________________
द्वितीये काण्डे
[विज्ञान-शून्यतावादीयमर्थस्यासत्त्वपक्षं निरस्य तस्य च पारमार्थिकत्वं प्रतिष्ठाप्य लक्ष
णेऽर्थनिर्णीतिस्वभावत्वस्योपपादनम् ] अत्राह सौगतः-भवतु स्वसंविदितं ज्ञानम् अर्थग्रहणस्वभावं तु तन्न युक्तम् अर्थस्यैवाभावात् । तथाहि-यद् अवभासते तद् ज्ञानम् यथा सुखादिः अवभासते च नीलादिकमिति स्वभावहेतुः । ५ नन्वत्र किं स्वतोऽवभासो हेतुः, उत परतः, आहोस्विदवभासमात्रमिति विकल्पाः । तत्र यद्याद्यः पक्षः सन युक्तः, परं प्रति तस्यासिद्धत्वात् 'नीलमहं वेद्मि' इत्यहमहमिकया नीलाद विभिनस्वरूपतया प्रतीयमानेन ज्ञानेन नीलादेब्रहणाभ्युपगमान्न परानपेक्षनीलाद्यवभासः परस्य सिद्धः। यदि तु परनिरपेक्षो नीलाद्यवभासः परस्य सिद्धो भवेत् किमतो हेतोरपरं साध्यमिति वक्तव्यम् ? ज्ञानरूपतेति चेत्, ननु सा यदि प्रकाशता तदा हेतुसिद्धौ सिद्धैव न साध्या । अथ सा न सिद्धा १०कथं हेतो सिद्धिः? अथ भ्रान्तेः पुरुषधर्मत्वात् स्वतोऽवभासनं नीलादिष्वभ्युपगच्छन्नपि ज्ञानरू
पतां नेच्छेदिति साध्यते तर्हि भ्रान्तेरेव भावधर्ममिच्छन्नपि कश्चिद् भावं नेच्छेदिति "नासि भावधर्मोऽस्ति" [ ] इत्यत्र कथमुक्तम्-"को हि भावधर्म हेतुमिच्छन् भावं नेच्छेत्"
] इति । अथापि स्यात् यदि भिन्नेन ज्ञानेन नीलादेर्ग्रहणमुपपत्तिमद् भवेत् तदा हेतुरसिद्धः स्यात् न चैवम् । तथाहि-न भिन्नकालस्यार्थस्य तेन ग्रहणं संभवति नापि समानकालस्य, १५तथा न निर्व्यापारेण, नापि भिन्नाभिन्नव्यापारवता, तथा, न परोक्षेण, नापि खसंविद्रूपं बिभ्रता, नापि
ज्ञानान्तरवेद्येनेति प्रतिपादितं सौगतैरिति न स्वतोऽवभासलक्षणो हेतुरसिद्धः असदेतत् एवमभ्युपगच्छतः सौगतस्यानुमानोच्छेदप्रसक्तः । तथाहि-'यद् अवभासते तद् ज्ञानम् सुखादिवत् तथा च नीलादिकम्' इत्यनुमानमेतत् तच्च त्रिरूपलिङ्गप्रभवम् "त्रिरूपाल्लिङ्गादर्थर" [
] इति वचनात् लिङ्गं चानुमानाद् भिन्न भिन्नसमयं च यदि तस्य जनकं तर्हि समस्तानुमानजनकं तदेव २० स्यादिति अनमानभेदकल्पनावैयर्थ्यम् । अथ भिन्नकालमपि लिङ्गं किञ्चिदेव कस्यचित कारणमिति
नायं दोषस्तर्हि ज्ञानमपि तथाविधं किञ्चिदेव कस्यचिद् ग्राहकम् अर्थो वा तथाविधः कश्चिदेव कस्यचिद ग्राह्य इति नातिप्रसक्तिः । अथ भिन्नकालेऽतीतानुत्पन्नेऽर्थे ग्रहणप्रवृत्तं ज्ञानं निर्विषयं भवेत् तर्हि लिङ्गाद विनष्टानुत्पन्नादुपजायमानमनुमानं निर्हेतुकं किं न भवेत् ? अथ स्वकाले विद्यमानं स्वरूपेण तज्जनकमिति नायं दोषस्तर्हि ग्राह्यमपि खकालेऽपि विद्यमानमिति तथा तस्य तद्वाहकं न निर्वि२५षयं भवेत् । अथ न भिन्नकालं लिङ्गमनुमानस्य कारणं किन्तु समकालम्, न; समकालस्य जनकत्वविरोधात् अविरोधे वा अनुमानमपि लिङ्गस्य जनकं भवेत् तथा चान्योन्याश्रयदोष इति नैकस्यापि
१-दितज्ञा-बृ० विना। २ “तथा च यदुक्तं प्रज्ञाकरेण यदवभासते तज् ज्ञानम् यथा सुखादि अवभासते च नीलादिकम् जडस्य प्रतिभासायोगात्"-सिद्धिवि० टी० लि. पृ० १३६ पं० १२-१३ । अयं चर्चाविधिस्तावदर्थशः शब्दशश्च प्रमेयकमलमार्तण्डे वर्तते-पृ० २२ प्र. पं० ४ । ३ "नासिद्धर्भाव-xxx। धर्मो विरुद्धो भावश्च सा xxx?" ॥
-तत्त्वसं० पजि० ० ४१२ पं० २७ । "असिद्धो भावधर्मश्चेद् व्यभि-xxx। विरुद्धो धर्मोऽभावस्य स सत्तां साधयेत् कथम्" ॥
-अष्टस० पृ० ५८ पं० १८। "नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धो भावस्य सा सत्ता साध्यते कथम्"?॥न्यायमञ्ज. आ० २ पृ० १२८ पं० ७ । प्रमाणमी० १-२-१७ पृ. ६८ पं० २० । जैनतर्कपरि० पृ. १२२ द्वि. पं. ४ यशो०।
४ एतादृशी वाचोयुक्तिः अष्टसहरुयाम् प्रमेयकमलमार्तण्डे च यथाक्रममित्थं दृश्यते-“को हि नाम सर्वज्ञभावधर्म हेतुमिच्छन् सर्वज्ञमेव नेच्छेत्"-पृ० ५८ पं० १६ । “को हि नाम खप्रतिभासं तत्रेच्छन् ज्ञानतां नेच्छेत्"-पृ० २२ प्र. पं० । ५प्र० पृ. पं० ४। ६ 'त्रिरूंपलिङ्गप्रभवं त्रिरूपाल्लिङ्गादर्थडग्' इत्येवमङ्कितः पाठः वृ०। ७ 'लिङ्गं चानुमानादू भिन्न भिन्नसमयं च । यदि तस्य जनकं तैर्हि' इत्येवमङ्कितः पाठः बृ० । ८"ज्ञानम्-बृ० टि.।