________________
४६४
द्वितीये काण्डेतयाऽभ्युपगमविषयः । तदेवं ग्राह्याद् व्यतिरेकेण निराकारज्ञानस्य स्वसंवेदनाध्यक्षसिद्धत्वादनुमानमपि तत्सत्त्वप्रतिपादकत्वेन प्रवर्तत एव विप्रतिपत्तिसद्भावे । यच्च 'अर्थापत्तेरप्रामाण्याद् नातस्तत्प्रतिपत्तिः' इति, तत् सिद्धसाधनमेव । यदपि 'निराकारा मया बुद्धिः प्रतीयते इति बुद्धेरप्यपरा बुद्धिाहिका' इत्यांद्युक्तम् तदप्यसंगतमेव यतः स्वपरार्थग्राहकं बुद्धेः स्वरूपम् तेन च रूपेण खसंविदि ५प्रतिभासमाना कथं शशशृङ्गादिवदव्यवस्थितस्वरूपा भवेत् ? यदपि 'तदव्यतिरिक्ततया प्रतीयमाना न विकल्पेनाप्यपोर्तुं शक्या' इति, तदप्यसङ्गतम्; ग्राह्यार्थस्वरूपविविक्ततया स्वरूपेण तत्प्रतिभासनस्य प्रतिपादितत्वात् । यदपि 'प्रकाशतारहितं नीलादिकं नोपलभ्यते तथोपलम्भे सर्वः सर्वदर्शी भवेत्' इति, अत्रापि यदि ज्ञानं विना नीलादिकं नोपलभ्यत इत्युच्यते तदा सिद्धसाध्यता
तदन्तरेण तदुपलम्भस्यानिष्टेः । अथ नीलमेव प्रकाशरूपमिति प्रतिपाद्यते, तदयुक्तम् ; नीलस्य १० जडतया प्रकाशरूपत्वानुपपत्तेः परस्परपरिहारस्थितलक्षणतया जडाजडयोरेकत्वायोगात् । यदपि 'नीलस्य प्रकाशः' इति व्यतिरेकः 'शिलापुत्रकस्य शरीरम्' इत्यादाविवाभेदेऽपि संभवति' इति, तदपि न सम्यग ; दृष्टान्ते हि प्रत्यक्षावगतोऽभेदो भेदप्रतिभासस्य बाधकः न तु दार्शन्तिके प्रत्यक्षारूढोऽभेदप्रतिभासः समस्ति । तथाहि-ग्राह्यरूपं स्तम्भाद्यनन्यव्यापृतत्वेन ग्राह्यतयाऽध्यक्ष प्रतिभाति प्रका
शता तु स्तम्भादिकर्मणि व्यापृतत्वेन ग्राहकतया प्रतिभातीति न स्तम्भ-तत्संवेदनयोरमेदावभासो१५ऽध्यक्षारूढोऽवभाति । न केवलं ग्राहकाकारोऽन्यव्यापृतत्वेन प्रतिभाति किन्त्वाहादादिस्वभावतया
अहङ्कारास्पदश्च प्रतिभास-निश्चयाभ्यामवसीयते तदाह्यस्तु तद्विपरीतत्वेन । न चाध्यक्षसिद्धभेदयोनील-तत्संवेदनयोः कुतश्चित् प्रमाणादेकताऽवसातुं शक्येति न भेदप्रतिभासस्य बाधा। न च नीलादिरेव ज्ञानरूपः 'अहं नीलादिः' इत्यनवगमात् तेन 'नीलाद्याकारैव प्रकाशता सा च बुद्धिरिति
साकारता ज्ञानस्य' इति यदुक्तम् तदपि निरस्तं द्रष्टव्यम् । यदपि 'प्रकाशतामात्रेणार्थस्य सिद्धत्वाद् २० व्यर्थं तदपरबुद्धिपरिकल्पनम्', तदपि सिद्धमेव साधितम् ; अर्थप्रकाशताया अर्थव्यतिरिक्ताया बुद्धित्वेन तदपरबुद्धिपरिकल्पनाया असिद्धत्वात् । यदपि 'नापरं नीलाद्याकारप्रकाशताव्यतिरेकेणोपलभ्यत इति कस्यार्थे प्रत्यासन्नता परैः परिकल्प्यते' तदपि नीलाद्यर्थग्रहणपरिणतर्ज्ञानस्य खसंवेदनाध्यक्षतः सिद्धरयुक्ततया स्थितम् । 'प्रकाशता तु यदि निराकारा भवेत् प्रतिकर्म व्यवस्था न स्यात्' इति यदुक्तम्, तदप्यसंगतमेव; यतः प्रकाशता किं नीलाद्याकारा, आहोस्विद् ग्राह्याकाराऽभ्यु२५ पगम्यते? यदि प्रथमो विकल्पस्तदा वक्तव्यम् किमेकदेशेन नीलाद्याकारा प्रकाशता, आहोस्वित् सर्वात्मनेति? तत्र यद्येकदेशेन तदा सांशैका प्रकाशता प्रसक्तेत्यनेकान्तसिद्धिः । अथ सर्वात्मना तदा प्रकाशताया जडरूपनीलादिखभावत्वाद् विज्ञप्तिरूपताऽभावप्रसक्तिः जडस्य प्रकाशरूपतायोगात् । अथ ग्राह्याकारा एवमपीतरेतराश्रयत्वम् । तथाहि-ग्राह्यस्य प्रतिनियतरूपसिद्धौ तदाकारा प्रकाशता सिध्यति तत्सिद्धौ च ग्राह्यस्य प्रतिनियतरूपसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । ३० नहि देवदत्तस्य प्रतिनियताकारतासिद्धौ यज्ञदत्तस्य तदाकारतासिद्धिदृष्टा । न च प्रकाशता
साकारतासिद्धिमन्तरेणापि ग्राह्यस्य प्रतिनियतरूपसिद्धिः निराकारज्ञानस्य प्रतिकर्मव्यवस्थाहेतृत्वप्रसक्तेः । न च 'यद् यदाकारं तत् तस्य ग्राहकम्' इति व्याप्तिसिद्धिः अन्यथोत्तरनीलक्षणः पूर्वनीलक्षणस्य ग्राहकः स्यात् । न च तस्याज्ञानरूपत्वान्नायं दोषः देवदत्तनीलज्ञानस्य यज्ञदत्तनीलज्ञानग्राहकताप्रसक्तेः । न च तयोः कार्यकारणभावाभावान्नायं दोषः सदृशसमनन्तरज्ञानक्षणं ३५ प्रत्युत्तरज्ञानक्षणस्य ग्राहकताप्रसक्तेः । अथ तत्र तादृग्विधसारूप्याभावान्नायं दोषः; ननु तथाविधं
सारूप्यं यदि कथञ्चित्सारूप्यमभिधीयते तदाऽनेकान्तवादापत्तिः । अथ सर्वात्मना सारूप्यम् तदोत्तरक्षणस्य पूर्वक्षणरूपताप्रसक्तिरित्येकक्षणमात्रं सर्वः सन्तानो भवेत् । न च पूर्वोत्तरक्षणयोः परपक्षे भिन्नमभिन्नं वा एकान्ततः सारूप्यं संभवति भेदपक्षे सामान्यवादप्रसक्तेः अभेदपक्षे तु तदभावप्र
१-कारस्य ज्ञा-बृ० वा. बा. भां० मां. विना। २ पृ. ४६२ पं० १३ । ३ पृ. ४६२ पं० १९ । ४-दपि च त-आ. हा०वि०। ५ पृ० ४६२ पं० २४ । ६ पृ० ४६२ पं० ३३ । ७-भवीति बृ० वा. बा०। ८ पृ. ४६२ पं० ३५। ९-व्यावृतत्वे-बृ० ल० ।-व्यावृत्तत्वे-वा. बा० । १० व्यावृतत्वे-बृ. ल. । व्यावृत्तत्वेवा० बा० । ११-व्यावृतत्वे-बृ० ल० ।-व्यावृत्तत्वे-वा० बा० । १२ पृ. ४६२ पं०३८ । १३ पृ. ४६३ पं० २। १४ पृ. ४६३ पं० ५। १५ पृ. ४६३ पं०६। १६-शता-आ० हा० वि० ।