________________
४६२
द्वितीये काण्डेन चाध्यक्षतः सप्रतिघबाह्यरूपतया प्रतीयमानस्य 'विज्ञप्तिः' इति नामकरणे काचिन्नः क्षतिः नामकरणमात्रेण सप्रतिघत्वबाह्यरूपत्वादेरर्थधर्मस्याव्यावृत्तेः । अतः सप्रतिघत्वादिरूपो बाह्योऽर्थः तद्विपरीतश्चान्तरो बोधोऽभ्युपगन्तव्य इति कथं विज्ञप्तिमात्रम् ? न च सप्रतिघाकारतया बोधप्रतिपत्तिः तद्विषयतया तु तस्य प्रतिपत्तिरस्त्येव 'नीलविषयो वोधो मयाऽनुभूयते' ५ इति निश्चयोत्पत्तेः । न च प्रतिभासनिश्चयमन्तरेणापरं पदार्थस्वरूपव्यवस्थितौ निबन्धनमुत्पश्यामः ततो निराकारादेव बोधाद् वाह्यार्थसिद्धिरभ्युपेया, असदेतत्; यतः 'निराकारं ज्ञानमर्थव्यवस्थापकम्' इति किं प्रत्यक्षतोऽवगम्यते आहोखिदनुमानतः उतार्थापत्तेरिति विकल्पाः। तत्र न तावत् प्रत्यक्षतस्तत्प्रतिपत्तिः प्रतिभासमानशरीर-स्तम्भादिव्यतिरिक्तस्यापरस्य ज्ञानस्यानुपलम्भेनासत्वात् । न च
सुखाद्यान्तररूपेण अहङ्कारास्पदतया स्वसंवेदनाध्यक्षतो ज्ञानरूपं प्रतीयत एवेति कथं तस्यानुपलम्भः १० यतः सुखादयो नान्तःस्प्रष्टव्यशरीरव्यतिरिच्यमानतनवः प्रतिभान्ति 'अहम्'इति प्रत्ययोऽपि तथा
भूतशरीरालम्बनतया संवेद्यत इति । न च तद्व्यतिरिक्तो वोधात्मा स्वप्नेऽप्यनुभवविषय इति न प्रत्यक्षतो ग्राह्यव्यतिरिक्तवपुर्णाहकस्वरूपमवभातीति न तत् प्रत्यक्षावसेयम् । नाप्यनुमानाधिगम्यम् प्रत्यक्षाप्रवृत्तौ तत्पूर्वकस्य तत्र तस्याप्यप्रवृत्तेः । नाप्यर्थापत्तिस्तत्सद्भावमवगमयति तस्याः प्रामाण्यानुपपत्तेः । किञ्च, अनुस्मरणमात्रमापत्तिः न च 'इदं ततइत्युल्लेखवदनुस्मरणमहेऽर्थे प्रवृत्ति१५मासादयति । न च ज्ञानस्वरूपं कदाचनापि दृष्टम् दृष्टौ वा तत एव तत्सिद्धेः किमर्थापत्त्या? अथ 'अर्थस्य ज्ञानम्'इति निराकारस्य ज्ञानस्य प्रतीतेस्तत्सद्भावः । न चार्थग्राहकत्वेन सर्वदा 'अर्थस्य ज्ञानम्'इत्येवंप्रतीयमानस्याविसंवादिप्रत्ययविषयस्य तस्याभावः संवेदनमात्रस्याप्यभावप्रसक्तः। अतो निराकाराऽविसंवादिप्रत्ययविषया बुद्धिः सिद्धेति युक्तमुक्तम्-"निराकारा नो बुद्धिः" [ ] इति,
असदेतत्; यतो निराकारा अर्थबुद्धिर्मया प्रतीयत इत्यपरा बुद्धस्तदर्थस्य च ग्राहिका वुद्धिः २० प्रसज्येत तथा च सति आकारमन्तरेण केनाकारेण 'वुद्धिरर्थस्य'इति संयोज्य प्रतीयेत? नहि 'इदं
तत्'इत्यनिरूपिताकारमाकारान्तरेण नियोजनामर्हति । न च तथाऽप्रतीयमाना 'वुद्धिः'इति व्यपदेशमासादयति शशशृङ्गादेरपि बुद्धित्वप्रसक्तेः । अथापि स्यात् 'ममार्थवुद्धिरासीत्'इति नाकारव्यतिरिक्ता सा प्रतिभाति किन्तु पृथगपोद्धारपरिकल्पनया प्रकाशरूपतया व्यवस्थापिता 'बुद्धिः इति व्यपदिश्यते, अयुक्तमेतत् ; यतो नाव्यतिरेकेण प्रतीयमाना वुद्धिर्विकल्पेनापोर्तुं शक्या २५न च पृथक प्रतीयते सेत्युक्तम् । अथ सुख-स्तम्भाद्याकारतया यद्यन्त(न्तः)स्पष्टव्यरूपादिकमेव
तिभाति न पुनस्ततो व्यतिरिक्तमपरं ज्ञानम् तथासति संवेदनमात्रमेव प्रसक्तम् एवं च 'चक्षुरादिना मया रूपं प्रतीयते'इति सम्बन्धाभावात् कथं प्रतीतिः? अस्ति चेयं प्रतीतिः तस्मादुपलभ्ये रूपादिके अभिमुखीभूतं चक्षुस्तत्प्रकाशंत्वं विदधाति सा च बुद्धिरुच्यते । न च नीलाद्याकारमविद्यमानमेव तत्र प्रकाशत्वमुत्पन्नमिति वक्तव्यम् विद्यमाननीलादिविषयस्य चक्षुरादिव्यापारादविद्य३०मानस्य प्रकाशत्वस्यैव तत्रोत्पत्तेः नीलादेस्तु पूर्वमेव भावात् तथा च सति 'अर्थस्य बुद्धिः' इति व्यपदेशः सिद्ध एव । अत एवोक्तम्-"बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्" [न्यायद०१-१-१५] इति, एतदप्यसत्; यतो न प्रकाशव्यतिरेकेण नीलादिरुपलभ्यते इति कुतः पूर्वव्यवस्थिते एव नीलादौ प्रकाशता चक्षुरादेरुदयतीति वक्तुं शक्यम् न हि प्रकाशतारहितं कदाचिदुपलब्धं नीलादि
कम् उपलम्भे वा सर्वस्य सर्वदर्शित्वप्रसक्तिः। अथ 'नीलस्य प्रकाशः इति व्यतिरेक उपलभ्यत एव, ३५न; 'शिलापुत्रकस्य शरीरम्' 'स्तम्भस्य स्वरूपम्' इत्यत्रापि व्यतिरेकोपलब्धेय॑तिरेकःस्यात् 'प्रकाशस्य प्रकाशता' इति च दृष्टेभेंदः प्रकाशतायाः स्यात् । अथात्रैकैव प्रकाशतोपलभ्यते नापरेति न प्रकाशस्यापरः प्रकाशः व्यतिरेकोपलम्भस्य प्रत्यक्षवाधितत्वात् तर्हि नील-प्रकाशयोरपि न प्रत्यक्षप्रतीतो भेद इति तत्रापि समानन्यायतो व्यतिरेकस्यासिद्धेलाद्याकारैव प्रकाशता सा च बुद्धिः इति सिद्धा साकारता ज्ञानस्य।
१-परज्ञा-ल.। २ नान्तस्प्र-बृ० । नान्तद्रष्ट-आ० । ३-षयस्याभा-आ० । ४-'त्यपरा* वुद्धेस्तदर्थस्य च ग्राहिका बुद्धिः प्रसज्येत' इत्यन्वयसूचकचिह्नाङ्कितः पाठः ल०। ५ नहीह त-आ०। ६-ण योघृ० वा. बा०। ७ यद्यन्तप्रष्ट-हा० वि०। यदेतत्स्पष्ट-वा. बा०। यद्यन्तद्रष्ट-आ०। ८ एवं चक्षुकृ. ल. वा. बा. विना। ९-लंभ्ये वृ० । लंभे वृ० सं० । वा. बा.। १०-शकत्वं भां० म० । ११-यचक्षु-वा. बा०। १२-लम्मे च स-आ. हा. वि.।