________________
ज्ञानमीमांसा।
प्रवृत्तिर्भविष्यतीत्यदृष्टपरिकल्पनावैयर्थ्य पुनःप्रसज्यते।नच प्रतिनियमनिमित्तमदृष्टंकल्पना, तैस्यापि खत प्रतिनियतत्वासिद्धेः । येनात्मना यद् अदृष्टं निर्वर्तितं तत् तस्येति प्रतिनियमसिद्धिरिति चेत्, ननु किमिदमात्मनोऽदृष्टनिर्वर्तकत्वम् ? तदाधारभाव इति चेत्, ननु समवायस्यैकत्वे आरमनां च व्यापकत्वेनैकदेशत्वे 'प्रतिनियत एवात्मा प्रतिनियतादृष्टाधारः' इत्येतदेव दुर्घटम् । समवायाविशेषेऽपि समवायिनोर्विशेषात् प्रतिनियमे समवायाभावप्रसक्तरित्यात्मसुखाद्योस्तत्संवेदनस्य५ कथश्चित्तादात्म्यमभ्युपेयम् अन्यथा तदेकार्थसमवेतज्ञानग्राह्यत्वेन सुखादयो न सिद्धिमासादयेयुः। तन्नादृष्टमपि मनसःप्रतिनियमहेतुः। न च 'येनात्मना यन्मनःप्रेर्यते तत् तत्सम्बन्धि' इति प्रतिनियमः अदृष्टवदात्मनोऽप्यचेतनत्वेन तत् प्रत्यप्रेरकत्वात् चेतनत्वेऽपि नानुपलब्धस्य प्रेरणमिति न नियंतं मनःसिद्ध्यतीत्येकस्मात् ततो युगपत्सर्वसुखादिसंवेदनप्रसक्तिरित्युक्तन्यायेन सुखादिसंवेदनस्येन्द्रियार्थसन्निकर्षजेन्यत्वाभावाद् हेतुरनेन व्यभिचारी।
किञ्च, स्वसंविदितविज्ञानानभ्युपगमे 'सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः अनेकत्वात् पञ्चाङ्गुलिवत्' इत्यत्र पक्षीकृतैकदेशेन व्यभिचारः तज्ज्ञानाऽन्यसदसद्वर्गयोरनेकत्वाविशेषेऽप्येकज्ञानालम्बनत्वाभावात् एकशाखाप्रभवत्वानुमानवत् । अथ सर्वज्ञज्ञानं स्वसंविदितमिति नानेकत्वानुमानस्य व्यभिचारस्तर्हि तज्ज्ञानवदन्यज्ञानस्यापि न स्वात्मनि क्रियाविरोध इति सर्व ज्ञानं स्वसंविदितम् ज्ञानत्वात् सर्वज्ञज्ञानवत्' इति तद्दष्टान्तबलात् स्वसंविदितसकलज्ञानसिद्धिः घटादिज्ञानं ज्ञानान्तरग्राह्यम् १५ ज्ञेयत्वात् घटवत् इत्यत्रं च व्यभिचारः।
अथ “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" [ न्यायद०१-१-१६] इति वचनाद् आत्मेन्द्रियविषयसन्निधानेऽपि यतो युगपज्ज्ञानानि नोपजायन्ते ततोऽवसीयते अस्ति तत्कारणं यतस्तथा तदनुत्पत्तिरिति तत्कारणं मनः सिद्धम्। ननु तदनुत्पत्तिर्मनःप्रतिबद्धा कुतः सिद्धा यतस्तस्यास्तदनुमीयेत? अथात्मनः सर्वगतस्य सर्वार्थः सम्बन्धात् पञ्चभिश्चेन्द्रियैरात्मसम्बद्धः स्वविषयसम्बन्धे एकदा २० किमिति युगपज्ज्ञानानि नोत्पद्यन्ते यद्यणु मनो नेन्द्रियैः सम्बन्धमनुभवेत् तत्सद्भावे तु यदैकेनेन्द्रियेणैकदा तत् सम्बध्यते न तदाऽपरेण तस्य सूक्ष्मत्वादिति सिद्धा युगपज्ज्ञानानुत्पत्तिर्मनोनिमित्तेति; नन्वेवं तस्यात्मसंयोगसमये श्रोत्रसंज्ञकेन नभसापि संयोगात् संयुक्तसमवायाविशेषात् सुखादिवत् शब्दोपलब्धिरपि तदैव स्यात् निमित्तस्य समानत्वेऽपि युगपज्ज्ञानानुत्पत्तावपरं निमित्तान्तरमभ्युपगन्तव्यमिति नातो मनःसिद्धिः । न च कर्णशष्कुल्यवच्छिन्नाकाशदेशस्य श्रोत्रत्वात् तेन च तदैव २५ मनसः सम्बन्धाभावान्नायं दोषः निरंशस्य नमसः प्रदेशाभावात् । न च संयोगस्याव्याप्यवृत्तित्वं तस्य प्रदेशव्यपदेशनिमित्तम् उपचरितस्य व्यपदेशमात्रनिबन्धनस्यार्थक्रियायामुपयोगाभावात् न ह्युपचरिताग्नित्वो माणवकः पाकनिर्वर्तनसमर्थो दृष्टः । न च कर्णशषकुल्यवच्छिन्ननभोभागस्य तथाविधस्यापि शब्दोपलब्धिहेतुत्वमुपलभ्यत एवेति वाच्यम् तदुपलब्धेरन्यनिमित्तत्वात् । किञ्च, चक्षुराद्यन्यतमेन्द्रियसम्बन्धाद रूपादिज्ञानोत्पत्तिकाले मनसः सम्बद्धसम्बन्धात् मानसज्ञानं किं न भवेत् ? न ३० च 'तथाविधादृष्टाऽभावात्' इत्युत्तरम् अदृष्टनिमित्तयुगपज्ज्ञानानुत्पत्तिप्रसक्तितो मनसोऽनिमित्तताभावात् अश्वविकल्पसमये गोदर्शनानुभवाद् युगपज्ज्ञानानुत्पत्तिश्चासिद्धा कथं मनोऽनुमापिका? न चाश्वविकल्प-गोदर्शनयोर्युगपदनुभवेऽपि क्रमोत्पत्तिकल्पना अध्यक्षविरोधात् । न चोत्पलपत्रशतव्यतिमेदवदाशुवृत्तेः क्रमेऽपि योगपद्यानुभवाभिमानः अध्यक्षसिद्धस्य दृष्टान्तमात्रेणान्यथाकर्तुमशक्तेः अन्यथा शुक्लशङ्खादौ पीतविभ्रमदर्शनात् स्वर्णेऽपि तद्भान्तिर्भवेत् । मूर्तस्य सूच्यग्रस्यौत्तराधर्यव्यवस्थि-३५
१-टपरिक-बृ० ल.। २ “अदृष्टस्य"-वृ० ल.टि.। ३-यतहे-बृ. ल. वा. बा. भ. मा. विना । ४-यतमनः बृ० ल. वा. बा. भां० मां० विना। ५-जत्वा-बृ०। ६ “यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमनेकखात् पञ्चाङ्गुलवत्" । सद्-"द्रव्यगुणादि" । असद्-"प्रागभावादि"-प्रमेयक० पृ० १०५ प्र. पं० ८, टि. १९-२०। ७“पक्कान्येतानि फलानि एक शाखाप्रभवत्वात् उपयुक्तफलवत्"-प्रमेयक० पृ. १०३ प्र० पं० ११॥ ८ सर्वज्ञा-वा. बा. आ. हा०वि०। ९-त्र व्य-बृ०। १० "युगपदनुत्पत्तेः"-बृ० ल० टि० । ११ “मनः"बृ. ल. टि.। १२-मीयते वा० बा०। १३ "मनः"-बृ. ल.टि.। १४-शस्य व्य-ल०।-शनिमिबृ०। १५संबंद्धसं-वा. बा. आ. हा० वि० ।