________________
लिङ्गजन्यत्वाविशेषणानुमानत्वमित्युत्तरपर्यनयातस्य लिङ्गजन्यत्वाल्लिङ्गतापनि
ज्ञानमीमांसा।
४८१ सद्भावः । अथानुमानमेव जन्यम् तत्रैव जन्यताप्रतीतेः न लिङ्गम् तद्विपर्ययात्, न; अनुमानव्यतिरेकेण ग्राह्यतावजन्यताया अप्रतीतेः । न च तत्स्वरूपमेव जन्यता लिङ्गेऽपि स्वरूपसद्भावेन जन्यताप्रसक्तेः तथा च परस्परजन्यतायां पुनरपि स एवेतरेतराश्रयलक्षणो दोषः । अथ स्वरूपाविशेषेऽपि लिङ्गानुमानयोरनुमान एव जन्यता लिङ्गापेक्षा न पुनर्लिङ्गे तैदपेक्षा सेति तर्हि नील-तत्संवेदनयोस्तदविशेषेऽपि तत एव नीलस्यैव तत्संवेदनापेक्षा ग्राह्यता न तु तत्संवेदनस्य नीलापेक्षा सेति५ समानमुत्पश्यामः। न च लिङ्गमनुमानोत्पत्तिकरणादुत्पादकम् यतो यद्युत्पत्तिरनुमानादनान्तरभूता क्रियते तदानुमानमेव लिङ्गेन कृतं भवेत् तथा च तल्लिङ्गमेव प्रसक्तम् लिङ्गजन्यत्वादुत्तरलिङ्गक्षणवत् । न चानुमानोपादानजन्यत्वात् तदनुमानमेव, यतस्तदप्यनुमानोपादानकारणं कुतो जायते? इति पर्यनुयोगे 'अपरलिङ्गात्' इत्युत्तरमभिधानीयम् तत्र च तस्य लिङ्गजन्यत्वाल्लिङ्गतापत्तिरिति पर्यनुयोगे पुनरपि अनुमानोपादानत्वादनुमानत्वमित्युत्तरपर्यनुयोगानवस्थाप्रसक्तिः स्यात् । अथ तथाप्रतीते-१० लिङ्गजन्यत्वाविशेषेऽपि किञ्चिल्लिङ्गम् अपरमनुमानं तर्हि ज्ञानजन्यत्वाविशेषेऽपि किञ्चिज्ज्ञानम् अपरोऽर्थ इति किं न स्यात् ? ततश्च 'नीलादि ज्ञानं ज्ञानकार्यत्वात् उत्तरज्ञानवत्' इत्ययुक्ततया व्यवस्थितम् । यदपि 'यया प्रत्यासत्त्या स्वरूपं विषयीकरोति ज्ञानं तयैव चेद् अर्थम् तयोरैक्यप्रसक्तिः न होकस्वभाववेद्यमनेकं युक्तम् अन्यथैकमेव न किञ्चिद् भवेत् अथान्यथा, स्वभावद्वयापत्तिनिस्य भवेत् तदपि च स्वभावद्वयं यद्यपरेण स्वभावद्वयेनाधिगच्छति तदाऽपरापरस्वभावद्वया-१५ पेक्षणादनवस्था अन्यथा स्वार्थयोरपि तदपेक्षा न स्यात् स्वसंवेदनलक्षणत्वाच्च ज्ञानस्य नासंविदितं रूपं युक्तम्' इत्युक्तम्, तदपि निरस्तम्: लिङ्गस्य समानक्षणानुमानकरणेप्यस्य समानत्वात् । तथाहिलिङ्गं यया प्रत्यासत्या स्वोपादेयक्षणान्तरं जनयति तयैव चेदनुमानम् तयोरैक्यमिति लिङ्गानुमानयोरन्यतरदेव भवेत् । न च लिङ्गाभावेऽनुमानम् तदभावे वा लिङ्गमित्यन्यतरस्याप्यभावः । न च लिङ्गं सजातीयक्षणं नोपजनयति अनुमानसमये नीलाद्यवभासाभावप्रसक्तेः । अथान्यया स्वोपादेय-२० क्षणम् अपरया चानुमानं तर्हि लिङ्गस्यैकस्य रूपद्वयमायातम् तत्र चावभासनं लिङ्गम् तच्च ज्ञानमेव । न च ज्ञानस्याविदितं रूपं संभवति विरोधात् तद्वेदनं चापरेणं तद्दयेनेति सैवात्राप्यनवस्था । अपि च, येन स्वभावेनैकां शक्तिमात्मनि विभर्ति लिङ्गं तेनैव चेदपराम् तयोरैक्यम् अन्येन चेत् स्वभावद्वयम् तत्रापि चापरं स्वभावद्वयं प्राक्तनन्यायेनेत्यपराऽनवस्था । अथ तत्करणकस्वभावत्वाल्लिङ्गं भिन्नस्वभावं कार्यद्वयं निर्वर्तयेत् तर्हि ज्ञानमपि परस्परविविक्तरूपयोः स्वार्थयोरेकं सद ग्राहकमस्तु २५ तहणैकस्वभावत्वात् ततो यदि लिङ्गेनामानस्योत्पत्तिग्नर्थान्तरभूता क्रियते तर्हि ज्ञानेनार्थस्यानर्थान्तरभूता गृहीतिः क्रियत इति समानो न्यायः । अथार्थान्तरभूतोत्पत्तिर्लिङ्गेनानुमानस्य क्रियते तर्हि नानुमानसद्भावः सद्भावेऽपि 'लिङ्गम्' 'उत्पत्तिः' 'अनुमानम्' इति परस्परासंसक्तत्रितयस्य प्रतिभासात् "भ्रान्तिरपि सम्बन्धतः प्रमो" [
] इति न युक्तमभिधानम् । अथ तयाप्युत्पत्त्या अपरार्थान्तरभूतोत्पत्तिर्विधीयते तर्हि तयापि तथाविधापरोत्पत्तिर्विधीयत इत्यनव-३० स्थानान्नानुमानसद्भावः। किञ्च, लिङ्गेनोत्पत्तिः स्वसमया भिन्नसमया वा विधीयेत? भिन्नसमा चेद अर्थग्रहणवत्प्रसक्तिः । समानसमया चेत् सव्येतरगोविपाणवदन्योन्यमुपकार्योपकारकभावाभावान्न जन्यजनकभावः तद्भावे वा तदुत्पत्तिर्जन्यता लिङ्गस्य प्रसज्येत ततश्च लिङ्गमुत्पत्तिर्भवेत् तत्कार्यत्वात् उत्तरोत्पत्तिवत् । न च लिङ्गेनोत्पत्तिर्विधीयते न तया लिङ्गं तस्यामेव कार्यताप्रतीतेरिति वक्तव्यम् तद्व्यतिरेकेण कार्यताऽप्रतीतेः प्रतीतौ वा 'लिङ्गम्' 'कार्यता' 'उत्पत्तिः' इति त्रितयं परस्परासम्बद्धं ३५ भवेत् । न च तत्स्वरूपमेव कार्यता लिङ्गस्यापि ततस्तद्धावापत्तेः । अथ तदविशेषेऽपि प्रतिनियतः कार्यकारणभाव उत्पत्ति-लिङ्गयोस्तर्हि ज्ञानार्थयोः स्वरूपाविशेषेऽपि नियतो ग्राह्यग्राहकभावः किं न स्यात् ? एवमन्यदपि ग्राह्यग्राहकभावपक्षोदितदूषणं लिङ्गानुमानयोर्जन्यजनकभावाभ्युपगमे
१"अनुमान"-बृ. ल. टि.। २-नकार-पृ. । ३ "न चेति योगः"-ल.टि.। ४-ण तद्वयेबृ. ल.-ण द्वये-वा. बा.। ५ "भ्रान्तिरपि संबन्धतः प्रमेति चेत्"-सिद्धिवि. टी.लि. पृ. ६८५०८। "अतस्मिंस्तद्ब्रहो भ्रान्तिरपि संधानतः प्रमा"-षड्द० स० बृ० वृ० पृ.४१ पं०१६। ६-या चे तदर्थ-ल। -दितं दू-बृ०।
६२ स०त.