________________
४६८
द्वितीये काण्डेपादकत्वं च प्राप्तिनिमित्तप्रवृत्तिहेतुभूतार्थक्रियाप्रसाधकार्थप्रदर्शकत्वम् यतोऽर्थक्रियार्थी पुरुषस्तन्निघर्तनक्षममर्थमवाप्नुकामः प्रमाणमप्रमाणं वा अन्वेषते यदेव चार्थक्रियानिवर्तकवस्तुप्रदर्शकं तदेव तेनान्विष्यते प्रत्यक्षानुमाने एव च तथाभूतार्थप्रदर्शके न ज्ञानान्तरमिति ते एव च लक्षणार्हे तयोश्च द्वयोरप्यविसंवादकत्वमस्ति लक्षणम् प्रत्यक्षेण ह्यर्थक्रियासाधनं दृष्टतयाऽवगतं प्रदर्शितं भवति अनु५मानेन तु दृष्टलिङ्गाव्यभिचारितयाऽध्यवसितम् इत्यनयोः प्रदर्शकत्वमेव प्रापकत्वम् न ह्याभ्यां प्रदर्शितेऽर्थे प्रवृत्तौ न प्राप्तिरिति नान्यत् प्रदर्शकत्वव्यतिरेकेण प्रापकत्वम् तच्च शक्तिरूपम् । उक्तं च"प्रापणशक्तिः प्रामाण्यम् तदेव च प्रापकत्वम् अन्यथा ज्ञानान्तरस्वभावत्वेन व्यवस्थितायाः प्राप्तेः कथं प्रवर्तकज्ञानशक्तिस्वभावता? तत्र यद्यपि प्रत्यक्षं वस्तुक्षणग्राहि तबाहकत्वं च तस्य प्रदर्शकत्वं तथापि क्षणिकत्वेन तस्याप्राप्तेः तत्सन्तान एव प्राप्यत इति सन्तानाध्यवसायोऽध्यक्षस्य प्रदर्शकव्या१०पारो द्रष्टव्यः अनुमानस्य तु वस्त्वग्राहकत्वात् तत्प्रापकत्वं यद्यपि न संभवति तथापि खाकारस्य बाह्यवस्त्वध्यवसायेन पुरुषप्रवृत्तौ निमित्तभावोऽस्तीति तस्य तत्प्रापकमुच्यते"।[ एतदुक्तं भवति-प्रत्यक्षस्य हि क्षणो ग्राह्यः स च निवृत्तत्वान्न प्राप्तिविषयः सन्तानस्त्वध्यवसेयः प्रवृत्तिपूर्विकायाःप्राप्तेविषय इति तद्विषयं प्रदर्शितार्थप्रापकत्वमध्यक्षस्य प्रामाण्यम् अनुमानेन त्वारोपितं वस्तु गृहीतम् स्वाकारो वा तयोर्द्धयोरप्यवस्तुत्वान्न प्रवृत्तिविषयतेति न तद्विषयं तस्य प्रापक१५ त्वम् अपि त्वारोपित-बाह्ययोरभेदाध्यवसायेन वस्तुन्येव प्रवर्तकत्व-प्रापकत्वे अस्य द्रष्टव्ये । तेनानु
मानस्य ग्राह्योऽनर्थः प्राप्यस्तु बाह्यः स्वाकाराऽभेदेनाध्यवसित इति तद्विषयमस्यापि प्रदर्शितार्थप्रापकत्वं प्रामाण्यम् । उक्तं च-"ततोऽपि विकल्पात् तदध्यवसायेन वस्तुन्येव |वृत्तेः प्रवृत्तौ च प्रत्यक्षेणाभिन्नयोगक्षेमत्वात्" [
] तथाऽपरमप्युक्तम्-"न ह्याभ्यामर्थ परिच्छिद्य प्रवर्त्तमानोऽर्थक्रियायां विसंवाद्यते" [
इति । अत्र च प्रत्यक्षानुमानयोर्द्धयोरपि परिच्छेदः २० सन्तानविषयोऽध्यवसायो द्रष्टव्यः तथा, प्रामाण्यं वस्तुविषयं द्वयोरिति च । उक्तमत्रापि-"सन्तानविषयत्वेन वस्तुविषयत्वं द्रुयोरुक्तम्" [
] लौकिकं चैतदविसंवादकत्वं प्रामाण्यम् यतो लोके प्रतिज्ञातमर्थ प्रापयन् पुरुषः संवादकः प्रमाणमुच्यते तद्वदत्रापि द्रष्टव्यम् । न च क्षणिकस्य ज्ञानस्यार्थप्राप्तिकालं यावदनवस्थितेः कथं प्रापकतेत्याशङ्कनीयम् प्रदर्शकत्वव्यतिरेकेण तस्यास्त
तथा च प्रत्यक्ष प्रतिभासमानं नियतमर्थ दर्शयति अनुमानं च लिङ्गसंबद्धं नियतमर्थ दर्शयति अत एते नियतस्यार्थस्य प्रदर्शके तेन ते प्रमाणे नान्यद् विज्ञानम् । प्राप्तुं शक्यमर्थमादर्शयत् प्रापकम् प्रापकलाच प्रमाणम् आभ्यां प्रमाणाभ्यामन्येन ज्ञानेन प्रदर्शितोऽर्थः कश्चिद् अत्यन्तविपर्यस्तः यथा मरीचिकासु जलम् स च असत्त्वात् प्राप्तुमशक्यः कश्चिदनियतो भावाभावयोः यथा संशयार्थः । न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्ति ततः प्राप्तुमशक्यस्तादृशः । सर्वेण चालिङ्गजेन विकल्पेन नियाभकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत एवार्थो दर्शयितव्यः स च प्राप्तुमशक्यः तस्माद् अशक्यप्रापणमत्यन्तविपरीतं भावाभावानियतं चार्थ दर्शयदप्रमाणमन्यद् ज्ञानम् । अर्थक्रियार्थिभिश्च अर्थक्रियासमर्थप्राप्तिनिमित्तं ज्ञानं मृग्यते । यच्च तैर्मृग्यते तदेव शास्त्रे विचार्यते ततोऽर्थक्रियासमर्थवस्तुप्रदर्शकं सम्यग्ज्ञानम् यच्च तेन प्रदर्शितं तदेव प्रापणीयम् अर्थाधिगमात्मकं हि प्रापकमित्युक्तम् । तत्र प्रदर्शिताद् अन्यद् वस्तु भिन्नाकारं भिन्नदेशं भिन्नकालं च । विरुद्धधर्मसंसर्गाद्धि अन्यद् वस्तु देश-कालाऽऽकारभेदश्च विरुद्धधर्मसंसर्गः तस्माद् अन्याकारवद्वस्तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणम् यथा पीतशङ्खग्राहि शुक्ले शङ्ख, देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् यथा कुञ्चिकाविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकदेशस्थे मणौ, कालान्तरयुक्तग्राहि च न कालान्तरवति वस्तुनि प्रमाणम् यथा अर्धरात्रे मध्याह्नकालवस्तुग्राहि खप्नज्ञानं नार्धरात्रकाले वस्तुनि प्रमाणम् ।
ननु देशनियतमाकारनियतं च प्रापयितुं शक्यम् यत्कालं तु परिच्छिन्नं तत्कालं न शक्यं प्रापयितुम् नोच्यते यस्मिमेव काले परिच्छिद्यते तस्मिन्नेव काले प्रापयितव्यमिति अन्यो हि दर्शनकालः अन्यश्च प्राप्तिकालः किन्तु यत्कालं परिच्छिन्नं तदेव प्रापणीयम् अभेदाध्यवसायाच संतानगतमेकवं द्रष्टव्यमिति"-१-१ पृ. ३ पं० ५-पृ. ४ पं० ११ षड्द. स. बृ० वृ० पृ. ३२ पं० १५-पृ. ३३ ।
१ "अर्थक्रिया-" बृ० ल० टि०। २-ग्राहि ग्राह-बृ०। ३-कत्वे च आ० हा० वि०। ४ "क्षणस्य"बृ. ल. टि.। ५-थापि साका-आ. हा. वि. । ६ "वस्तुविषयमभेदाध्यवसायेन"-बृ० ल. टि.। ७ प्रवर्तते प्रवृ- वा० बा०। ८ "विकल्पस्य"-बृ० टि.। ९द्वयोरित्युक्तम् बृ. विना।