________________
४७२
द्वितीये काण्डेपूर्वोदितदोषाभावः । तथाहि-अनेकसन्निधौ कार्यनिष्पत्तेः साधकतमत्वानुपपत्तिः तस्मिंस्तु सति यदा नियमेन कार्यमुपजायते तदा कथं न तस्य साधकतमत्वोपपत्तिः ? असदेतत्, एवं प्रमाणत्वस्याव्यवस्थितिप्रसक्तेः। तथाहि-दीपादेः प्रकाशस्य सामंत्र्येकदेशस्य कस्याञ्चिदवस्थायां प्रमाणत्वेनाभिमतस्य सद्भावेऽपि प्रमेयाभावात् कार्यानिष्पत्तौ तत्सद्भावे तु तन्निष्पत्तौ तस्यापि प्रदीपवत् सन्निपत्य५कारकत्वात् प्रमाणताप्रसक्तिर्भवेत् तथा प्रमातुरपि मूर्छाद्यवस्थायामनवधाने वाऽन्यकारकसनिधानेऽपि कार्यानुत्पत्तौ तद्वधानादिसन्निधाने तजन्यकार्यनिष्पत्तेः सन्निपत्यजनकत्वेन साधकतमत्वप्रसक्तिः।
अत्रै कारकसाकल्यस्य साधकतमत्वेनाभ्युपगमात् पूर्वोक्तदोषाभावं केचिन्मन्यन्ते । तथाहिनैकस्य प्रदीपादेः सामग्र्यैकदेशस्य करणता अपि तु कारकसाकल्यस्य तद्भावे कारकसाकल्याभावे१० नाभिमतकार्यासत्त्वमिति प्रमातृ-प्रमेयसद्भावे कारकसाकल्यस्योत्पत्तौ प्रमितिलक्षणस्य कार्यस्य भाव
एव । अथ मुख्यप्रमातृ-प्रमेयसद्भावेऽपि पूर्वोदितस्य नियमस्य तुल्यता, न कारकसाकल्यभावाभावनिमित्तत्वात् तन्मुख्यगौणभावस्य । तथाहि-कथंचित् कारकवैकल्ये तयोः सत्त्वेऽपि गौणता तत्साकल्ये कुतश्चिद् निमित्तान्तरात् यथोक्तप्रमितिलक्षणकार्यनिष्पत्तावगौणता प्रमातृ-प्रमेययोः तयोश्चा
नुपपत्ती साकल्यस्यासत्त्वम् अतः कारकसाकल्ये कार्यस्यावश्यंभाव इति तस्यैव साधकतमत्वम् । १५ अनेककारकसन्निधाने उपजायमानोऽतिशयः सन्निपत्यजननं साधकतमत्वं यद्युच्येत तदा न कश्चिद्
दोषः। तथाहि-सामग्र्यैकदेशकारकसद्भावेऽपिप्रमितिकार्यस्यानुत्पत्तेरेकदेशस्यन प्रमाणता सामग्रीसद्भावे त्ववश्यन्तया विशिष्टप्रसितिस्वरूपोत्पत्तेः एकदेशापेक्षया तस्या एव सन्निपत्यजनकत्वेन साधकतमता ।न चात्र किमपेक्षया तस्याः साधकतमत्वं अन्यस्मिन्नसाधकतमे साधके साधकतरे वा सति तदपेक्षया तस्याः साधकतमत्वमुपपन्नमिति प्रेरणीयम् यतो न सामग्र्यन्तर्गतानामेकदेशानां २०जनकत्वव्याघातः तेषामेव धर्ममात्रत्वात् सामग्र्यस्येति जनकैकदेशापेक्षया तत्सामग्र्यस्य साधकतमत्वात् प्रमाणत्वमुपपन्नमेव । एतेन यत् परैः प्रेरितम्-"किल सामग्री करणं तच्च कर्तृकर्मापेक्षम् सामग्रीजनकत्वेनं तयोर्व्यापृतेरर्थान्तरभूतयोरभावात् किमपेक्ष्य साधकतमत्वमासादयेत्” [ ] इति, तदपि निरस्तम्; यतः कर्तृ-कर्मणोः सामग्रीजनकत्वेन स्थितयोः कथमसत्त्वम् ? तत्सद्भावे च तदपेक्षा कथं न तस्याः करणता ? अथापि स्यात् तस्यास्तजन्यत्वे करणत्वव्याघातः अन्यतः सिद्धस्य २५करणत्वसद्भावात्, असदेतत्; यतो दृश्यत एव प्रदीपादेस्तजन्यस्यापि करणत्वसद्भाव इति न
कश्चिद् व्याघातस्तजन्यत्व-करणत्वयोः । ततोऽव्यभिचारादिविशेषणार्थोपलब्धिजनिका सामग्री बोधाबोधस्वभावा तदेकदेशभूतकारकजन्या प्रमाणम् । वैशेषिका अप्येतदेव प्रमाणसामान्यलक्षणं प्रतिपादयन्ति । एतत्कार्यभूता वा यथोक्तविशेषणविशिष्टोपलब्धिः प्रमाणस्य सामान्यलक्षणम् तैया स्वकारणस्य प्रमाणाभासेभ्यो व्यवच्छिद्यमानत्वात् इन्द्रियजत्वादिविशेषणविशेषिता सैवोपलब्धिः ३०प्रमाणस्य विशेषलक्षणमिति स्थितं सामग्नी प्रमाणमिति ।
सोऽतिशयः । ४ संयोगवञ्चरमभाविता वा यथा वा संयोगः पश्चाद्भावी द्रव्यशक्तिर्भवति तथा प्रमाणं चरमभावि प्रमातृ-प्रमेययोः प्रमाशक्तिर्भवति पश्चाद्भावोऽतिशयः । ५ प्रतिपत्तेरानन्तर्य वा यद्वा प्रमाणानन्तरं प्रतिपत्तेर्जन्म स चायमतिशय इति । ६ असाधारणकारणता वा प्रमाता साधारणं कारणं सर्वप्रतिपत्तीनाम् प्रमेयमपि अशेषपुरुषसाधारणलात् तथाभूतम् प्रमाण खसाधारणकारणलात् प्रधानम् प्राधान्याच साधकतमलेनाभिधीयत इति । ७ प्रमाकारणसंयोगविशेषकलं वा यो वा प्रमाकारणं संयोगस्तस्य प्रमाणमनुग्रहे वर्तमानमतिशयशब्दवाच्यम्"-न्यायवा० १-१-१ पृ. ६ पं० २३-पृ० ७ पं० १३ । साधकतमत्वगोचरा एते सप्ताऽपि पक्षा अधिक विशदीकृता वाचस्पति मिश्रेण-न्यायवा० ता० टी० पृ. २४ पं० १५पृ. २६ पं० १२।
१-मत्र्यैक-बृ० । २ "प्रमेयस्य"-वृ. ल. टि०। ३-धाने का-आ० हा० वि०। ४ “परः प्रतिविधत्ते"-बृ. ल. टि०। ५-भावे नाभि-हा० वि०। ६ "प्रमातृ-प्रगेययोः"-बृ. ल.टि.। -धुच्यते आ० हा० वि०। ८-पत्तिमदिति बु. ल. वा. बा०। ९-मग्रीकार-आ०। १०-न च त-वृ० ल. भां० मां. हा०। ११ “कर्तृ"-बृ० ल. टि.। १२ “सामग्री"-ल. टि.। १३-स्य विशेषल-आ० हा० वि० । १४ तयोरेककारण-आ०।