________________
ज्ञानमीमांसा।
अथ परोक्षा बुद्धिनिराकारा च ततः साकारत्वमुभयस्यासिद्धम्, असदेतत् निराकारस्य बोधस्य 'बुद्धिः बुद्धिः' इति विकल्पेऽप्यप्रतिभासनात् अर्थापत्तेश्च प्रक्षयः प्रकाशमात्रेणार्थस्य सिद्धत्वाद् व्यर्थं तदपरवुद्धिपरिकल्पनम् ततश्च यदुक्तम्-"निराकारमेव ज्ञानमर्थोन्मुखमुपलभ्यमानं प्रतिनियमेन कथं सर्वसाधारणमिति सिद्धः प्रतिकर्म प्रत्ययः" [
] इति, तदप्ययुक्तम् यतो न किञ्चिन्नीलाद्याकारप्रकाशताव्यतिरेकेणोपलभ्यतेऽपरमिति कस्यार्थे प्रत्यासन्नता५ परैः परिकल्प्यते प्रकाशता तु यदि निराकारा स्यात् प्रतिकर्म व्यवस्था न भवेत् न ह्यालोकमात्रेणामिश्रितघटादिरूपेण तद्रूपप्रकाशनं युक्तम् कथं तर्हि चक्षुरादिना रूपमुपलभ्यत इति व्यवस्था? बाह्यार्थवादिपरिकल्पिते परोक्ष रूपादौ तदाकारा प्रकाशता चक्षुरादिना जन्यत इति तथाव्यपदेशः संभवी प्रकाशंता वा अपोद्धारंपरिकल्पनयाऽनादिवासनानियमाद् भिन्ना व्यपदिश्यत इति न किश्चिदयुक्तम् यद्वा पूर्वसामग्रीतश्चक्षुरादिरूपाद्याकारप्रकाशता बुद्धिखभावोपजायत इत्येकसाम-१० ग्यधीनतयों तथाव्यपदेशः-दृश्यते हि प्रदीप-प्रकाशयोः समानकालयोः 'प्रदीपेन घटः प्रकाशितः' इत्येकसामध्यधीनतया व्यपदेशः। न ह्येककालयोरत्रापि प्रकाश्य-प्रकाशयोः कार्यकारणभाव उपपद्यते; ननु यदि साकारं विज्ञानमभ्युपगम्यते तदा चक्षुरादिकोऽर्थः प्रतिक्षिप्त एवं भवेत् चक्षुराद्याकारस्य संवेदनमात्रस्यैवोपलब्धेन तदाकाराच्चक्षुराद्यर्थव्यवस्था स्यात् । यतो न बाह्यार्थस्तदाकारं च विज्ञानं द्वयमुपलम्भविषयः तत्त्वे वा ज्ञानमेव, तत्रापि साकारम् तत्राप्यर्थस्य पुनरप्युपलब्ध्य-१५ भ्युपगमे ज्ञानाकारेऽन्तर्भाव इति न कदाचित् स्वरूपेणोपलब्धिर्भवेदिति नार्थव्यवस्था, असदेतत्; कार्यव्यतिरेकेण बाह्यार्थपरिकल्पना अर्थापत्त्या वा परेषामभिमतेति तदभ्युपगमादर्थस्यायमाकारः प्रकाशतामनुप्रविष्ट इत्यभिधानात् यथोक्तदोषानुपपंत्तिः अथवा विज्ञानवादेऽर्थासिद्धिप्रेरणं सिद्धसाध्यतया न दोषावहमिति साकारमेव ज्ञानं प्रमाणमभ्युपपन्नाः सौत्रान्तिक-योगाचाराः। [बाह्यार्थं तद्वाहकं च निराकार-साकारज्ञानं स्वीकुर्वता सिद्धान्तिना साकारज्ञानप्रमाणवादस्य २०
प्रतिविधानम् ] अत्र प्रतिविधीयते-निराकारं विज्ञानमर्थग्राहकमिति नै प्रत्यक्षतः प्रतीयते शरीर-स्तम्भादिव्यतिरेकेणानुपलम्भतस्तस्यासत्त्वादिति 'तस्यासत्त्वात्' इत्यत्र हेतुरसिद्धः अहङ्कारास्पदस्य सुखादेनिविशेषस्यान्तःस्वसंवेदनप्रत्यक्षानुभूयमानस्य सत्त्वात् । न च स्वसंवेदनप्रत्यक्षसिद्धस्याप्यसत्त्वम् स्तम्भाद्याकारस्यापि ज्ञानस्यासत्त्वप्रसक्तेः न हि तथाप्रतिभासव्यतिरेकेणापरमत्रापि सत्त्वनिबन्धनम् २५ न च 'अहम्' इति प्रत्ययोऽन्तःस्प्रष्टव्यशरीराद्यालम्बनः शरीरस्य सप्रतिघत्वेनापरप्रत्यक्षविषयत्वेन चाऽज्ञानरूपतया मुख्याहंप्रत्ययविषयत्वानुपपत्तेः ज्ञानस्यैवाप्रतिघानन्यवेद्यरूपस्यान्तर्मुखाकारस्य मुख्याहंप्रत्ययविषयत्वात् 'अहं कृशः'इत्यादिशरीरालम्वनस्य त्वहंप्रत्ययस्यौपचारिकत्वात् उपचारनिबन्धनत्वस्य च प्राक् प्रतिपादितत्वात् तेन 'निराकारस्य ज्ञानस्य स्वप्नेऽप्यसंवेदनान्न प्रत्यक्षतो ग्राह्यव्यतिरिक्तं ग्राहकवरूपं प्रतिभाति' इति प्रत्युक्तम् । 'नीलमहं वेद्मि' इति वाह्यनीलार्थग्राहकस्या-३० न्ताह्याद् व्यतिरिक्तस्य खसंवेदनाध्यक्षतो ज्ञानस्याहमहमिकया प्रतीतेः। न चान्तःसुखादयो बहिश्च नीलादयः परिस्फुटवपुषः स्वसंविदिताः प्रतिभान्ति न पुनस्तव्यतिरिक्तं निराकारं झानखरूपमर्थग्राहकमाभाति सुखादेरर्थग्राहकत्वायोगादिति वक्तव्यम् यतो बाह्य प्रति सुखादीनां नैवास्माभिरपि ग्राहकत्वमभ्युपगम्यते । नहि सुखादयो भावनोपनेयजन्मानो वहिरर्थसंनिधिमन्तरेणापि प्रादुर्भवन्तः पदार्थव्यक्तीनां नियमेनोद्योतकाः स्खवपुःपर्यवसितस्वरूपत्वात् तेषाम् चक्षुरादिप्रभवास्तु संविदो ३५ बहिरर्थमुद्भासयन्त्यः स्पष्टावभासा अन्वय-व्यतिरेकाभ्यां पृथगवसीयन्त इति पदार्थग्राहिण्यस्ता एवाभ्युपगमनीयाः सुखादिवेदनं तु हृदि परिवर्तमानं वाह्यार्थसंविदः पृथगेव न तत् बाह्यार्थग्राहक
१-शता चाऽपो-बृ०। २-रक-बृ० ल. विना। ३-या व्यप-आ० हा० वि०। ४-काश्ययोः भां. मां०। ५-काशते' वा० बा०। ६-व च भ-वा० बा०। ७ तत्त्वे विज्ञा-आ० हा० वि०। ८-नरुप-बृ. ल० वा० बा०। ९-पत्तेः भां०। १० पृ. ४६२ पं०७। ११-नुपलम्भस्तस्या-वृ० ल. वा० बा० ।-नुपलम्भतस्तस्यासत्त्वादिति हेतुर-आ० । १२-दसु-बृ० । १३-न्तःप्र-आ० हा० वि० । १४ पृ० ४६२ पं० ११ । १५-न्तग्राह्यद्व्यति-हा० ।-स्ताव्यति-वा. बा० आ० वि०। १६-कारज्ञा-बृ० वा. बा० आ० वि० ।