________________
ज्ञानमीमांसा।
प्रसिद्धत्वात् समवायाभावे च तस्याप्यसिद्धत्वान्नित्यस्य चेश्वरशानस्येश्वरज्ञानत्वासिद्धः । न च खसंविदितज्ञानवादेऽपि स्वसंविदितत्वाविशेषाद् देवदत्तज्ञानं यज्ञदत्तज्ञानं प्रसज्येत यज्ञदत्तज्ञानस्य देवदत्तासंविदितत्वात् स्वज्ञानस्य कथञ्चित् स्वात्मना तादात्म्यात् तस्यैव तद्रूपतया परिणतेरिति प्रसाधितत्वात् । ज्ञानान्तरेण तस्य संवेदनात् नागृहीतत्वमिति चेत्, न तस्यापि ज्ञानान्तरेण ग्रहणेऽनवस्थाप्रसक्तेः अग्रहणेऽगृहीतवेदनेन गृहीतस्य द्वितीयज्ञानस्यागृहीतरूपत्वान्न तेन 'प्रथम-५ ग्रहणमिति तवस्था धर्म्यसिद्धिः तेन घटादिज्ञानस्य धर्मिणः द्वितीयेन तस्यापि तृतीयेन ग्रहणादर्थसिद्ध परज्ञानकल्पनमिति नानवस्था' इति यदुक्तम् तदप्यसङ्गतम् तृतीयादेर्शानस्याग्रहणे प्रथमस्याप्यसिद्धेरुक्तन्यायात् यदि पुनस्तृतीयज्ञानेन स्वयमसिद्धेनापि द्वितीयं गृह्यते द्वितीयेन तथाभूतेनैव प्रथमम् तेनापि तथाभूतेनैवार्थों ग्रहीष्यत इति द्वितीयज्ञानपरिकल्पनमपि व्यर्थमासज्येत । न च 'विदितोऽर्थः' इति ज्ञानविशेषणस्यार्थस्य प्रतिपत्तेः "अगृहीतविशेषणा च विशेष्ये बुद्धिर्नोपजायते"१० [ ] इति विशेषणग्राहिज्ञानं द्वितीयं परिकल्प्यते । न च विशेषणस्याप्यपरविशेषणविशिष्टता प्रतीयते येन तृतीयादिज्ञानपरिकल्पना युक्तिसङ्गता भवेदिति वक्तव्यम् विशेषणस्यैव तृतीयादिज्ञानपरिकल्पनामन्तरेण ग्रहणासंभवादित्युक्तेः स्वसंविदितज्ञानाभ्युपगम एव ज्ञानविशेषणविशिष्टार्थप्रतिपत्तिः संभविनी अन्यथा तदयोगादनवस्थाऽनिवृत्तेः । न च विषयान्तरसश्चारादनवस्थानिवृत्तिः यतो धर्मिज्ञानविषयात् साधनादि विषयान्तरम् तत्र ज्ञानस्योत्पत्तिर्विषयान्तरस-१५ ञ्चारः न चापरापरज्ञानग्राहिज्ञानसन्तत्युत्पत्ताववश्यंभाविबाह्यसाधनादिविषयसन्निधानम् येन तत्र ज्ञानस्य सञ्चारो भवेत् सन्निधानेऽपि “अन्तरङ्ग-बहिरङ्गयोरन्तरङ्गस्यैव बलीयस्त्वात्
] नान्तरङ्गविषयपरिहारेण बाह्यविषये शानोत्पत्तिर्भवेदिति कुतोऽनवस्थानिवृत्तिः? न चादृष्टवशादनवस्थानिवृत्तिः स्वसंविदितज्ञानाभ्युपगमेनाप्यनवस्थानिवृत्तेः संभवाद् अन्यथा कार्येऽनुपपद्यमानेऽदृष्टपरिकल्पनाया उपपत्तेः स्वसंवेदनेऽपि चादृष्टस्य शक्तिप्रक्षयाभावात् ।२० एतेन 'ईश्वरादेरनवस्थानिवृत्तिः' इति प्रतिविहितम् तस्यादृष्टकल्पनत्वात् प्रतिषिद्धत्वाँच्च । न च शक्तिप्रक्षयाच्चतुर्थज्ञानादेरनुत्पत्तेरनवस्थानिवृत्तिः धर्मिग्रहणस्यैवमभावापत्तेः । किञ्च, शक्तिर्यद्यात्मनोऽव्यतिरिक्ता तदा तत्क्षये आत्मनोऽपि क्षयापत्तिः व्यतिरिक्ता चेत् तत एव ज्ञानोत्पत्तेरनर्थक आत्मा भवेत् । न च सा तस्य' इति नात्मानर्थक्यम् समवायाभावे 'तस्य सा' इत्यसिद्धेः । किञ्च, यदि शक्तिप्रक्षयादनवस्थानिवृत्तिः बाह्यविषयमपि ज्ञानं न भवेत् शक्तिप्रक्षयादेव । न च चतुर्थादिज्ञानजनन-२५ शक्तेरेव प्रक्षयो न बाह्यविषयज्ञानशक्तेः युगपदनेकशक्त्यभावात् भावे वा युगपदनेकज्ञानोत्पत्तिप्रसक्तिः सहकार्यपेक्षापि नित्यस्यासंभविनीति प्रतिपादितम् । क्रमेण शक्तिभावे कुतः स इति वक्तव्यम् ? आत्मन इति चेत्, न; अपरशक्तिविकलात् ततः तदभावात् अपरशक्तिपरिकल्पने तद्भावेऽप्यपरशक्तिपरिकल्पनमित्यनवस्था । तदेवं स्वसंविदितविज्ञानोनभ्युपगमे कथञ्चिद् घटादिज्ञानस्यासिद्धेराश्रयासिद्धः 'शेयत्वात्' इति हेतुः स्वरूपासिद्धश्चेति व्यवस्थितमेतत् स्वनिर्णीति-३० खभावं ज्ञानमिति।
१-सिद्धिः । वा. बा० । “खोत्पाद्यखायोगेन"-वृ० टि० । “खोत्पाथलायोगात्"-ल. टि० । २ धर्मासि-वा. बा० । धर्मसि-आ० । ३-मपि सि-ल.। ४ "न हि अप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्तीति"-मीमां० १-३-३३ पृ०५६ पं० २१ । सिद्धिवि० टी० लि. पृ० ११३ पं० ८ । “नाऽगृहीते विशेषणे विशिष्टबुद्धिरुदेति"-लौकिकन्याया० भा० ३ पृ. ७७ । अस्य न्यायस्य व कोपयोगः, तस्य च पाठभेदभिन्नानि कानिचिद् रूपान्तराणि इत्यादि सर्व लौकिकन्यायाञ्जलो तत्रैव विशेषेण निरूपितम् । ५ “अन्तरग-बहिरङ्गयोरन्तर# बलवत् इति न्यायात्"-ब्रह्मसू. शाङ्करभा० आनन्दगि० टी० २-१-४ पृ. ४३२ पं० १५ । हैम. बृ० वृ०७-४-१२२ । लौकिकन्याया० भा०३ पृ. १०। ६-यादेते-ल। पृ० १०२ पं०६। ८ पृ. ४७४ पं० १३ । ९-नानाभ्यु-वृ० ।-नाभ्यु-ल० वा. बा. आ० हा० वि०।१० पृ० ४७५ पं० २४ ।।