________________
द्वितीये काण्डे -
साकारज्ञानानुभववशादर्थव्यवस्था । प्रकाशतानुप्रविष्टता चार्थाकारस्यायुक्तैव वस्त्वन्तरानुप्रवेशासंभवात् संभवे वा प्रकाशताया अपि चैतन्यरूपतायाः पृथिव्याद्यनुप्रवेशात् परलोकाय दत्तो जलाञ्जलिर्भवेत् । यदपि 'अर्थवादिन एवायं दोषो ज्ञानवादे तु सिद्धसाध्यता' इति, तदपि न्यायबहिष्कृतम् ; प्रमाणसिद्धस्याप्यर्थस्याभावो यदि न दोषाय भवेत् ज्ञानाभावोऽपि न दोषाय स्यात् । न च शून्यताभ्यु५ पगमात् तद्भावोऽपि न दोषावह इति वक्तव्यम् तत्प्रतिपादक प्रमाणाभावान्न शून्यतेति न साकारज्ञानप्रमाणवादोऽभ्युपगमार्होऽनेकदोषदुष्टत्वादिति स्थितम् ।
[ जैमिनीयसंमतं ज्ञातृव्यापारस्य प्रमाणत्वं निराकर्तुं तद्विशेषणस्यानधिगतार्थाधिगन्तृत्वस्य व्यपोहनम् ]
जैमिनीयाभिमतस्य तु ज्ञातृव्यापारस्य फलानुमेयस्यं यथा प्रमाणता न संभवति तथा स्वतः१० प्रामाण्यं निराकुर्वद्भिः प्रदर्शितमिति न पुनः प्रतन्यते । यदपि अनधिगतार्थाधिगन्तृत्वं ज्ञातृव्यापारविशेषणत्वेन प्रतिपादितम् तदप्यसङ्गतमेवः यैतः प्रमाणं वस्तुन्यधिगतेऽनधिगते वाऽव्यभिचारादिविशिष्ट प्रमां जनयन्नोपालम्भविषयः । न चाधिगते वस्तुनि किं कुर्वत् तत् प्रमाणतामाप्नोतीति वक्तव्यम् विशिष्टप्रमां विदधतस्तस्य प्रमाणताप्रतिपादनात् । न च पूर्वोत्पन्नैव प्रमा तेन जन्यते, प्रमित्यन्तरोत्पादकत्वेन प्रमाणत्वात् । न च प्रमित्यन्तरजनकत्वेऽप्यधिगते विषये तस्याकिञ्चित्करत्वेनो१५ पालम्भविषयता, स्वहेतुसन्निधिबलादधिगतमनधिगतं वा वस्त्वधिगच्छतोऽप्रेक्षापूर्व कारितयोपालम्भविषयतानुपपत्तेः । न चैकान्ततोऽनधिगतार्थाधिगन्तृत्वे प्रामाण्यं तस्यावसातुं शक्यम् तद्ध्यर्थतथा भावित्वलक्षणं संवादादवसीयते स च तदर्थोत्तरज्ञानवृत्तिः । न चानधिगतार्थाधिगन्तुरेव प्रामाण्ये संवादप्रत्ययस्य प्रामाण्यमुपपन्नम् न चाप्रमाणेन संवादप्रत्ययेन प्राक्तनस्य प्रामाण्यं व्यवस्थापयितुं शक्यम् अतिप्रसङ्गात् अतो यथा अधिगतार्थाधिगन्तुरर्थक्रियानिर्भासिज्ञानस्य प्रामाण्यम् तथा २० साधननिर्भासिनोप्यभ्युपगन्तव्यम् । न च सामान्य- विशेषतादात्म्यवादिन एकान्ततोऽनधिगतार्थाधिगन्तृत्वं प्रमाणस्य संभवति इदानीन्तनास्तित्वस्य पूर्वास्तित्वाभेदात् तस्य च पूर्वमप्यधिगतत्वसंभवत् कथञ्चिदनधिगतार्थाधिगन्तृत्वाभ्युपगमे अस्मन्मतानुप्रवेशप्रसक्तिः । अर्थं अप्रेक्षापूर्वकारितया प्रमा
४६६
१ पृ० ४६३ ० १८ । २ " अर्था परोक्षतातत्संवेदनरूप "स्य - बृ० ल० टि० । ३ पृ० २० पं० १ । ४ पृ० ४५८ पं० ७ । ५ अनधिगतार्थाधिगन्तृत्वविशेषणस्य निरसनमिदं प्रायोऽक्षरशः परीक्षामुखीय १ - ४ सूत्रव्याख्यायां वर्तते - प्रमेयक० पृ० १६ द्वि० पं० ३ । एतदेवांशतः “यदपि प्रमाणविशेषणमनधिगतार्थग्रा हि त्वमभिधीयते परैः तदपि न साम्प्रतम्" इत्यादिना शब्दान्तरेण न्यायमञ्जर्यं दृष्टिपथमायाति -आ० १ पृ० २१ पं० २४ । स्याद्वादरत्नाकरे तु तदेव
"अविज्ञातज्ञानं त्वभिदधति भट्टस्य तनयाः प्रमाणं तत् सम्प्रत्यवतरतु दूष्यत्वपदवीम् " ॥ इत्यादिभङ्ग्यन्तरेण चर्चितम् - १-२ पृ० १८ प्र० पं० १५ । ६ “ अन्यथा भेदायोगात् " - बृ० ल० टि० ।
७ " न च प्रयोजनानुवर्ति प्रमाणं भवति । कस्य चैष पर्यनुयोगः ? न प्रमाणस्य अचेतनत्वात् । पुंसस्तु सन्निहिते विषये करणे च संभवन्ति ज्ञानानीति सोऽपि किमनुयोज्यताम् किमक्षिगी निमील्य नास्ते कस्माद् दृष्टं विषयं पश्यसीति । प्रमाणस्य तु न किञ्चिद् बाध्यं पश्यामः येन तद् अप्रमाणमिति व्यवस्थापयामः न च सर्वात्मनः वैफल्यम् हेये अहिकण्ठवृक-मकर-विषधरादौ विषये पुनः पुनरुपलभ्यमाने मनःसंतापात् सत्वरं तदाहानाय प्रवृत्तिः उपादेयेऽपि चन्दन - घनसारहार - महिलादौ परिदृश्यमाने प्रीत्यतिशयः स्वसंवेद्य एव भवति" इत्यादि – न्यायमञ्ज० आ० १ ० २२ पं० २-८ " न च प्रयोजनानुवर्ति प्रमाणं भवति x x x
अपि च,
किमिति पश्यसि वस्तु तदेव मो यदिह पूर्वधिया कलितं किल । किमिति वस्तुनि सन्निहितेऽपि च त्वमसि नैव निमीलितलोचनः ॥
पुनः पुनः प्रमाणानां प्रवृत्तौ विषयेष्विह । सर्वथा नास्ति वैयथ्यं फलस्याप्युपलम्भनात् ॥ तथाहि-हालाहल-जिह्मगादौ हेये मुहुर्वस्तुनि वीक्ष्यमाणे ।
स कोऽपि तापः स्फुरति प्रकामं न गोचरं यो वचसामुपैति ॥