________________
ज्ञानमीमांसा।
४६९
प्रासंभवादित्युक्तत्वात् । न चान्यस्य ज्ञानान्तरस्य प्राप्तौ सन्निकृष्टत्वात् तदेव प्रापकमित्याशङ्कनीयम् यतो यद्यप्यनेकस्मात् ज्ञानक्षणात् प्रवृत्तावर्थप्राप्तिस्तथापि पर्यालोच्यमानमर्थप्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वं नान्यत् तच्च प्रथमज्ञानक्षण एव संपन्न मिति नोत्तरोत्तरज्ञानक्षणानां तदुपयोगि प्राप्यमाणं च वस्तु नियतदेश-कालाऽऽकारं प्राप्यत इति तथाभूतवस्तुप्रदर्शकयोस्तयोरेव प्रामाण्यम् न ज्ञानान्तरस्य तेन प्रदर्शितप्रापकत्वलक्षणे प्रामाण्ये पीतशङ्खादिनाहिज्ञानानामपि प्रापकत्वात् प्रामाण्यप्रस-५ क्तिर्न भवति न हि तानि प्रदर्शितमर्थ प्रापयन्ति यद्देश-कालाऽऽकारं वस्तु तैः प्रदर्शितम् न तत् तथा प्राप्यते यच्च यथा प्राप्यते न तैस्तत् तथा प्रदर्शितम् देशादिभेदेन वस्तुभेदस्य निश्चितत्वान्न तेषां प्रदर्शितार्थप्रापकता । एवमपि प्रदर्शितार्थप्रापकत्वे जलादिप्रदर्शकस्य मरीच्यादिवस्त्वन्तरप्राप्तौ प्रदर्शितप्रापकत्वेन प्रामाण्यप्रसक्तिरिति न किञ्चिदप्रमाणं भवेत् । प्रमाणद्वयव्यतिरिक्तं च ज्ञानं न नियतप्रदर्शितार्थप्रापकम् । तेन हि भावाभावसाधारणोऽनियतोऽर्थः प्रदर्शितः स च तथाभूतोऽस-१० स्वान्न प्राप्तुं शक्य इति न तत् प्रदर्शितार्थप्रापकत्वेन प्रमाणम् । अनियतार्थप्रदर्शकत्वं च शाब्दादेः साक्षात् पारम्पर्येण वा प्रतिपाद्यादर्थादनुत्पत्तेः । तत् स्थितं प्रापणशक्तिखभावमविसंवादकत्वं प्रामाण्यं द्वयोरेव । प्रापणशक्तिश्च प्रमाणस्यार्थाविनाभावनिमित्ता दर्शनपृष्ठभाविना विकल्पेन निश्चीयते । तथाहि-दर्शनं यतोऽर्थादुत्पन्नं तद्दर्शकमात्मानं स्वानुरूपावसायोत्पादनात् निश्चिन्वदर्थाविनाभावित्वं प्रापणशक्तिनिमित्तं प्रामाण्यं स्वतो निश्चिनोतीत्युच्यते न पुनर्ज्ञानान्तरं तन्निश्चायकमपेक्ष-१५ तेऽर्थानुभूताविव ततोऽविसंवादकत्वमेव प्रमाणलक्षणं युक्तम् ।
एतदप्ययुक्तम्, यतो नार्थप्रदर्शकत्वमेव प्रापकत्वम् पुरुषेच्छाधीनप्रवृत्तिनिमित्तत्वात् सति वस्तुन्यर्थप्राप्तः। एतच्च प्राक् प्रतिपादितम् । उपेक्षणीये च विषये पुरुषस्य तद्विषयार्थित्वाद्यभावे प्राप्ति-परित्यागयोरभावेऽपि तत्प्रदर्शकत्वलक्षणस्य प्रामाण्यस्य न कश्चिद् व्याघात उपलभ्यते । अथ इष्टाऽनिष्टसाधनार्थव्यतिरेकेणोपेक्षणीयस्यार्थान्तरस्याभावान्न तत्प्रदर्शक किश्चिज् ज्ञानं समस्तीति २० कथं प्रापकत्वाभावेऽपि प्रदर्शकत्वस्य संभवेन दोषांपादनं क्रियते? तथा च तृतीयविषयाभावमवगत्यैवोक्तम्-"अर्थानर्थविवेचनस्यानुमानायत्तत्वात्" [
] तथा, “हिताहितप्राप्ति-परिहारयोः”[
] इति च । तृतीयविषयाभावश्च सर्वस्य वस्तुनो राशियेन्तर्भावात् ।
१-पयोगी प्राप्य-वा० बा । "तच प्रथमत एव ज्ञानक्षणे संपन्न मिति नोत्तरोत्तरज्ञानानां तदुपयोगि तद्विशेषांशप्रदर्शकत्वेन तु तत् तेषामुपपन्नमेव" । तद् “प्रदर्शकलम्" । उपयोगि “फलवत्" । तद्-"अर्थ"-1 अंश-“भेद-"। प्रमेयक. पृ. ८ प्र. पं. ५, टि. १२-१३-१४-१५। २-यतार्थः बृ.। ३ न च त-वा. बा० । ४ पृ. ४६७ पं० १३। ५-पादानं वा० बा०। ६ दार्शनिकग्रन्थेषु तावदर्थविभागक्रम इत्थं दृश्यते
यद्यपि न्यायसूत्रभाष्यकारवार्तिककाराभ्यामुपेक्षणीयार्थस्य पार्थक्येन कृतं समर्थनं न दृष्टं तथापि अवयवसूत्रे हानोपादानोपेक्षाबुद्धित्रयवर्णनेन तयोस्तदर्थस्य पार्थक्ये तात्पर्य प्रतिभाति यतो वाचस्पतिमिश्रेण उपेक्षणीयार्थस्य हेयोपादेयपार्थक्येन समर्थनं कृखा तत्तात्पर्य स्पष्टीकृतम्
अप्रतीयमानमर्थ कस्माजिज्ञासते ? तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति । ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थस्तदर्थमयं जिज्ञासते” १-१-३२ वात्स्या० भा०।।
"पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्य अप्रामाण्यप्रसङ्गः । न चातिदवीयस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम् तस्योपेक्षणीयविषयखात् । न चोपेक्षणीयमपि अनुपादेयत्वाद् हेयमिति निवेदयिष्यते" न्यायवा० ता० टी० १-१-१ पृ. २१५० १६ । तनिवेदनस्थानं च १-१-३ पृ० १०३ पं० २२-पृ० १०४ पं०३ ।
____ “ननु कोऽयमुपेक्षणीयो नाम विषयः? स हि उपेक्षणीयबादेव नोपादीयते चेत् स तर्हि हेय एव अनुपादेयत्वादिति, नेतद् युक्तम् , उपेक्षणीयविषयस्य स्वसंवेद्यखेन अप्रत्याख्येयत्वात् ।
हेयोपादेययोरस्ति दुःख-प्रीतिनिमित्तता । यत्नेन हानोपादाने भवततत्र देहिनाम् ॥ यत्नसाध्यद्वयाभावादुभयस्यापि साधनात् । ताभ्यां विसदृशं वस्तु खसंविदितमस्ति नः ॥
उपादेये च विषये दृष्टे रागः प्रवर्तते । इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ ॥ यत्तु अनुपादेयत्वाद् हेय एवेति, तदप्रयोजकम् , न ह्येवं भवति, यदेतद् नपुंसकम् स पुमान् अस्त्रीत्वात् स्त्री वा नपुंसकम् अपुंस्त्वादिति, स्त्रीपुंसाभ्यामन्यदेव नपुंसकम् तथोपलभ्यमानत्वात् । एवमुपेक्षणीयोऽपि विषयो हेयोपादेयाभ्यामर्थान्तरम् तथोपलम्भादिति ।