________________
ज्ञानमीमांसा।
४७३ [सामग्रीप्रमाणवादं प्रतिविधाय स्वार्थनिर्णीतिस्वभावज्ञानस्य प्रमाणसामान्यलक्षणतयोपसंहारः]
अत्र प्रतिविधीयते यत् तावदुक्तम्-'कारकसाकल्यस्य करणत्वेनाभ्युपगमे पूर्वोक्तदोषाभावः' इति, अत्र वक्तव्यम्-किमिदं कारकसाकल्यम् ? किं सकलान्येव कारकाणि, आहोस्वित् तद्धर्मः, उत तत्कार्यम्, किंवा पदार्थान्तरमिति प्रक्षाः । तत्र न तावत् सकलान्येव कारकाणि साकल्यम् कर्तृकर्माभावे तेषां करणत्वानुपपत्तेः तत्सद्भावे वा नान्येषां कर्तृकर्मरूपता सकलकारकव्यतिरेकेणा-५ ज्येषामभावात् भावे वा न कारकसाकल्यम् । अथ तेषामेव कर्तृ-कर्मरूपता, न तेषां करणत्वाभ्युपगमात् न च कर्तृ-कर्मरूपाणामपि तेषां करणत्वम् तेषां परस्परविरोधात् । तथाहि-ज्ञानचिकीर्षाधारता स्वातन्यं वा कर्तृता, निर्वादिधर्मयोगिता कर्मत्वम् , प्रधानक्रियानाधारत्वं करणत्वम् एतानि परस्परविरुद्धानि कथमेकत्र संभवन्ति ? अथापरापरनिमित्तभेदादेकत्र कर्तृ-कर्म-करणरूपताया अविरोधः; ननु तान्यपि निमित्तानि किं सकलकारकेभ्यो व्यतिरिक्तानि, उताव्यतिरिक्तानीति वाच्यम् । यद्यव्यति-१० रिक्तानीति पक्षस्तदा तदभेदे तेषामप्यभेदः तेषां वा भेदे कारकस्यापि भेदः अन्यथाऽव्यतिरेकासिद्धेः। अथ व्यतिरिक्तानि तदा सम्बन्धासिद्धिः-नच समवायलक्षणः सम्बन्धः तस्य निषिद्धत्वात् निषेत्स्यमानत्वाच्च, न च एकान्तभेदे विशेषणविशेष्यभावादिकोऽपि सम्बन्धः कश्चित् संभवति तत्रापि सम्बन्धान्तरकल्पनातोऽनवस्थाप्रसक्तेः, न च तस्य सम्बन्धरूपत्वात् सम्बन्धान्तरमन्तरेणापि सँम्बद्धत्वान्नानवस्था एकान्तभेदे सम्बन्धरूपताया एवायोगात् । कथञ्चिन्निमित्तानां कारकेभ्योऽ-१५ मेदे अनेकान्तवादापत्तिःतन्न सकलकारणानि साकल्यम् । अथ कारणधर्मः साकल्यम् । ननु सोऽपि यदि कारकाव्यतिरिक्तस्तदा धर्ममात्रम् कारकमात्रं वा । अथ व्यतिरिक्तस्तदा 'सकलकारकधर्मः साकल्यम्' इति सम्बन्धासिद्धिः सम्बन्धेऽपि यदि सर्वकारणेषु युगपदसौ संम्बध्यते तदा बहुत्वसङ्ख्या तत् पृथक्त्व-संयोग-विभाग-सामान्यानामन्यतमस्वरूपापत्तिस्तस्येति तद्दूषणेन तस्य दूषितत्वात् न साधकतमत्वमुपपत्तिमत् ।
२० अथ तत्कार्य साकल्यम्, तदप्ययुक्तम् ; नित्यानां साकल्यजननस्वभावत्वे सर्वदा तदुत्पत्तिप्रसक्तेः ततश्चैकप्रमाणोत्पत्तिसमये सकलतदुत्पाद्यप्रमाणोत्पत्तिप्रसक्तिः तजनकस्वभावस्य कारणेषु पूर्वोत्तरकालभाविनस्तदैव भावात् । तथाहि-यदा यजनकमस्ति तत् तदोत्पत्तिमत् यथा तत्कालाभिमतं प्रमाणम् अस्ति च पूर्वोत्तरकालभाविनां सर्वप्रमाणानां तदा नित्याभिमतं जनकमात्मादिकं कारणमिति कथं न तदैव सकलतदुत्पाद्यप्रमाणोत्पत्तिप्रसक्तिः? अथ आत्मादिके सत्यपि तदा तानि न २५ भवन्ति न तर्हि तत् तत्कारणम् नापि तानि तत्कार्याणीति सकृदपि तानि ततो न भवेयुरिति सकलं जगत् प्रमाणविकलमापद्येत । न च आत्मादिके तत्करणसमर्थे सत्यपि स्वयमेव यथाकालं तानि भवन्ति इति वक्तव्यम् तेषां तत्कार्यताऽभावप्रसक्तेः तस्मिन् सत्यपि तदाऽभावात् स्वयमेवान्यदा च भावात् । नच स्वकालेऽपि कारणे सत्येव भवन्तीति तत्कार्यता गगनादिकार्यताप्रसक्तेः-गगनादावपि सत्येव तेषां भावात् । न च गगनादेरपि तत् प्रति कारणत्वस्येष्ट यं दोषः, प्रमितिलक्षणस्य तत्फल-३० स्थापि व्योमादिजन्यतया आत्माऽनात्मविभागाभावप्रसक्तेः । अथ यत्र प्रमितिः समवेता स एव आत्मा न व्योमादिरिति न तद्विभागाभावः ननु 'समवेता' इति कोऽर्थः? समवायेन संबद्धेति चेत्, ननु तस्य नित्यसर्वगतैकत्वेन व्योमादावपि प्रमितेः सम्बन्धान तत्परिहारेणात्मनो विभागः । न च समवायाविशेषेऽपि समवायिनोर्विशेषान्नायं दोषः, समवायस्याभावप्रसक्तेः । अथ यदा यत्र यथा
१पृ. ४७२ ५० ८।२ अत्र बृहत्ताडपत्रादर्श 'किमिदं कारकसाकल्यम्' इति प्रश्नं विषयीकुर्वाणानां पक्षाणां संख्यास्पष्टीकरणाय तत्तत्पक्षदर्शकवाक्यस्योपरि १-२-३-४ इत्येवमङ्का अपि लिखिताः । अन्यत्रापि एतादृशे स्थले तत्रैवाद” क्वचित् क्वचित् अङ्काः प्रदर्शिताः सन्ति । ३-षामेककर्तु-ल. विना । "तद्भावे वान्येषां कर्तृकर्मरूपता लेषामेव वा ता-(न ता-)वदन्येषां सकलकारकव्यतिरेकेणान्येषामभावात् भावे वा न कारकसाकल्यम् नापि तेषामेव कर्तृकर्मरूपता करणवाभ्युपगमात्"-प्रमेयक० पृ. ३ द्वि. पं० २। ४-गित्वात् क-वा० बा० । “निर्वय॑त्वादिधर्मयोगिलं कर्मखम्"-प्रमेयक. पृ. ३ द्वि०५०४।५पृ० १०६ पं०१०। ६ संबंधमंतरेणापि बृ०। ७संबंधत्वा-ल. वा. बा। संबंधाना-आ. हा०वि०। ८-त्रं वा का-आ० । “धर्ममात्रं कारकमात्रं वा स्यात्"-प्रमेयक० पृ. ३ द्वि०५०६। सम्बन्ध्यते आ. हा०वि०। १० तत्र पृ-आ. हा०वि०।
६१ स.त.