________________
ज्ञानमीमांसा।
सक्तः। न च परपक्षे सारूप्यग्रहणोपायः संभवतीत्युक्तम् । किञ्च, यदि नीलाकारं शानमनुभूयत इति बाह्योऽप्यऽर्थो नीलतया व्यवस्थाप्यते तर्हि त्रैलोक्यगतनीलार्थव्यवस्थितिस्ततो भवेत् सर्वनीलार्थसाधारणत्वात् तस्य । अथ नीलाकारताऽविशेषेऽपि कश्चित् प्रतिनियमहेतुस्तत्र विद्यते यतः पुरोवर्तिन एव नीलादेस्ततो व्यवस्था तहनाकारत्वेऽपि ज्ञानस्य तत एव नियमहेतोः प्रतिनियतार्थव्यवस्थापकत्वं भविष्यतीति तत्साकारतापरिकल्पनं व्यर्थम् । यदपि 'चक्षुरादिना रूपमुपलभ्यते इतिव्यपदेश-५ निबन्धनं चक्षुरादिजन्यत्वं रूपाकारप्रकाशस्य' उक्तम्, तदपि स्वजोड्याविष्करणमात्रम् ; यतो यया प्रत्यासत्त्या चक्षुरादिकं समानकालं भिन्नकालं वा भिन्न रूपाद्याकारं ज्ञानं जनयति तयैव निराकारमपि ज्ञानं समानकालं भिन्नकालं वा स्वग्राह्य भिन्नमपि ग्रहीष्यति न हि चक्षुरादेविभिन्नकार्योत्पादनवद विभिन्नग्राह्यग्रहणे शक्तिप्रक्षयः कश्चिद् ज्ञानस्य संभवी। ____ अथ विभिन्नकार्योत्पादनमप्यसंभवीति नाभ्युपगम्यते तर्हि "प्रमाणमविसंवादि"[ १० इति प्रमाणलक्षणप्रणयनमनर्थकं धर्मकीर्तेरासज्यते अविसंवादित्वस्यार्थक्रियाज्ञानजनकत्वलक्षणस्याभावात् । अथ व्यावहारिकमेतत् प्रमाणलक्षणं न पारमार्थिकम् किं तर्हि पारमार्थिकमिति वक्तव्यम? अज्ञातार्थप्रकाशो वेति चेत्, न; अत्रापि यद्यज्ञातस्यार्थस्य प्रकाशः स्वसंविदितोऽर्थग्रहणपरिणाम आत्मसम्बन्धी तदाऽस्मन्मताभ्युपगम इति न कश्चिद्दोषः। अथ स्वरूपस्य स्खतो गतिः”[ ] इति वचनाद् अज्ञातार्थप्रकाशः स्वरूपसंवेदनमात्रम् तदाध्यक्षबाधा दोषः स्वपरवेदकत्वेन ज्ञानस्य १५ खसंवेदनाध्यक्षतः प्रतिपत्तेरिति प्रतिपादितत्वात् प्रतिपादयिष्यमाणत्वाच्च । एतेन 'एकसामग्र्यधीनतया चक्षुरादिना रूपमुपलभ्यत इति व्यपदेशः' इत्येतदपि निरस्तम् भिन्नानामेकसामग्र्यधीनत्वलक्षणप्रतिबन्धाविरोधे ग्राह्यग्राहकलक्षणस्यापि तस्याविरोधात् यथा चैकसामग्र्यधीनानां चक्षुरादीनां समानसमयेऽपि स्वरूपप्रतिनियमस्तथा ग्राह्यग्राहकयोरपि समानकालत्वाविशेषेऽपि विज्ञानं ग्राहकमेव अर्थस्तु ग्राह्य एवेति प्रतिनियमो भविष्यति । अथैकसामग्र्यधीनत्वं रूपप्रतिनियमश्चक्षुरादेर्नेष्यते २० तर्हि प्रमाणादिव्यवहारस्य सकलस्य विलोपात् साकारज्ञानाभ्युपगमोऽसंगत एव स्यात् । यदपि 'कार्यव्यतिरेकेण बाह्यार्थकल्पनाऽर्थापत्या वा परेषामिति तदभ्युपगमेनोच्यते अर्थस्यायमाकारः प्रकाशतामनुप्रविष्टः' इत्युक्तम् , तदपि परदर्शनाऽनभिज्ञतां ख्यापयति; न हि जैनानां कार्यव्यतिरेकात् अर्थापत्त्या वाऽर्थपरिकल्पना किन्तु तद्रोहकप्रतिभासवशात् । साकारज्ञानवादिनस्तु यदि ज्ञानाकारोऽर्थव्यतिरेकेण नोपपद्यत इत्यर्थव्यवस्थापकस्तदाऽनियतार्थव्यवस्थापकः स्यात् । जनकस्यैव व्यव-२५ स्थापक इति चेत्, न; चक्षुरादेरपि व्यवस्थापकः स्यात् । तजनकत्वेऽपि चक्षुरादेरतदाकारत्वान्नेति चेत् ननु चक्षुरादिजन्यत्वेऽपि किमिति तज्ज्ञानं तदाकारं न भवति चक्षुरादि वा स्वाकारज्ञानाजनकमिति वक्तव्यम् ? स्वहेतुबलायाततत्स्वभावत्वात् तयोरिति चेत् ; ननु निराकारज्ञानपक्षेऽपि तत्वाभाव्याद् ज्ञानमेव चक्षुरादिव्यतिरेकेण स्वजनकार्थव्यवस्थापकमिति किं नाभ्युपगम्यते न्यायस्य समानत्वात् ? किञ्च, ग्राहकस्यार्थजन्यत्वेन साकारता सा च प्रतिभासगोचरा एवं च ग्राहके आकारस्य ३० जनकस्यैव प्रतिभासविषयत्वेऽन्यस्य तजनकस्य कल्पनाप्रसक्तिः तत्राप्येवमित्यनवस्था भवेत् । तन्न
१-कारपरि-बृ० ल० वा. बा. भां० हा.। २ पृ. ४६३ पं०७। ३-जात्यावि-वा. बा. विना । ४ वा भिन्नरू-बृ० ल. वा. बा. हा० विना। ५-रपरिज्ञानं हा०। ६ "अविसंवादकं ज्ञानं सम्यग्ज्ञानम्"-न्यायवि० टी० पृ. ३ पं. ५ । “यथाह प्रमाणमविसंवादि ज्ञानम्"-तत्त्वसं० पञ्जि. पृ० ४२८ पं० १० । "अन्ये तु अविसंवादि ज्ञानं प्रमाणमभिदधति"-तत्त्वोप० लि. पृ. ३७ पं०१ । “अपरे पुनरविसंवादकलं प्रमाणसामान्यलक्षणमाचक्षते"-न्यायमा. आ. १ पृ. २३ पं० १९ । “तथाह प्रज्ञाकरगुप्तः प्रमाणमविसंवादि ज्ञानम् इत्यादि प्रमाणलक्षणं व्यवहारेण"-सिद्धिवि. टी. लि. पृ. ७८ पं० १९ इत्युल्लेखाद्वचनमेतत् प्रज्ञाकरगुप्तीयं ज्ञायते । पार्थसारथिमिश्रः श्लोकवार्तिकटीकायां वचनमेतद् धर्मकीर्तिकर्तृकतयोल्लिखतीति तत्पाठप्रदर्शनपूर्वकं संसूचितं प्रथमे भागे पृ० १५ पं० २३ तथा टि. १२ । “अविसंवादकं प्रमाणम्"-न्यायावता. टी. पृ० २० पं० १५ । स्याद्वादर. पृ० १७ प्र. पं० ७ । “प्रमाणमविसंवादि ज्ञानमिति सौगताः"-प्रमाणमी. १-१-८ पृ० ११५० १९ । पृ० १५ पं० २२। ८ पृ. ४६३ पं० १०। ९पृ० ४६३ पं० १७। १०-द्राहिम-बु. ल. वा. बा. भा० मा० । ११ अयं चर्चस्तावद् भङ्गयन्तरेण वर्तते-आप्तमी. का० १३ अष्टश० पृ० ११५० २९ । अष्टस. पृ० ११८ पं०१०। प्रमेयक. पृ. २७ द्वि०५०९।
६० स० त०