________________
ज्ञानमीमांसा।
४७१ मुपलब्ध इति कथमसावध्यवसीयते? न हि क्षणमात्रभाविनां सन्तानिनां दर्शनविषयत्वे तत्पृष्ठभाविनाऽध्यवसायेन तददृष्टस्यैव विषयीकरणम् न चान्यथाभूतैवस्तुग्रहणेऽन्यथाभूताध्यवसायिनः प्रदर्शितार्थप्रापकत्वं प्रामाण्यं युक्तम् तथाभ्युपगमे शुक्तिकायां रजताध्यवसायिनोऽपि तत् स्यात् । अथात्र प्रवृत्तेन रजतं न प्राप्यत इति न प्रदर्शितार्थप्रापकत्वं तर्हि सन्तानेऽध्यवसिते क्षणः प्राप्यत इति प्रकृतेऽपि न प्रदर्शितार्थप्रापकत्वम् । अथात्र सन्तान एव प्राप्यते तर्हि स एव वस्तुसन् भवेदिति ५ न सामान्यधर्माः स्वरूपेणासन्तोऽभ्युपगन्तव्याः अक्षणिकस्य च वस्तुनः सिद्धेः । यदुक्तं भवद्भिः"दर्शनेन क्षणिकाक्षणिकत्वसाधारणस्यार्थस्य विषयीकरणात् कुतश्चिद्' भ्रमनिमित्तादक्षणिकत्वारोपेऽपि न दर्शनमक्षणिकत्वे प्रमाणम् किन्तु प्रत्युताप्रमाणम् विपरीतावसायाक्रान्तत्वात् क्षणिकत्वेऽपि न तत् प्रमाणं अनुरूपाध्यवसायाऽजननात् नीलरूपे तु तथाविधनिश्चयकरणात् प्रमाणम्"
] इति, तद विरुध्यते । किञ्च, एवंवादिन एकस्यैव दर्शनस्य क्षणिकत्वाक्षणिकत्व-१० योरप्रामाण्यम् नीलादौ तु प्रामाण्यं प्रसक्तमित्यनेकान्तवादाभ्युपगमो बलादापतति । न च क्षणग्रहणे तद्विपरीतसन्तानावसायोत्पत्तौ दर्शनस्य प्रामाण्यं युक्तं मरीचिकाखलक्षणग्रहणे जलाध्यवसायिन इव, यतो 'यदेव मया तत्त्वतो दृष्टं तदेव प्राप्तम्' इत्यध्यवसाये तस्य प्रामाण्यं व्यवस्थाप्यते । न च दृष्टस्य क्षणिकसन्तानिखरूपेण सन्तानस्य प्राप्तिरिति प्राक् प्रतिपादितम् स्वरूपेण तु ताऽसत्वात् प्रात्यविषयतैवेति न धर्मोत्तरमतपर्यालोचनया किञ्चित् परमार्थतः प्रदर्शितार्थप्रापकं प्रमाणं संभवति १५ अतः संवादकत्वमपि तन्मतेन प्रमाणलक्षणमयुक्तम् ।
[ नैयायिक-वैशेषिकसंमतस्य सामग्रीप्रामाण्यवादस्य पूर्वपक्षतयोपन्यासः ] नैयायिकास्तु "अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री प्रमाणम्” [ ] इति प्रमाणसामान्यलक्षणं प्रतिपन्नाः तजनकत्वं च प्रामाण्यमिति च । अथ सामग्र्याः प्रमाणत्वे साधकतमत्वमनुपपन्नम् सामग्री ह्यनेककारकस्वभावा तत्र चानेककारकसमुदाये कस्य स्वरूपेणाति-२० शयो वक्तुं शक्येत? तथाहि-सर्वस्मात् कारणकलापात् कार्यमुपजायमानमुपलभ्यते तदन्यतमापायेऽप्यनुपजायमानं कस्य कार्योत्पादने साधकतमत्वमावेदयतु ? न च समस्तसामग्र्याः साधकतमत्वम् अपरस्यासाधकतमस्याभावे तदपेक्षया साधकतमत्वस्यानुपपत्तेः असाधकतममपेक्ष्य साधकतमत्वव्यवस्थितेः न च अनेककारकजन्यत्वेऽपि कार्यस्य "विवक्षातः कारकाणि भवन्ति" [ इति न्यायात् साधकतमत्वं विवक्षात इति वक्तव्यम् पुरुषेच्छानिवन्धनत्वेन वस्तुव्यवस्थितेरयोगात् ।२५ अथ कर्म-कर्तृविलक्षणस्याव्यभिचारादिविशेषणविशिष्टोपलब्धिजनकस्य प्रमाणत्वान्न यथोक्तदोषानुषङ्गः, असदेतत्; अनेकसन्निधानात् कार्यस्य स्वरूपलामे एकस्य तदुत्पत्तौ चैलक्षण्याभावे साधकतमत्वानुपपत्तेः। तन्न कर्म-कर्तृवैलक्षण्यमपि साधकतमत्वम् । अत्र चानेकपक्षानुद्भाव्य उद्द्योतकराऽध्ययनप्रभृतिभिः साधकतमत्वं निरस्तम् ते च पक्षा ग्रन्थगौरवभयान्नेह प्रदर्श्यन्ते । सन्निपत्यजनकत्वे
१-यत्वेन त-आ०। २-तस्य व-वा. बा० । ३-वृत्ते र-वा. बा०। ४ क्षणिकाक्षणि-बृ. । ५ पृ. ४७० ५० ५। ६ “सन्तानस्य"-. ल. टि.। ७ "अव्यभिचारिणीमसंदिग्धामर्थोपलब्धि विदधती बोधाबोधखभावा सामग्री प्रमाणम्"-इत्यादिना सामग्रीप्रमाणवादसमर्थनं दृश्यते न्यायमज० आ० १पृ० १२५० २२पृ० १५ पं० २२ । इदं सामग्रीप्रमाणवादिकणाद-नैयायिकमतम् तदुपपादनम् सिद्धान्तिकृतं तत्प्रतिविधानं च सर्व प्रमेयकमलमार्तण्डे वर्तते पृ० ३ द्वि०पं०१। न्यायकुमुद वन्द्रोदये तु तदेव सर्वमतिस्फुटतया विपश्चितम् लि. पृ० १४ प्र. पं० ३-पृ० १७ द्वि. पं. ४ । स्थाद्वादरत्नाकरेऽपि न्यायकुमुदचन्द्रोदयगतां सरणीमाश्रित्यैव पुनस्तदेव सविशेषतया स्पष्टीकृतं दृश्यते, तत्र च सामग्रीप्रमाणवादप्रदर्शनपरा भाजयन्तकर्तृकपल्लवगताः सप्त श्लोका अपि समुद्धृताः सन्तिपृ. ३० द्वि. पं०१। ८"विशिष्टार्थोपलब्धि-" बृ० ल.टि.। ९ शक्यते वा० बा । १० हैम बृ० वृ०७४-१२२ । ११ प्रमाणस्य प्रमातृ-प्रमेयाभ्यां साधकतमलेन वैलक्षण्यं दर्शयितुकामेन उद्द्योतकरेण साधकतमत्वार्थः सप्तधा दर्शितः । तथाहि-"कः खलु साधकतमार्थः साधकतमं प्रमाणमिति केवलं वाक्यमभिधीयते नार्थ इति । १ भावाभावयोस्तद्वत्ता न प्रमातरि प्रमेये वाऽसति प्रमा भवति सति तु भवति न पुनः सति भवत्येव प्रमाणे तु सति भवन्ती भवत्येव सोऽयमतिशयः साधकतमलमुच्यते । २ यद्वान् वा प्रमिमीते सोऽतिशयः किंवान् प्रमिमीते ? प्रमाणवान् प्रमिमीते प्रमाणे सति प्रमिमीते नासतीति । ३ सतोर्वाऽकर्तृवं यदभावात् यस्य चाभावात् प्रमातृ-प्रमेये न प्रमां कुरुतः