________________
ज्ञानमीमांसा।
स्तजन्यत्वेऽनवस्थाद्यनेकदोषापत्तेः प्रतिपादनात् । यदपि 'अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धि. जनिका सामग्री प्रमाणम्' इत्युक्तम् तदप्यसङ्गतम् अव्यभिचारादेरुपलब्धिविशेषणस्य भवदभिप्राये णायोगात् यथा च तस्याऽयोगस्तथा प्रत्यक्षलक्षणे प्रदर्शयिष्यामः । सामग्री च तजनिका यथा न संभवति तथाभिहितमेव साकल्यं विचारयद्भिः। यच्च 'अबोधस्वभावस्याधि प्रदीपादेः प्रमाणत्वं प्रतिपाद्यते, तदप्यसङ्गतमेव; अबोधस्वभावस्य तस्य प्रमितिक्रियायां साधकतमत्वायोगात् । यच्च लोक-५ स्तेषां प्रामाण्यम् 'दीपेन मया दृष्टम् 'चक्षुषाऽवगतम् 'धूमेन प्रतिपन्नम्' इसि व्यवहरति तदुपचारतः यथा 'ममायं पुरुषः चक्षुः' इति न तु मुख्यतः मुख्यतस्तु बोधस्यैव प्रमिति प्रति तादात्म्यादव्यवहितं साधकतमत्वम् चक्षुरादेस्तु बोधव्यवधानाद् गौणम् । न च व्यपदेशमात्रात् पारमार्थिकवस्तुव्यवस्था उपचारतोऽपि 'नड्वलोदकं पादरोगः' इत्यादिव्यपदेशप्रवृत्तेः । न च प्रमाणस्य प्रेमितिरूपता विरुद्धा स्वरूपे विरोधासिद्धेः। न च प्रमाण-प्रमित्योरेकान्ततो भेद एवाभ्युपगम्यते, कथञ्चिद् बोधादर्थपरि-१० च्छित्तिविशेषस्य भेदात् प्राक्तनपर्यायनिरोधेन कथञ्चिदवस्थितस्यैव बोधस्यार्थपरिच्छित्तिविशेषरूपतयोत्पत्तेः अन्यथा कार्यकारणभावविरोधात् इत्यसकृत् प्रतिपादितत्वात् । एतेन
'लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।' इति यत् शास्त्रान्तरेषु बोधाबोधरूपस्य प्रमाणत्वाभिधानम् तदप्युपचारेण व्याख्येयमित्युक्तं भवति अन्यथा प्रमाणविरोधःप्रदर्शितन्यायेन । यदपि 'तत्कार्यभूता वा उदितविशेषणोपलब्धिस्तस्य १५ सामान्यलक्षणम्' इत्युक्तम् तदप्यसङ्गतम् न हि यथोक्तविशेषणोपलब्धिः पराभ्युपदामेन संभवति । नापि पराभ्युपगतप्रमाणकार्यतयासौ सिद्धा येन स्वकारणं प्रमाणाभासेभ्यो व्यवच्छिन्द्यात् । तन्नाक्षपाद-कणभुग्मतानुसारिपरिकल्पितमपि प्रमाणसामान्यलक्षणमुपपत्तिक्षमम् । तस्मात् प्रमाणं स्वार्थनिर्णीतिखभावं ज्ञानमित्येतदेव प्रमाणसामान्यलक्षणमनवद्यम् । [ नैयायिकादिसंमतं परसंविदितत्वपक्षमपास्य सिद्धान्तिना लक्षणैकदेशभूतस्य स्वनिर्णीति- २०
स्वभावत्वस्य व्यवस्थापनम् ] ननु चात्रापि स्वग्रहणविधुरस्य ज्ञानस्य नैयायिकादिभिरभ्युपगमाद् बौद्धैस्त्वर्थग्रहणविधुरस्येति स्वार्थनिर्णीतिखभावताऽसिद्धा । तथाहि-नैयायिकाः प्रतिपादयन्ति-घटादिज्ञानं स्वग्राह्यं न भवति शानान्तरग्राह्यं वा, ज्ञेयत्वाद् घटादिवत् ।
अत्र प्रयोगे हेतुः स्वरूपासिद्धः आश्रयासिद्धश्च धर्मिणो ज्ञानस्याप्रतिपत्तौ तदाश्रितशेयत्वधर्मा-२५ प्रतिपत्तेः। न चाश्रयासिद्धस्य परैर्गमकत्वमभ्युपगम्यते अन्यथा सामान्यादिनिषेधे 'सामान्यस्यासिद्धौ परं प्रत्याश्रयासिद्धो हेतुः' इति दोषोद्भावनमयुक्तियुक्तं भवेत् । अथ घटादिज्ञानस्य प्रमाणतः प्रसिद्धेर्नायं दोषः; ननु तत्प्रसिद्धिरध्यक्षतः, अनुमानतो वा प्रमाणान्तरस्यात्रानधिकारात् ? न तावद्ध्यक्षतः तस्येन्द्रियार्थसन्निकर्षजत्वाभ्युपगमात् न च ज्ञानस्य चक्षुरादीन्द्रियेण सन्निकर्षः न च तद्व्यतिरिक्तमिन्द्रियान्तरमस्ति । अथ मनोलक्षणमन्तःकरणमस्ति तस्य च ज्ञानेन संयुक्तसमवायः सन्निकर्ष इति ३० तत्प्रभवमध्यक्षं तत्र प्रवर्तत इति । तथाहि-आत्मना मनः संयुक्तम् आत्मनि च समवेतं ज्ञानमिति
१पृ० ४७१ पं० १८। २-मग्री त-बृ० । ३ पृ. ४७३ पं० ३ । ४ न्यायस्यास्योपयोगो महाभाष्ये इत्थं विहितः___"अन्तरेणापि निमित्तशब्दं निमित्तार्थो गम्यते । तद्यथा-"दधित्रपुसं प्रत्यक्षो ज्वरः" ज्वरनिमित्तमिति गम्यते । "नडलोदकं पादरोगः" पादरोगनिमित्तमिति गम्यते । “आयुर्घतम्" आयुषो निमित्तमिति गम्यते"-१-१-५८ पृ० ४५८ । लौकिकन्याया. भा. ३ पृ. ६६ तथा ६१।
५पृ. ४५९ पं० ३।६ पृ. ४७२ पं० २८। ७ ज्ञानस्य परसंविदितत्वनिराकरण-खसंविदितवस्थापनपरेयं चर्चा प्रमेयकमलमार्तण्डे भाष्यायमाणा बहुधा शब्दसाम्यं बिभ्रती च क्रमोत्क्रमाभ्यां वर्तते-पृ. ३३ द्वि. पं. ६-पृ० ३८ । प्र.पं०५। ८ प्रस्तुतप्रक्रियाप्रतिपादक षड्दर्शनसमुच्चयबृहट्टीकायां "यदुक्तम्" निर्दिश्य समुद्धृतं प्राच्यं पद्यमित्थम्
"आत्मा सहति मनसा मन इन्द्रियेण खार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन् मनो ब्रजति तत्र गतोऽयमात्मा" | पृ०५८ पं०१।