________________
ज्ञानमीमांसा ।
शानेन प्रतीयते, निराकारेण वा? यदि साकारेण इति पक्षस्तदा असावपि ज्ञानाकार एव न बाह्योऽर्थ इति क्वचिदपि अर्थासिद्धरसिद्धो दृष्टान्तः तथा च प्रतिबन्धाप्रसिद्धेर्न ज्ञानाकाराद बाह्यार्थसिद्धिः। अथ निराकारेण तेन अर्थः स्व-पराभ्यां प्रतीयत इति प्रतिबन्धसिद्धिरभ्युपगम्यते पिण्डाद्याकारस्य बाह्यार्थेन सह; नन्वेवं निराकारं ज्ञानं बाह्यार्थग्राहकं सिद्धमिति व्यर्थ ज्ञानाकारकल्पनम् । न च तत्रापि प्रतिभासमानो वृक्षो ज्ञानाकार एव इति अपरमर्थ साधयति तत्रापि अपरापरार्थ-५ कल्पनायामनवस्थाप्रसङ्गात् कुतोऽर्थसिद्धिः? ज्ञानाकारात् इति चेत्, ननु प्रतिबन्धाग्रहणे कथं ततस्तत्सिद्धिः इति पुनरपि तदेव वक्तव्यमिति अपर्यवसाना पर्यनुयोगानवस्था । तस्मात् निराकारादेव ज्ञानाद् बाह्यार्थसिद्धिरभ्युपगन्तव्या । ____ अथ निराकारं ज्ञानं नीलादावर्थे व्यापारवत् प्रवर्त्तते, उत निर्व्यापारम् इति कल्पनाद्वयम् । प्रथमकल्पनायामपि अव्यतिरिक्तव्यापारवत् उत व्यतिरिक्तव्यापारवत् इति कल्पनाद्वयम् । आद्य-१० विकल्पे ज्ञानरूपमेव न व्यापारः कश्चित् । न च व्यापार-तद्वतोरभेदो युक्तः धर्मधर्मितया प्रतीतेः। द्वितीयविकल्पेऽपि सम्बन्धासिद्धिः ततस्तस्योपकाराभावात् उपकारेऽपि तस्य तन्निर्वर्तनेऽपरो व्यापारः कल्पनीय इत्यनवस्था । व्यापारस्यापि चार्थग्रहणव्यापृतावपरो व्यापारः परिकल्पनीय इत्यत्राप्यनवस्था । निर्व्यापारस्यापि व्यापारस्यार्थव्यापृतावर्थस्यापि ज्ञानग्रहणे व्यापृतिप्रसक्तिरित्यर्थस्यापि ज्ञानं प्रति ग्राहकता स्यात् । न च निराकारो बोधो निर्व्यापारोऽपि बोधस्वरूपत्वादर्थग्राहकः अर्थ-१५ स्थाप्यर्थरूपतया बोधं प्रति ग्राहकतोपपत्तेः ततो ग्राह्यरूपासंस्पर्शान्न बोधस्य ग्राहकता । नच ग्राह्यार्थरूपान्यथानुपपत्त्या बोधस्य ग्राहकताव्यवस्था, इतरेतराश्रयदोषप्रसक्तेः। तथाहि-ग्राह्यरूपव्यवस्था ग्राहकरूपसंस्पर्शाद ग्राहकरूपव्यवस्थापि ग्राह्यरूपसंस्पर्शादिति कथं नेतरेतराश्रयदोषः? न च समानकालयोर्नील-बोधयोाह्यग्राहकभावव्यवस्था, कर्म-कर्तृरूपत्वासिद्धेः-न हि समानकालतायां निवर्त्य-विकार्य-प्राप्यरूपकर्मतासम्भवः समानकालस्य निर्वर्त्य-विकार्यताऽयोगात् प्राप्य-२० रूपता च न तद्व्यतिरिक्ता सम्भवति समानकालयोर्द्वयोरपि ग्राह्यग्राहकभावाविशेषात् । तन्न निराकारस्याप्यर्थव्यवस्थापकत्वं बोधस्येति “विज्ञप्तिमात्रमेव नार्थव्यवस्था" [ ] इति विज्ञानवादिनः। अयुक्तमेतत् सप्रतिघरूपतयाऽध्यक्षतो बाह्यस्य सिद्धेर्विज्ञप्तिमात्रत्वे तद्रूपताऽभावप्रसक्तिर्भवेत् ।
१-कारक्षा-बृ.। २ एते निवर्त्यप्रभृतयः कर्मकारकभेदाः । तदुल्लेखः तत्स्वरूपं चैवम्"प्राप्यं विषयभूतं च निर्वर्से विक्रियात्मकम् । कर्तुश्च क्रियया व्याप्यमीप्सितानीप्सितेतरत्" ॥
-जैने. व्या० पृ. ९७ पं० ३ । "निर्वखं च विकार्य च प्राप्यं च त्रिविधं मतम् । तत्रेप्सिततमं कर्म चतुर्धाऽन्यत् तु कल्पितम्"॥
“सती वा विद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यवं प्रचक्षते" ॥ "प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा। निर्वर्यं च विकार्य च कर्म शास्त्रे प्रदर्शितम्" ॥ "यदसज्जायते सद्वा जन्मना यत् प्रकाश्यते । तन्निवर्स विकार्य च कर्म द्वेधा व्यवस्थितम्"॥ "प्रकृत्युच्छेदसंभूतं किश्चित् काष्ठादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्" ॥ "क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत् प्राप्यमिति कथ्यते" ॥
-वाक्यप० तृ. का० श्लो० ४५-५१ पृ. २०२-२०५ । ब्रह्मणः स्वरूपे न कश्चनापि कर्मकारकप्रकारो घटते इति निरूपयता श्रीशंकराचार्येण खभाष्ये कर्मकारकस्य चातुर्विध्यमभ्यनुज्ञातम् । भामतीकृताऽपि तदेव विशदीकृतम् । तद्यथा “अत्र च कूटस्थनित्यम् इति निर्यकर्मतामपाकरोति । सर्वव्यापि इति प्राप्यकर्मताम् । सर्वविक्रियारहितम् इति विकार्यकर्मताम् । निरवयवम् इति संस्कार्यकर्मताम्" -ब्रह्मसू० १-१-४ पृ. ११९ पं० १९।
भर्तृहर्युक्तं निर्वादिस्वरूपं गद्यात्मकतया निरदेशि आचार्य हेमचन्द्रेण-"तत् त्रेधा-निर्वय॑म् विकार्यम् प्राप्यं च । तत्र यदसज्जायते जन्मना वा प्रकाश्यते तन्निववंम् । कटं करोति । पुत्रं प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद् विकृतिमापाद्यते तद् विकार्यम् । काष्ठं दहति । काण्डं लुनाति । यत्र तु क्रियाकृतो विशेषो नास्ति तत् प्राप्यम् । आदित्यं पश्यति । ग्राम गच्छति"।-हैम. बृ० वृ०२-२-३ पृ. २१ द्वि. पं०६।