________________
द्वितीये काण्डेतथाहि-तृतीयं वस्तु नेटसाधनम् उपेक्षणीयत्वात् यच्च तत्साधनं न भवति तस्यानिष्टसाधनराशावन्तर्भावः एतच्चायुक्तम् । खसंविदितवस्त्वपह्नवस्य युक्तिशतेनापि कर्तुमशक्यत्वात् । तथाहि-यथा तद वस्तु इष्टसाधनं न भवति तथाऽनिष्टसाधनमपि न भवति इष्टानिष्टसाधनयोर्यत्नोपादेयत्वहेयत्वदर्शनात् उपेक्षणीयस्य चायनसाध्योपादानत्यागविषयत्वात् कथमिष्टानिष्टसाधनयोरन्तर्भावः? ५ तन्न प्रदर्शकत्वमेव प्रापकत्वम् । न च बौद्धाभ्युपगमेन प्रदर्शितार्थप्रापकत्वं क्वचिदपि ज्ञाने संभवति । तद्धि सन्तानाश्रयेण सौगतैः परिकल्प्यते । न च सन्तानः संभवति-स हि स्वरूपेण वा वस्तुसन् भवेत् सन्तानिरूपेण वा? न तावत् स्वरूपेण सन्तानिव्यतिरेकेण तस्य वस्तुसतोऽनभ्युपगमात् अभ्युपगमे वा क्षणिकवादहानिप्रसक्तिः सामान्यानभ्युपगमश्च निर्निबन्धनो भवेत् इति न तस्य स्वरूपेण प्रवृत्त्यादिविषयता । सन्तानिरूपेणापि तस्य सत्त्वे सन्तानिन एव तथाभूता न तद्व्यतिरिक्तः १० सन्तानः प्रवृत्त्यादिविपयः सन्तानिनां चोत्पत्त्यनन्तरध्वंसित्वात् न तद्विषयस्य विज्ञानस्य प्रदर्शितार्थप्रापकत्वम् दृश्य-प्राप्ययोः क्षणयोरत्यन्तभेदात् यत्र हि देश-कालाऽऽकारभेदाभेदेन प्रतीयमानस्यापि वस्तुनो भेदोऽभ्युपगम्यते तत्र स्वरूपेण भिन्नयोः पूर्वोत्तरक्षणयोः कथमभेदः येन प्रदर्शितार्थप्रापकत्वं साधननिर्भासिज्ञानस्य युक्तिसंगतं भवेत् ? अथ संवृत्या सन्तानस्य स्वरूपसिद्धेः पूर्वोक्तम
दूषणम् । तथा च प्रतिपादितम्-"सांव्यवहारिकस्य च प्रमाणस्यैतल्लक्षणम्" [ ] नन्वेवं लोक१५व्यवहारानुरोधेन यदि प्रदर्शितार्थप्रापकत्वं प्रमाणस्याभ्युपगम्यते तदा नित्यानित्यवस्तुप्रदर्शकस्य तद्
अभ्युपगम्यताम् लोकव्यवहारस्य तत्रैवोपपत्तेः। न च तथाभूततद्राहकस्य युक्तिबाधितत्वानिर्विषयत्वम् सन्तानविषयस्यैव पूर्वोक्तन्यायेन युक्तिवाधितत्वोपपत्तेः । तन्नाध्यवसितार्थप्रापकं प्रत्यक्षं पराभ्युपगमेन संभवति । तथाहि-यदेवाध्यक्षेणोपलब्धं नदेव तेनाध्यवसितम् न च सन्तानस्तेन पूर्व
यदेतत् तृण-पर्णादि चकास्ति पथि गच्छतः । न धीरछत्रादिवत् तत्र न च काकोदरादिवत्" ॥
-न्यायमज० आ० १ पृ. २४ पं० २५-पृ० २५५० १२।। "प्रमितिर्गुण-दोष-माध्यस्थ्यदर्शनम् । गुणदर्शनमुपादेयत्वज्ञानम् , दोषदर्शनं हेयखज्ञानम् , माध्यस्थ्यदर्शनं न हेयं नोपादेयमिति ज्ञानं प्रमितिः"-[प्रशस्त० के० पृ० १९९५० १८-१९] इत्येषा श्रीधरीयकन्दल्यपि उपेक्षणीयं भावं व्यक्ततया समर्थयते।
"पुरुषस्यार्थः अर्थ्यत इत्यर्थः काम्यत इति यावत् । हेयोऽर्थः उपादेयो वा । हेयो ह्यर्थो हातुमिष्यते उपादेयोऽप्युपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति उपेक्षणीयो ह्यनुपादेयवाद् हेय एव"-ध० न्या० टी०१-१,पृ. ४५०२१॥
ननु च हेयोपादेयाभ्यामन्योऽप्युपेक्षणीय अस्ति(योऽस्ति) तस्य किमिति न कथनम् ? इत्याह-नच हेयेत्यादि। x x x किन्तु तस्यानुपादेयत्वाद् हेयत्वमेवेति न पृथक्कथनम् । तेन यदुक्तं कैश्चिद् हेयोपादेययोः पुरुषार्थोपयोगिलात् कथनम् उपेक्षणीयस्य तद्विपर्ययान्न कथनमिति तत् प्रत्युक्तम्"-ध० न्या० टी० टि. पृ० १३ पं०७॥
"हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं ततो ज्ञानमेव तत्"-१-२ । “अर्थ्यतेऽभिलष्यते प्रयोजनार्थिभिरित्यर्थों हेय उपादेयश्च । उपेक्षणीयस्यापि परित्यजनीयवाद् हेयत्वम् उपादानक्रियां प्रति अकर्मभावात् नोपादेयखम् हानक्रियां प्रति विपर्ययात् तत्त्वम् । तथा च लोको वदति-अहमनेन उपेक्षणीयलेन परित्यक्त इति"-प्रमेयक. पृ. २ प्र. पं०४॥ "अभिमताऽनभिमतवस्तुखीकारतिरस्कारक्षम हि प्रमाणम् अतो ज्ञानमेवेदम्"-१-२ । “अभिमताऽनभिमतयोरुपलक्षणवाद् अभिमताऽनभिमतोभयाभावखभाव उपेक्षणीयोऽप्यत्रार्थो लक्षयितव्यः । रागगोचरः खल्वभिमतः द्वेषविषयोऽनभिमतः रागद्वेषद्वितयानालम्बनं तृणादिरुपेक्षणीयः तस्य चोपेक्षक प्रमाणं तदुपेक्षायां समर्थमित्यर्थः"-स्याद्वादर. पृ० २१ द्वि०५०१।
"अर्यते अर्थ्यते वा अर्थो हेयोपादेयोपेक्षणीयलक्षणः हेयस्य हातुम् उपादेयस्योपादातुम् उपेक्षणीयस्योपेक्षितुमर्थ्यमानत्वात् । न च अनुपादेयत्वाद् उपेक्षणीयो हेय एवान्तर्भवति अहेयवाद् उपादेय एव अन्तर्भावप्रसक्तेः । उपेक्षणीय एव च मूर्धाभिषिक्तोऽर्थों योगिभिस्तस्यैव अर्यमाणखात् अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेव उपेक्षणीयोऽर्थः । तनायमुपेक्षितुं क्षमः"-प्रमाणमी० १-१-२ पृ० ५५० ११ ।
१ "न हेतु-फलभावादिरन्यभावादनन्वयात् । संतानान्तरवन्नैकः संतानस्तद्वतः पृथक् ॥-आप्तमी. ३ श्लो. ४३ ॥ अष्टस• पृ० १९१५० ५। २"अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् ? । मुख्यार्थः संवृतिर्नास्ति विना मुख्यान संवृतिः"॥
-आप्तमी. ३ श्लो.४४ । अष्टस० पृ. १९२ पं० २।