________________
द्वितीये काण्डे
भूतमर्थ व्यवस्थापयितुं शक्ता प्रतिपत्तिव्यतिरेकेणाप्यर्थव्यवस्थितिप्रसंक्तेरतिप्रसक्तिश्च नीलप्रतिपत्तेरपि पीतादिव्यवस्थापनाप्रसङ्गात् । अथ साकारं विज्ञानमाकारप्रतिनियमात् तत्प्रतिपत्त्यैवार्थापत्त्या तदाकारतां तजनकस्यार्थस्य व्यवस्थापयेदिति प्रतिकर्म व्यवस्था सिध्यति निराकारं तु विज्ञानं बोधमात्रतया व्यवस्थितं सर्वार्थान् प्रत्यविशिष्टत्वात् 'नीलस्येदं संवेदनंन पीतस्य' इति प्रतिकर्म ५व्यवस्थानिबन्धनं न भवेदिति साकारं ज्ञानमभ्युपगन्तव्यम्, असदेतत् ; 'सर्वार्थान् प्रति बोधमात्रतया निराकारस्याविशिष्टत्वात्' इति हेतोरसिद्धेः निराकारत्वेपि चक्षुरादिवृत्त्या बोधस्य तत्रैव नियमित
। न च नियतत्वं तस्य सर्वार्थेषु, नीलादावेव तस्य प्रतीतेः समानत्वेऽपि वा पुरोवर्तिन्येव नीलादौ समानत्वस्य सम्भवान्न सर्वार्थसाधारणी प्रतिपत्तिरिति निराकारज्ञानवादिनो न काचित्
क्षतिः तथादृष्टत्वात् 'नहि दृष्टेऽनुपपन्नं नाम' । निराकारत्वे किमिति पुरोवर्त्तिन्येव नीलादौ प्रवर्तते १० विज्ञानम् ? चक्षुरादिभिस्तत्रैव नियमितत्वादिति प्रतिपादितं प्राक् । कस्मात् तैस्तत्र तन्नियम्यत इति चेत् अत्र वस्तुस्वभावैरुत्तरं वाच्यम् न हि कारणानि कार्यजननप्रतिनियमे पर्यनुयोगमहन्ति तत्र तस्य वैफल्यात् । साकारत्वेऽपि चायं पर्यनुयोगः समानः । तथाहि-साकारमपि ज्ञानं किमिति नीलादिकमेव पुरोवर्ति तत्सन्निहितमेव च व्यवस्थापयति? तेनैव तथा तस्य जननादिति चेत् समानमेतन्निराकारत्वेऽपि । किञ्च, चक्षुरादिजन्यं तद्विज्ञानं किमिति चक्षुरा१५द्याकारं न भवति इति पर्यनुयोगे भवतापि 'वस्तुस्वभावैरत्रोत्तरं वाच्यम्' इति वक्तव्यम् तदस्माभिरभिधीयमानं किमित्यसंगतं भवतः प्रतिभाति । अपि च, साकारता विज्ञानस्य किं साकारेण प्रतीयते, आहोस्विनिराकारेण? यदि साकारेण तदां तत्रापि प्रतिपत्तावाकारान्तरपरिकल्पनमित्यनवस्थाप्रसक्तिः । निराकारेण चेद वाह्यार्थस्यापि तथाभूतेनैव प्रतिपत्तिप्रसक्तिः। न च बाह्ये प्रत्यासत्तिनियमाभावान्न तथाभूतेन प्रतिपत्तिरिति वाच्यम् इतरत्रापि प्रत्यासत्तिनियमा. २०भावस्य तुल्यत्वात् । शुक्ले पीताकारदर्शनाद् अभ्रान्ते न प्रतिनियमाभाव इति चेत् निराकारेऽपि तीभ्रान्तत्वादेव प्रतिनियमो भविष्यतीति किमाकारपरिकल्पनया? कथमाकारमन्तरेण प्रतिनियम इति न वाच्यम् आकारेऽप्यस्य समानत्वात् । तथाहि-साकारवादिनोऽपि कथं प्रतिनियम इति प्रेरणायाम् 'प्रतिनियताकारपरिग्रह एव प्रतिनियमः' इति नोत्तरं युक्तम् प्रतिनियताकारपरिग्रहस्यैव प्रतिनियमरूपतयोपन्यस्तस्याद्यापि विचार्यमाणत्वात् । अथानुमानाद् वाह्योऽर्थः प्रतीयते तर्हि २५ प्रतिबन्धसिद्धिर्वक्तव्या । न च बाह्योऽर्थोऽध्यक्षतः कदाचनापि सिद्धः नापि तत्प्रतिबद्धो ज्ञानाकार
इति न प्रतिबन्धसिद्धिः तामन्तरेण न चानुमानप्रवृत्तिरिति कथं वाह्यार्थसिद्धिः? अथार्थापत्त्या बाह्योऽर्थोऽधिगम्यते, न; अर्थापत्त्याऽर्थस्वरूपप्रतिपत्तौ तस्याः प्रत्यक्षरूपताप्रसक्तेः । न च स्वरूपप्रतिपत्तिमन्तरेणाप्यनुमानवत् तस्याः प्रामाण्यम् अनुमानस्यावगतप्रतिबन्धलिङ्गप्रभवत्वेन प्रामाण्यात् अत्र च तदभावात् । न चाऽप्यत्यन्तपरोक्षस्यार्थस्य केनचिदाकारेण विषयीकरणमिति न तस्य ३० प्रतिपत्तिविषयता अनुमानविषयस्य तु पूर्वदृष्टत्वात् 'इदं तत्' इत्याकारेण प्रतिपत्तिविषयता
सम्भवत्यपि इति नार्थापत्त्याप्यर्थप्रतीतिः । अथ दूरस्थितवृक्षादौ तत्पिण्डाद्याकारो यथा बाह्यवृक्षाद्यर्थव्यतिरेकेण न प्रतिभासविषयस्तद्वत् पुरोवर्तिनि स्तम्भादौ तदाकारः सत्येव बाह्ये स्तम्भाद्यर्थे इति सिद्ध एव बाह्योऽर्थः। न च वृक्षादावपि पिण्डाद्याकार एव वृक्षादिः तस्य स्व-पराभ्यां सन्निहितस्यान्यथाप्रतीतेः असदेतत्; यतः ख-पराभ्यामसौ सन्निहितः प्रतीयमानः साकारेण वा
१-सक्तेरितिप्र-बृ.। २-रसिद्धत्वात् नि-आ०। ३-रणा प्र-भां। ४ "नास्ति दृष्टेऽनुपपन्न नाम"-मीमांसाद० १-१-५ भा० पृ० १३ पं० २०। ५-रादेस्त-आ० ।-रादिस्त-हा. वि. । “यतो निराकारखेऽपि अवबोधस्य इन्द्रियवृत्त्या पुरोवर्तिन्येवार्थे नियमितखान्न सर्वार्थघटनप्रसङ्गः"-प्रमेयक० पृ. २८ प्र. पं. १२। ६ प्राक तस्मा-बु० सं० । प्र. पृ. पं. ६ । ७ “कस्मात् तैस्तत्र तन्नियम्यते इत्यत्र वस्तुखभावैरुत्तरं वाच्यम्" -प्रमेयक पृ० २८ द्वि० पं० १।
"प्रत्यक्षेण प्रतीतेऽर्थे यदि पर्यनुयुज्यते । खभावैरुत्तरं वाच्यं दृष्टे काऽनुपपन्नता" ॥ इति स्वयमभिधानात्"-अष्टस. पृ. १९१ पं० १३ । ८-पि वायं वा. बा. वि. विना। ९-दाऽत्राब. आ. हा०वि०। १.न चात्य-बृ. ल. । ११-क्षादौ मृपिण्डाद्याका-बृ. आहा० ।-क्षादी मृपिण्डाका-वा. बा. वि.। १२ बाह्यार्थः आ० हा० वि० ।