक्तोऽन्योन्यसमाश्रयः ॥ व्यापिन्या सूक्ष्मया वाचा व्याप्तं सर्वं च वेदनम् । तया विना हि पश्यन्ती विकल्पात्मा कुतः पुनः ॥ मध्यमा तदभावे क्व निर्बीजा वैखरी रखात् । ततः सा शाश्वती सर्ववेदनेषु प्रकाशते ॥ इति येऽपि समादध्युस्तेऽप्यनालोचितोक्तयः । शब्दब्रह्मणि निर्भागे तथा वक्तुमशक्तितः ॥ नयवस्था च श्रोत्रस्य सत्याद्वैतप्रसङ्गतः । न च तासामविद्यात्वं तत्त्वासिद्धौ प्रसिध्यति ॥ ब्रह्मणो न व्यवस्थानमक्षज्ञानात् कुतश्चन । खमादाविव मिथ्यात्वात् तस्य साकल्यतः स्वयम् ॥ नानुमानात् ततोऽर्थानां प्रतीतेर्दुर्लभत्वतः । परप्रसिद्धिरप्यस्य प्रसिद्धा नाप्रमाणिका ॥ स्वतःसंवेदनात् सिद्धिः क्षणिकानंशवित्तिवत् । न परब्रह्मणो नापि सा युक्ता साधनाद् विना ॥ आगमादेव तत्सिद्धौ भेदसिद्धिस्तथा न किम् । निर्बाधादेव चेत्तव्यं न प्रमाणान्तरादृते ॥ तदागमस्य निश्चेतुं शक्यं जातु परीक्षकैः । न चागमस्ततो भिन्नः समस्ति परमार्थतः ॥ तद्विवर्तस्त्वविद्यात्मा तस्य प्रज्ञापकः कथम् । न चाविनिश्चिते तत्वे फेनबुद्बुदवद् भिदा । मायेयं बत दुष्पारा विपश्चिदिति पश्यति । येनाविद्या विनिर्णीता विद्यां गमयति ध्रुवम् ॥ भ्रान्तेर्बीजाविनाभावादनुमात्रैवमागता । ततो नैव परं ब्रह्मास्त्यनादिनिधनात्मकम् ॥