________________
ज्ञानमीमांसा ।
४६७ णस्यानुपालम्भविषयत्वेऽपि पुरुषस्य प्रेक्षापूर्वकारिणोऽधिगतविषयमपि प्रमाणं पर्येषमाणस्योपालम्भविषयता-स हि पूर्वाधिगते वस्तुनि प्रेक्षापूर्वकारी किमित्यधिगमाय प्रमाणान्तरमन्वेपते निष्पन्नप्रयोजनापेक्षया हेतुं व्यापारयतःप्रेक्षापूर्वकारिताहानिप्रसक्तेः, नैतदेवम् ; यतःप्रीत्यतिशयादेः प्रयोजनस्यानिष्पन्नस्य भावात् तन्निष्पत्त्यर्थमुपायान्वेषणं न प्रेक्षापूर्वकारितां तस्योपहन्तुं समर्थम् । तथाहि-सुखसाधने विषये पुनः पुनःप्रमांजनयतःप्रीत्यतिशयजनकत्वेन सप्रयोजनत्वात् प्रमाणान्वेषणस्य न तदन पुरुषस्योपालम्भार्हता । न च निश्चिते विषये न किञ्चिन्निश्चयान्तरेण प्रयोजनम्-यतस्तदर्थं प्रमाणान्वेषणं न वैयर्थ्यमनुभवेत्-यतो भूयो भूय उपलभ्यमाने दृढतरा प्रतिपत्तिर्भवतीति सुखसाधनं तथैव निश्चित्योपादत्ते दुःखसाधनं च तथात्वेन सुनिश्चित्य परित्यजेत् अन्यथा विपर्ययेणाप्युपादान-त्यागौ भवेताम् अत एवैकविषयाणामपि शाब्दाऽनुमानाऽध्यक्षाणां प्रामाण्यमुपपन्नम् प्रतिपत्तिविशेषस्य प्रीत्यतिशयादेश्च सद्भावात् । न च प्रथमप्रत्ययेनैवार्थक्रियासमर्थवस्तुप्रदर्शने प्रवर्तितः पुरुषः१० प्रापितश्चार्थ इति तत्रापरप्रमाणान्वेषणं वैयर्थ्यमनुभवेत् , पुरुषप्रवृत्तेःप्रमाणाधीनत्वाभावात् विशिष्टप्रमाया एव प्रमाणाधीनत्वात् तां च जनयत उपेक्षणीयादौ विषये प्रमाणस्याप्रवर्तकस्यापि प्रमाणत्वेन लोके प्रसिद्धत्वात् प्रवृत्तेस्तु पुरुषेच्छानिवन्धनत्वात् तेदभावे नोक्तफलजनकस्य प्रमाणत्वव्याघातः। न च पुरुषार्थसाधनप्रदर्शकत्वमेव तस्य प्रवर्तकत्वम् तत्सद्भावेऽपि 'प्रवर्तितोऽहमनेनात्र' इति तद्हँणेच्छाभावे प्रतिपत्त्यनुपपत्तेः। न च प्रवृत्त्यभावे तस्य प्रदर्शकत्वलक्षणो निजो व्यापार एव नोपपद्यत १५ इति वक्तव्यम् प्रतीतिवाधोपपत्तेः। नहि चन्द्रार्काद्यर्थविषयमध्यक्षमप्रवर्तकत्वात् न तत्प्रदर्शकमिति लोकप्रतीतिः। तन्न अनधिगतार्थाधिगन्तृत्वमपि ज्ञातृव्यापारविशेषणमुपपत्तिमत् । अतोऽनधिगतार्थाधिगन्ता ज्ञातृव्यापारोऽर्थप्रकटताख्यफलानुमेयो जैमिनीयपरिकल्पितो न प्रमाणमिति स्थितम् ।
[धर्मोत्तरीयं प्रमाणसामान्यलक्षणं व्यावर्ण्य सिद्धान्तिना तस्य समालोच्य दूषणम् ] सौगतैस्तु 'प्रमाणमविसंवादिज्ञानम्' इति वचनात् अविसंवादकत्वं प्रमाणलक्षणमुक्तम् अविसं-२०
निरीक्ष्यमाणे परमार्थतस्तु हेये मुहुर्मोहविकारमुख्ये । विवेकसेकछुतमानसानामरोचकस्तीव्रतरोऽभ्युदेति ॥ प्रि(प्रे)यखिनी-पार्वण-शीतरोचिर्-मयूर-माणिक्यमुखे खजस्रम् ।
आदेयवस्तुन्यवलोक्यमाने सम्प्राप्यते प्रीतिरसः स कोऽपि ॥” इत्यादि-स्याद्वादर. १-२ पृ. १८ द्वि. पं०७-पृ० १९ प्र. पं. ४ ।
१-धनवि-वृ० ल. भा. मां० विना। २ “उत्तरम्"-बृ. ल. टि.। ३ सुनिश्चितं प-ल. वा. बा० भां० मां० हा०। ४-मपि शब्दा-बृ० ल० वा. बा० विना। ५ "प्रवृत्त्यभावे"-बृ० टि० । “प्रवृत्तिः"ल.टि.। ६ “प्रदर्शकता-" बृ० ल. टि.। ७-हणे भावेच्छा प्रति-वा० बा०। ८-कत्वमि-वा० बा० । "न च प्रवृत्त्यभावे प्रमाणस्यार्थप्रदर्शकत्वलक्षणव्यापाराभावो वाच्यः प्रतीतिविरोधात् । न खलु चन्द्रार्कादिविषयं प्रत्यक्षमप्रवर्तकखान्न तत्प्रदर्शकमिति लोके प्रतीतिः"-प्रमेयक० पृ. ८ प्र. पं०६ । “न च प्रवृत्तेरभावे प्रमाणस्य वस्तुप्रदर्शकखरूपो व्यापार एव न संभवतीति विभावनीयम् अनुभवविरोधात् । न खलु कुमुदबान्धवादौ प्रत्यक्षेण दृष्टेऽप्यप्रवर्तमानो लोकः तस्याप्रदर्शकखमिति प्रतिपद्यते"-स्याद्वादर० पृ० २१ द्वि० पं०६। ९ "भट्टमतं(त)प्रसिद्धतत्संवेदनरूपफलोप(पल)क्षणमेतत्"-ल. टि०। १० जैमिनीय-वा० बा।
११ एतत् सर्व धर्मोत्तरीयायां धर्मकीर्तिकृतन्यायबिन्दुवृत्तावित्थं दृश्यते-"अविसंवादकं ज्ञानं सम्यग्ज्ञानम् । लोके च पूर्वमुपदर्शितमर्थ प्रापयन् संवादक उच्यते तद्वद् ज्ञानमपि प्रदर्शितमर्थ प्रापयत् संवादकमुच्यते प्रदर्शिते चार्थे प्रवर्तकलमेव प्रापकत्वम् नान्यत् । तथाहि-न ज्ञानं जनयद् अर्थ प्रापयति अपि तु अर्थे पुरुषं प्रवर्तयत् प्रापयत्यर्थम् प्रवर्तकलमपि प्रवृत्तिविषयप्रदर्शकलमेव । न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति विज्ञानम् अत एव चार्थाधिगतिरेव प्रमाणफलम् अधिगते चार्थे प्रवर्तितः पुरुषः प्रापितश्चार्थः तथा च सति अर्थाधिगमात् समाप्तः प्रमाणव्यापारः । अत एव अनधिगतविषयं प्रमाणम् येनैव हि ज्ञानेन प्रथममधिगतोऽर्थस्तेनैव प्रवर्तितः पुरुषःप्रापितश्चार्थः तत्रैवार्थे किमन्येन ज्ञानेनाधिक कार्यम् ततोऽधिगतविषयमप्रमाणम् तत्र योऽर्थो दृष्टत्वेन ज्ञातः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः यस्माद् यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तस्य प्रदर्शकं प्रत्यक्षम् तस्माद् दृष्टतया ज्ञातः प्रत्यक्षदर्शितः । अनुमानं तु लिङ्गदर्शनानिश्चिन्वत् प्रवृत्तिविषयं दर्शयति