________________
ज्ञानमीमांसा।
परिणामिनस्तथैवात्मनः स्वतःप्रतिभासाविरोधात् सर्वविकल्पातीतस्य तस्याभ्युपगमे नील-सुखादिव्यतिरिक्तस्य तस्य ब्रह्मस्वरूपवत् तदप्रतिभासनमेव विरोधः नील-सुखाद्यात्मकत्वेऽपि नील-सुखप्रतिभासेन पीत-दुःखप्रतिभासाविषयीकरणात् पीत-दुःखप्रतिभासेन नील-सुखप्रतिभासयोश्चासंवेदनात् परलोकवदसत्त्वेन सकलशून्यताप्रसक्तिः। किञ्च, नीलादिप्रतिभासानामेकेनाणुप्रतिभासेन तंदन्येषां तैश्च तस्याविषयीकरणादभावप्रसक्तिः स्वतोऽपि केवलपरमाणुप्रतिभासस्यासंवेदनात् ।५ अथ नील-सुखादीनां नाभावः स्वयमुपलम्भात्, न; सन्तानान्तरानिषेधप्रसक्तेः तदभ्युपगमे कथं स्व-परग्रहणव्यापारनिषेधोऽनुमानाभावात् । न च विचारात् तद्व्यापारनिषेधः अनेन तदविषयी. करणे न तनिषेधः विषयीकरणे ग्राह्यग्राहकभावसिद्धर्न तनिषेधः इति न सकलविकल्पातीतत्वसंभवः । न च तत्त्वस्यान्यत्र न भावः नाप्यभावः सर्वत्र तथाभावापत्तेः सन्तानान्तरवत् ततः स्थलैकत्वादिविकल्परहितस्य कदाचिदप्यप्रतिभासनाद् जडवदजडस्यापि न स्वतोऽवभासनं परा-१० भ्युपगमेन संभवति । परतस्तस्यावभासने जडस्यापि ततोऽवभाससिद्धेर्विज्ञानमात्रताऽसिद्धिः । न च परेण समानकालेनाप्रतिबन्धात् परस्परग्रहणप्रसक्तेश्च नार्थग्रहणम् भिन्नकालेनाप्यतिप्रसङ्गात् न तेन तहणम् अन्यत्रापि समानत्वात् । अत एव "स्वरूपस्य खतो गतिः" [
1 इत्ययुक्तम् तत्रापि समानकालस्य गतावर्थवत्प्रसङ्गात् । न च स्वरूपस्य ज्ञानतादात्म्यान्नायं दोषः तादात्म्येऽपि समानेतरकालविकल्पद्वयानतिवृत्तेः। अथ स्वरूपं ज्ञानमेवेति न भेदभाविविकल्पावता-१५ रस्तत्र, न; तथाप्रतीतेः तत्तथाप्रतीतिश्च यद्यप्रमाणं नातः स्वरूपस्य ज्ञानतासिद्धिःप्रमाणं चेत् तर्हि स्वपरग्रहणखरूपतापि ज्ञानस्य तत एव सिद्धेति न तत्रापि तद्विकल्पावतारः प्रत्यक्षविरोधात्। तन्न स्वतोऽवभासनं हेतुः असिद्धत्वात् । परतोऽवभासनं चेत्, न; तस्यापि वाद्यसिद्धत्वात्___"नॉन्योऽनुर्भाव्यो वुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशंते" ॥ [
1 इत्यभिधानान्न सौगताभिप्रायेण परप्रकाशता कस्यचित् सिद्धा।
न च प्रकाशनलक्षणस्य हेतोर्ज्ञानत्वेन व्याप्तिसिद्धिर्यतः खरूपमात्रपर्यवसितं ज्ञानं सर्वमवभासनं ज्ञान(नत्व)व्याप्तमिति नाधिगन्तुं समर्थम् । न च सकलसम्वन्ध्यप्रतिपत्तौ सम्बन्धप्रतिपत्तिः। उक्तं च
__"द्विष्टसम्बन्धसंवित्ति:करूपप्रवेदनात् ।।
द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥” [ न च विवक्षितज्ञान ज्ञानत्वमवभासनं चात्मन्येव प्रतिपद्य तयोर्व्याप्तिमधिगच्छति । तत्रैवानुमानप्रवृत्तेः तत्र च तत्प्रवृत्तेर्वैयर्थ्यम् साध्यस्याध्यक्षसिद्धत्वात् । न च सकलं ज्ञानमात्मनि तयोर्व्याप्तिं प्रतिपद्यत
२०
१ "नीलादिप्रतिभासानामिति योगः"-बृ.टि. । “तदन्येषां नीलादिप्रतिभासानामिति योगः"-ल.टि.। २"नीलादिप्रतिभासैः"-बृ. ल. टि.। ३ “एकाणुप्रतिभासस्य"-बृ० ल.टि.। ४ "विचारेण"-बृ० ल.टि.। ५-तस्य तत्व-बृ०। ६ “न चैवंवादिनः खरूपस्य खतोऽवगतिघंटते" । एवंवादिनः “समकालो भिन्नकालो वार्थो न ग्राह्य इत्येवंवादिनो योगाचारस्य" । खरूपस्य "ज्ञानस्य" । स्वतः "ज्ञानात्"-प्रमेयक० पृ. २४ प्र. पं० २, टि० ९-१०-११ । ७ नान्या-ल. वा. बा. भां० मां०। ८-भावो वु-ल० वा० बा० ।
९प्रमेयक० पृ. २४ प्र. पं०५, अन्यः "अर्थः" । अनुभाव्यो “ग्राह्यः"। अनुभवो “ग्राहकः"-टि० ३३३४-३५ । स्याद्वादर० पृ. ७३ द्वि. पं० १३ । “नान्योऽनुभावो बुद्धयाऽस्ति xxx खयमेव प्रकाशते"-न्यायमज. आ. ९ पृ. ५४० ५० १९ । श्लो० वा. पार्थ० व्या० पृ. २७५ पं० १९ । सर्वदर्शनसं० द. २ पृ. ३१ पं० १९६ । षड्द० स० बृ० वृ० पृ. ४० पं०१३।
१० "न खलु खरूपमात्रपर्यवसितं ज्ञानं निखिलमवभासमानलं ज्ञानत्वव्याप्तमित्यधिगन्तुं समर्थम्"-प्रमेयक० पृ० २४ प्र. पं०६।११ पृ. २५० २५, टि. ७ । "तदुक्तमन्यैः-द्वयसंबन्धसंवित्तिनैकरूपप्रवेदनात् ।" इत्यादि५,२४ तत्त्वार्थश्लो. वा. पृ. ४२१ पं० ११। सिद्धिवि० टी० लि. पृ. १०९ पं० २६ । १, २० रत्नाकराव. पृ. ४२५० ८ । स्याद्वा० का० १६ पृ० १३० पं० ८। १२ “अवभासनस्य"-. ल. टि.।