________________
४७८
द्वितीये काण्डेतमुत्पलपत्रशतं युगपद् व्याप्तुमशक्तेः । क्रममेदेऽप्याशुवृत्तेस्तत्र यौगपद्याभिमान इति युक्तम् आत्मनस्तु क्षयोपशमसव्यपेक्षस्य युगपत् स्वपरप्रकाशनस्वभावस्य स्वयममूर्तस्याप्राप्तार्थग्राहिणो युगपत् स्वविषयग्रहणे न कश्चिद् विरोध इति किं न युगपद् ज्ञानोत्पत्तिः ? न च मनोऽपि सूच्यग्रवन्मू-मिन्द्रियाणि तूत्पलपत्रवत् परस्परपरिहारस्थितस्वरूपाणि न युगपद् व्याप्तुं समर्थमिति न युगपज्ज्ञानो५त्पत्तिः तथाभूतस्य तस्यैवासिद्धेः। तथाहि-सिद्धे तद्विभ्रमे मनःसिद्धिः तत्सिद्धौ च युगपज्ज्ञानोत्पत्तिविभ्रमसिद्धिरितीतरेतराश्रयत्वान्न मनःसिद्धिः। ___ ननु "जुगवं दो णत्थि उवओगो" [आवश्यकनि० गा० ९७९] इति वचनात् भवतोऽपि युगपज्ज्ञानानुत्पत्तिः सिद्धैव, ने; मानसविकल्पद्वययौगपद्यनिषेधपरत्वादस्य नेन्द्रिय-मनोविज्ञानयोयोग
पद्यनिषेधः । न च 'विवादास्पदीभूतानि शानानि क्रमभावीनि ज्ञानत्वात् मानसविकल्पद्वयवत्' १० इत्यतोऽनुमानात् तद्विभ्रमसिद्धिः अस्य प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वात् । न चैतदनुमानबाधितत्वात् युगपत्प्रतिपत्त्यनुभवः प्रत्यक्षमेव न भवति 'अश्रावणः शब्दः सत्त्वात् घटवत्' इत्यनुमानबाधितत्वात् श्रावणशब्दज्ञानस्याप्यप्रत्यक्षताप्रसक्तेः । न च सौगतमतमेतत् न जैनमतमिति वक्तव्यम् "सहभाविनो गुणाः क्रमभाविनः पर्यायोः" जैनैरभिधानात् । तथा च सहभावित्वं गुणानां प्रतिपादयता दृष्टान्तार्थमुक्तम्
"सुखमाहादनाकारं विज्ञानं मेयबोधनम् ।।
शक्तिः क्रियानुमेया स्यात् यूनः कान्तासमागमे ॥” [ तदेवं मनसोऽसिद्धेर्न घटादिक्षानं तेन सन्निकृष्टमिति कुतस्तत्राध्यक्षज्ञानोत्पत्तिः? इति यतस्ततस्तत् प्रतीयेत न चान्यत् तदुत्पत्तौ पराभ्युपगमेन निमित्तमस्ति सद्भावे वेन्द्रियार्थसन्निकर्षोत्पन्नत्वादिना तदाहिणोऽध्यक्षता विरुध्येत । अथ ज्ञानान्तरस्यानध्यक्षत्वेऽपि घटज्ञानग्राहकता भविष्यतीति २०न धर्म्यसिद्धेराश्रयासिद्धो हेतुर्भविष्यति घटज्ञानस्य ततः सिद्धेः, असदेतत्; स्वयमसिद्धेन ज्ञानेन
गृहीतस्याप्यगृहीतरूपत्वात् अन्यथा सर्वज्ञज्ञानगृहीतस्य रथ्यापुरुषज्ञानगृहीतत्वं भवेदिति तस्यापि सर्वज्ञताप्रसक्तिः । न च खज्ञानगृहीतं तद्गृहीतमिति नायं दोषः स्वसंविदितज्ञानाभावे 'वज्ञानम्' इत्यस्यैवासिद्धेः । स्वस्मिन् समवेतं स्वज्ञानमभिधीयते इति नायं दोष इति चेत्, न तस्याभावात् भावेऽप्यविशिष्टत्वाच्च । न च खोत्पादितं 'खम्'इति वक्तव्यम् तदुत्पादस्य परदर्शने तदाधेयत्वेन
] इति
१-तिन ल०। २ एवं च 'तवापि जुगवं दो णत्थि उवओगा' इति वचनव्याघात इति वाच्यम्; उक्तवचनस्य समानसविकल्पद्वययोगपद्यनिषेधपरत्वात् इन्द्रिय-मनोज्ञानयोरेकदाप्युपपत्तेः इति सम्मतिटीकाकारः"-शास्त्रवा० स्याद्वादक. पृ० १५५ प्र.पं. ६-८।।
__ "नाणम्मि दंसणम्मि अ इत्तो एगयरयम्मि उवउत्ता । सव्वस्स केवलिस्सा जुगवं दो नत्थि उवओगा" ॥आवश्यकनि० नवकारनि० गा० ९३ पृ० १७५ । आवश्यक. हारि० पृ. ४४६ गा. ९७९ । विशेषावश्यकभाष्ये एषैव गाथा (३.९६ पृ१२००) "एतदिहैव व्यक्तं पुरस्ताद् वक्ष्यति । ततोऽस्यां गाथायां भद्रबाहुखामिभिर्व्यक्तेऽपि युगपदुपयोगे निषिद्धे तद्योगपद्याभिमानोऽद्यापि न त्यज्यते इति भावः" इति व्याख्याता । नन्दिसूत्रटीकायां तु "एतदेव सूत्रेण दर्शयति" इत्यवतरणिकां कृलोद्धृतैषा गाथा-पृ० १३८ प्र. पं० १३-द्वि. पं. १। अधिकारिमेदेन ज्ञान-दर्शनयोर्द्वयोरुपयोगयोर्योगपद्याऽयोगपद्यप्रतिपादिका बृहद्व्यसंग्रहेऽपि गाथा वर्तते । सा चेयम्
"दसणपुव्वं णाणं छदमत्थाणं ण दोण्णि उवउग्गा ।
जुगवं जम्हा केवलिणाहे जुगवं तु ते दो वि"॥४॥-पृ० १६९। ३ भगवतो-बृ० ल० वा. बा. विना। ४ न समान-आ. हा० वि०। ५“सहभुवो गुणाः"-सिद्धिवि. टी. लि.पृ. ९६ पं० १३। "गुणः सहभावी धर्मःxxx पर्यायस्तु क्रमभावी" xxx-प्रमाणनयत. ५,७-८ । रत्नाकरा. ५, पृ. ८२। ६ अष्टस० पृ. ७८ पं० १४ । “कथमन्यथा न्यायविनिश्चये “सहभुवो गुणाः" इत्यस्य
___ "सुखमालादनाकार विज्ञानं मेयबोधकम् । शक्तिः क्रियानुमेया स्याद् यूनः कान्तासमागमे" ॥ इति निदर्शनं स्यात्"-सिद्धिवि. टी.लि. पृ. १६५०१३-१४ ।