________________
४७४
द्वितीये काण्डे -
यद् भवति तदा तत्र तथा तदात्मादिकं कर्तुं समर्थमिति नैकदा सकलतदुत्पाद्यप्रमाणोत्पत्तिप्रसक्तिः, नं; स्वभावभूतसामर्थ्य भेदमन्तरेण कार्यस्य कालादिभेदायोगात् अन्यथा दृश्यपृथिव्यादिमहाभूतकार्यनानात्वस्य कारणं किमदृद्धं पृथिवीपरमाण्वादिचेतुर्विधमभ्युपेयते ? एकमेवानंशं नित्यं सर्वगं सर्वोत्पत्तिमतां समवायिकारणमभ्युपगम्यताम् । अथ कारणजाति मेदमन्तरेण न कार्यमेद् उपपद्यते ५ तर्हि कारणशक्तिभेदमन्तरेणापि न कार्यभेद उपपद्यते इत्यभ्युपगन्तव्यम् । अथ यया शक्त्यैकमनेकाः शक्तीर्विभर्ति - तत्राप्यनेकशक्तिपरिकल्पने ऽनवस्थाप्रसक्तेः - तयैव तद् अनेकं कार्य विधास्यतीति न शक्तिभेदपरिकल्पना, असदेतत्; यतो न जैनस्यायमभ्युपगमः यदुत भिन्नाः शक्तीः कयाचित् प्रत्यासत्तिलक्षणया शक्त्या एकः कश्चिद्धारयतीति किन्तु तत् तदात्मकम् तदपि तथाविधं न कस्याश्चित् शक्तेः अपि तु स्वकारणवशात् । न चैकस्यानेकात्मकत्वमदृष्टमेव परिकल्प्यते अनेकरूपाद्यात्मक१० स्यैकस्य पटादेः प्रमाणतः प्रतिपत्तेः अन्यथा गुणगुणिभाव एव न भवेत् समवायस्य तन्निमित्तस्याभावात् । ततो नित्यानि चेत् सकलकारणानि साकल्यजननस्वभावानि, सकलकालभाविसाकल्यस्य तदैवोत्पत्तिप्रसक्तिः । न चेत् तज्जननस्वभावानि नैकदापि तदुत्पत्तिः अतज्जननस्वभावात् सकृदपि तस्यानुत्पत्तेः। न च सहकारिसव्यपेक्षाणि तानि तज्जनयन्ति नित्यस्यानुपकार्यतया सहकार्यपेक्षा - योगात् । न च संभूयैकार्थकारित्वं तेषां सहकारित्वम् एकान्तनित्यवादे तस्यापि निषिद्धत्वात् । १५ तन्न सकलकारणकार्यमपि साकल्यं संभवति । किञ्च, किमसकलानि कारणानि साकल्यं जनयन्ति उत सकलानि ? न तावदसकलानि अतिप्रसङ्गात् । नापि सकलानि साकल्यमन्तरेण 'सकलानि' इति व्यपदेशाभावात् भावे वा अकिञ्चित्करं साकल्यमिति तत्परिकल्पना व्यर्था । किञ्च, यया प्रत्यासत्त्या तानि साकल्यं जनयन्ति तयैव प्रमितिमप्युत्पादयिष्यन्तीति व्यर्था साकल्यपरिकल्पना । अथ साकल्यस्य साधकतमत्वात् तदभावे नाकरणिका प्रमित्युत्पत्तिस्तर्हि साकल्योत्पत्तावपि २० तेषामपरं साकल्यलक्षणं करणमभ्युपगन्तव्यम् अन्यथा अकरणिका साकल्यस्यापि कथमुत्पत्तिः ?
अथ तदुत्पत्तावपि करणमभ्युपगम्यते तर्हि तदुत्पत्तावप्यपरं करणमभ्युपगन्तव्यमित्यनवस्था । अँथ करणोत्पत्तौ नापरं करणमभ्युपगम्यत इति नानवस्था तर्हि उपलब्ध्युत्पत्तावपि न करणमभ्युपगन्तव्यमिति न साकल्यप्रमाणपरिकल्पना युक्तिसङ्गता । न च साकल्यस्य अध्यक्षादिप्रमाण सिद्धत्वाद् अध्यक्षबाधितोऽयं विकल्पकलापः, आत्माऽन्तःकरण- तत्संयोगादेः कारणसाकल्यस्यातीन्द्रियत्वेना२५ ध्यक्षाविषयत्वात् तत्पूर्वकत्वेन पूर्ववदादेरनुमानस्याप्यभ्युपगमान्न ततोऽपि साकल्यसिद्धिः केवलं विशिष्टार्थोपलब्धिलक्षणमध्यक्ष सिद्धं कार्य करणमन्तरेण नोपपद्यत इति तत्परिकल्पना, तच्च साकल्यमिति न कल्पयितुं शक्यम् आत्मादिकरणसद्भावे कार्यस्योपपत्तावपरपरिकल्पने ऽदृष्टपरिकल्पनाप्रसक्तितोऽपरापरादृष्टपरिकल्पनयाऽनवस्थाप्रसक्तेः । तन्न सकलकारणकार्यमपि साकल्यम् । अथ पदार्थान्तरं सकलकारणेभ्यः साकल्यम् तदा यत् किञ्चित् पदार्थान्तरं तत् साकल्यं प्रसज्यत ३० इति यस्य कस्यचित् पदार्थान्तरस्य सद्भावे अर्थोपलब्धिर्भवेदिति सर्वदा सर्वस्य सर्वज्ञताप्रसक्तिः । तन्न कारकसाकल्यं प्रमाणम् । तेन 'प्रमातृ - प्रमेययोरभावे साकल्याभावः' इत्यादि प्रतिक्षिप्तम् तत्सद्भावेऽपि भवदभिप्रायेण साकल्यानुपपत्तेः ।
यदपि 'मुख्यगौणभावस्य कारकसाकल्यभावाभावनिमित्तत्वात्' इत्यादि, तदपि व्योमकुसुमायतंसकभावाभावकृतदेवदत्तसौभाग्यासौभाग्यप्रख्यं द्रष्टव्यम्; एतेन 'सन्निपत्यजननं साधकतमत्वम्' ३५ यद् व्याख्यातम् तदपि निरस्तम् तस्यापि साकल्यार्थत्वात् । यदपि 'साकल्यं हि तेषामेव धर्ममात्रम् नैकान्तेन वस्त्वन्तरम्' इति, तदपि अनेकान्तवादिमतानुप्रवेशं भवतः सूचयति अन्यथा साकल्यस्य सकलेभ्योऽभेदे धर्मिमात्रमिति ने साकल्यम् धर्ममात्रं वा भवेदिति न धर्मिणः । एकान्तभेदे तु बस्त्वन्तरमेव तत् इति ‘न वस्त्वन्तरम्' इत्यभिधेयशून्यं वचः वस्त्वन्तरपक्षे तु दोषाः प्रतिपादित एव । यदपि 'प्रमातृप्रमेयजन्यत्वेऽपि सामग्र्या न करणत्वव्याहतिः' इति, तदपि न सङ्गतम् ; सामग्र्या
१ न च स्व-ल० कारणम - बृ० विना । ६ पृ० ४७२ पं० १२ । १० प्र० पृ० पं० २९ ।
आ० हा० वि० । २ " पार्थिव-आप्य - तैजस- वायवरूपम् " - बृ० ल० टि० । ३-कार्य४ अथ च क -आ० हा ० वि० । ५ " अनुमानात् " - बृ० टि० । “अनुमानतः " -ल० टि० । ७ पृ० ४७२ पं० १५ । ८ पृ० ४७२ पं० २० । ९ न च सा-आ० हा० वि । ११ पृ० ४७२ पं० २६ ।