________________
द्वितीये काण्डे -
समानतया योज्यम् । अथ सकलानुमानोच्छेदकत्वान्नायं विचारोऽत्र युक्तस्तर्हि ज्ञानार्थयोरपि न विधेयः तत्राप्यस्य विचारस्य सकलव्यवहारोच्छेदकत्वात् । न च परमार्थतो लिङ्गमनुमानकारणं नेष्यत एव व्यवहारिजनमतानुरोधेन तस्याङ्गीकरणादिति वक्तव्यम् तेनैव 'अहम्' इति भिन्नावभासिना ज्ञानेन नीलादेर्भिन्नस्य ग्रहणसिद्धेः स्वतोऽवभासनलक्षणस्य हेतोरसिद्धत्व५ प्रसक्तेः । न च क्वचिद् व्यवहाराश्रयणं क्वचिन्नेति युक्तम् न्यायस्य समानत्वात् । अथ लिङ्गमनुमानकारणं नेष्यत एव ग्राह्यग्राहकभाववत् कार्यकारणभावस्यापि निषेधात् । कथमनुमानम् ? स्वसाध्याविनाभावितग्रहणात् तदपि तद्योग्यतयाः नन्वनुमानं स्वविषयतया विषयीकरोति न ज्ञानान्तरमिति कुतोऽयं विभागः ? न चानुमानं न किञ्चिद् विषयीकरोति तस्याप्रमाणत्वप्रसक्तेः ।
४८२
न च समारोप व्यवच्छेदकरणात् तत् प्रमाणम् समानासमानसमय समारोपव्यवच्छेदविधाने ऽर्थ१० ग्रहणवद्दोषप्रसक्तेः । तथाहि भिन्नसमयसमारोपव्यवच्छेद विधाने एकस्मादेवानुमानात् सकलसमारोप विच्छेदोदयात् सकलं जगद् असमारोपमिति समारोपान्तरसमुच्छेदार्थ मनुमानान्तरान्वेषणमनर्थकमासज्येत । अथ भिन्नसमयोऽप्यसौ कश्चिदेव केनचित् तेन समुच्छिद्यते; ननु भिन्नकालोऽर्थोऽपि कश्चिदेव केनचित् संवेदनेन विपयीक्रियते न सर्वः सर्वेणेति समानम् । यथा च स्वरूपं समारोपस्य व्यवच्छिद्यते तथा अर्थस्य तदेव विपयीक्रियत इत्यपि समानम् । न च समारोप१५व्यवच्छेदोऽनुमानेन सौगतमते विधातुं शक्यः तद्व्यवच्छेदस्य विनाशरूपत्वात् तस्य च निर्हेतुकत्वाभ्युपगमात् । न च प्रवृत्तसमारोपस्य स्वत एव निवृत्तेर्भाविनस्तु तेन व्यवच्छेदः क्रियत इति वक्तव्यम् यतस्तस्यापि सतो व्यवच्छेदो भूतवन्न तेन विधातुं शक्यः असतोऽपि खरविषाणवन्नासौ शक्यक्रियः । अथ भाविनोऽपि समारोपस्य न तेन व्यवच्छेदो विधीयते अपि तु तदुत्पत्तिप्रतिबन्धः समर्थे करणे तदुत्पत्तेरवश्यंभावित्वान्न ततस्तत्प्रतिबन्धः अनुत्पत्तौ वा न तत् तत्कारणम् २० नाप्यसौ तज्जन्यो भवेत् । अथ तेन तत्कारणस्य सामर्थ्यविधातः क्रियते, सोऽप्ययुक्तः सतः सामर्थ्यस्योपहन्तुमशक्यत्वात् अस्य चार्थस्य
" तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।
नित्यत्वादचिकित्सस्य कस्तां क्षपयितुं क्षमः” ॥ [
]
इति भवतैव प्रतिपादनात् । असमर्थे तु कारणे कारणाभावादेव नोत्पत्स्यत इति कस्तत्रानुमानो२५पयोगः न चानुमानसहायः प्राक्तनः समारोपक्षण उत्तरं समारोपक्षणान्तरजननासमर्थ जनयतीति द्वितीये क्षणे कारणाभावादेव समारोपानुत्पत्तिः लिङ्गानुमानयोरिव पूर्वोत्तरसमारोपक्षणयो हेतुफलभावाभावात् । अथ समारोपव्यवच्छेदकृदप्यनुमानं नेष्यते तर्हि प्रकृतानुमानस्य फलान्तराभावादभिधानमसाधनाङ्गवचनत्वान्निग्रहस्थानमापद्यते । अथ प्रकृतानुमानं नोपन्यस्यते कुतस्तर्हि नीलादीनां ज्ञानरूपतासिद्धि: ? प्रत्यक्षत एवेति चेत्, तत एव जडतासिद्धि३० रप्यस्तु । अथ ज्ञानरूपतापि नीलादेर्नापरा समस्त्यपि तु तत्स्वरूपमेव, नः अन्यत्राप्यस्य समानत्वात् । अथ नीलादेर्जडत्वे प्रतिभासो न भवेत् जडस्य प्रकाशायोगात् नः स्वतस्तस्याभावे सिद्धसाध्यतापत्तेः परतोऽपि तदभावोऽसिद्धो 'नीलमहं वेद्मि' इति प्रतीतेः जडस्य च प्रकाशायोगे कस्यासाविति वाच्यम् ज्ञानस्येति चेत्, न तत्रापि 'स्वतः परतो वा' इति विकल्पद्रयानतिवृत्तेः । न च जडस्य स्वतःप्रकाशे ज्ञानता जडताविरोधिनी प्रसज्यते ज्ञानस्य तु स्वतः प्रकाशे विरोधाभावान्न ३५ प्रथमविकल्पे दोषापत्तिः निरंशैकपरमाणुपरिमाणस्य तस्य स्वतः प्रकाशे स्थूलैकप्रतिभासविरोधात् न हि प्रत्यक्षप्रतीतस्य स्थूलैकप्रतिभासस्य विरोधो न दोषाय तत्प्रतिभासपरिहारेण निरंशैकपरमाणुप्रतिभासस्याप्रतीयमानस्याभ्युपगमे एकस्य ब्रह्मणः स्वतः प्रतिभासः किं नाभ्युपगम्यते अप्रति भासमानकल्पनायास्तत्रापि निरङ्कुशत्वात् ? चित्रैकस्वभावस्य तस्याभ्युपगमे क्षणिकत्वविरोधः क्रम
१ " अविनाभावः " - बृ० टि० । “अविनाभावग्रहणात् " -ल० टि० । २ " तद्ब्रहणम्" - बृ० ल० टि० । ३ " कर्तृतापन्नम् " बृ० ल० टि० । ४ समान्यस - भ० मां० । समानं स ब० । ५ धानेऽर्थेग्र - ल० । -धानेर्थाग्र-आ० हा ० वि० । ६ " नित्यत्वादचिकित्स्यस्य " - तत्त्वसं० पजि० पृ० २५७ पं० ५ । सिद्धिवि० टी० लि० पू० २६ पं० १२-१३ । शास्त्रवा० स्याद्वादक० पृ० १७८ द्वि० पं० ३।