________________
द्वितीये काण्डेमनोज्ञानेन्द्रियार्थसन्निकर्षोत्पन्नतदेकार्थसमवेताध्यक्षग्राह्यत्वाद् घटादिशानस्य कथमाश्रयासिद्धत्वादिहेतोर्दोषः १ युक्तमेतत् यदि इन्द्रियं मनः सिद्धं भवेत् । अथानुमानात् तसिद्धिः। तथाहि-घटादिक्षानज्ञानमिन्द्रियार्थसन्निकर्षजम् प्रत्यक्षत्वे सति ज्ञानत्वात् चक्षुरादिप्रभवरूपादिशानवत्, न; अस्य हेतो. रप्रसिद्धविशेषणत्वात् न हि घटादिज्ञानज्ञानस्याध्यक्षत्वं सिद्धम् इतरेतराश्रयत्वात् । तथाहि-मनइ५न्द्रियसिद्धावस्याध्यक्षत्वसिद्धिः तत्सिद्धौ च सविशेषणहेतुसिद्धर्मनइन्द्रियसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । न च घेटादिज्ञानाद् भिन्नमपरं ज्ञानं तद्भाहकमनुभूयत इति विशेष्यासिद्धश्च हेतुः।। __ सुखादिसंवेदनेन व्यभिचारी च । तथाहि-तत्संवेदनमध्यक्षत्वे सति शानं न च तेजन्यमिति व्यभिचारः । अथास्यापि पक्षीकरणाददोषः। तथाहि-सुखादिसंवेदनमिन्द्रियार्थसन्निकर्षजम् अध्यक्ष
शानत्वात् चक्षुरादिप्रभवरूपादिवेदनवत् सुखादिर्वा भिन्नज्ञानवेद्यः शेयत्वात् घटवत् । नन्वेवं १० व्यभिचारविषयस्य पक्षीकरणे न कश्चिद्धतुर्व्यभिचारी स्यात् । तथाहि-अनित्यः शब्दः प्रमेयत्वात् घटवत् इत्यत्राप्यात्मादेर्व्यभिचारविषयस्य पक्षीकरणान्न व्यभिचारः शक्यं ह्यत्रापि वक्तुम् अनित्य आत्मादिः प्रमेयत्वात् घटवत् । न चात्र प्रत्यक्षबाधः अन्यत्रापि तस्य समानत्वात् न हि सुखाद्यविदितस्वरूपं पूर्व घटादिवदुत्पन्नं पुनरिन्द्रियसम्बन्धोपजातज्ञानान्तराद् वेद्यत इति लोकप्रतीतिः अपि
तु प्रथममेव स्वप्रकाशरूपं तदुदयमासादयदुपलभ्यते । आत्मनि क्रियाविरोध इति चेत्, न स्वरूपेण १५पदार्थस्य विरोधाभावात् अन्यथा प्रदीपादेरप्यपरप्रकाशविकलस्वरूपप्रकाशविरोधः स्यात् । तस्य
तत्स्वरूपं कुतः सिद्धमिति चेत् प्रदीपादौ कुतः? तथादर्शनमितरत्रापि समानम् । न चैकस्य स्वभावोऽपरत्राप्यभ्युपगमार्हः अन्यथा स्वपराप्रकाशस्वभावो घटगतःप्रदीपेऽप्यभ्युपगमनीयो भवेत्। मच तदवगमात् पूर्वमप्रतीयमानमपि सुखाद्यभ्युपगन्तुं युक्तम् श्रवणसमयात् प्राक् पश्चाश्च शब्दस्य
सत्ताभ्युपगमप्रसङ्गतो नित्यत्वापत्तेः । न चात्मनो ज्ञानाच्च अर्थान्तरभूता एव सुखादयोऽनुग्रहादि२०विधायिनो भवेयुः इतरथा योगिनोऽपि ते तथा स्युः । न च तेषां तत्राऽसमवायानायं दोपः समवायस्य निषिद्धत्वात् । तन्न सुखादिग्रहणे मनइन्द्रियसिद्धिः । अत एव च 'आत्मा मनसा युज्यते तत्र च समवेताः सुखादयः' इत्यादिप्रक्रियाऽनुपपनैव । न च निरंशयोरात्म-मनसोः संयोगः संभवी एकदेशेन तत्संयोगे सांशत्वप्रसक्तेः सर्वात्मना संयोगे उभयोरेकरवप्राप्तः। यदि च यत्र मनः
संयुक्तं तत्र समवेतं ज्ञानं समुत्पादयति तदा सर्वात्मनां व्यापितया समानदेशत्वेन मनसस्तैः संयुक्त२५त्वात् सर्वात्मसमवेतसुखादिषु तदेवैकं ज्ञानमुत्पादयतीति प्रतिप्राणि भिन्नमनःपरिकल्पनमनर्थक
मासज्येत । न च यस्य सम्बन्धि यन्मनस्तत्समवेतसुखादिक्षाने तदेव हेतुरिति नायं दोषः प्रतिनियतात्मसम्बन्धित्वस्यैव तत्रासिद्धेः न हि तत्कार्यत्वेन तत्सम्बन्धिता, तस्य नित्यत्वाभ्युपगमात् तत्र चानाधेयाप्रहेयातिशये तत्कार्यताऽयोगात् । नापि तत्संयोगात् तस्यापि तत्रैकदेशेन सर्वात्मना वाऽयोगात् योगेऽपि व्यापकत्वेन समानदेशिसर्वात्मभिर्युगपत्संयोगात् प्रतिनियतात्मसम्बन्धित्वा३० नुपपत्तेः । न च यदृष्टप्रेरितं तत् प्रवर्तते तत्सम्बन्धीति वक्तव्यम् अदृष्टस्याचेतनत्वेन प्रतिनियतविषय(षये) तत्प्रेरकत्वायोगात् प्रेरकत्वे वा ईश्वरपरिकल्पनावैयर्थ्यप्रसक्तेः। न चेश्वरप्रेरित एवासौ तत्प्रेरक इति न तत्परिकल्पनावैयर्थ्यम् अदृष्टप्रेरणामन्तरेणेश्वरस्य साक्षान्मनःप्रेरकत्वोपपत्तेरदृष्टपरिकल्पनावैफल्यापत्तेः। न चेश्वरस्य सर्वसाधारणत्वाददृष्टविकलस्य मनःप्रेरकत्वे न ततस्तस्य प्रतिनियतात्मसम्बन्धितेति अदृष्टपरिकल्पना, तस्याचेतनत्वेनेश्वरसहितस्यापि प्रतिनियतमनःप्रवृत्ति३५ हेतुत्वायोगात् अचेतनस्यापि चेतनसहितस्य प्रवर्तने मनसोऽचेतनस्यादृष्टविकलस्य चेतनसहितस्य
१-तोर्दोषोऽयु-बृ० । २ घटशा-ल. विना । ३ "इन्द्रियार्थसन्निकर्षजन्यम्"-६० ल. टि. । ४ सुखसं-बृ० । ५ पृ० ४७५ पं० ३१ । ६ तदैवै-वा० बा०। ७-षयेमेतत प्रे-हा० ।-षयमेतत् प्रे-भां० मां० आ० वि० । “नापि यददृष्टप्रेरितं प्रवर्तते निवर्तते वा तत् तस्येति वाच्यम् अचेतनस्यादृष्टस्य अनिष्टदेशादिपरिहारेण इष्टदेशादौ तत्प्रेरणासंभवात् अन्यथेश्वरकल्पनावैफल्यम्"-प्रमेयक. पृ. ३६ द्वि. पं० ११। ८-रितयेवासौ बृ० वा. बा० ।-रितायेवासौ आ० ।-रितायवासौ ल. हा०वि०-रित एवासौ ल० सं०।९ आत्मा"ल. टि. । “न चेश्वरस्यादृष्टप्रेरणे व्यापारात् साफल्यं मनस एवासौ प्रेरकः कल्प्यतां किं परंपरया"-प्रमेयक. पृ० ३७ प्र. पं० १। १०-वैयापत्तेः ल.।