________________
ज्ञानमीमांसा।
४५९
न चौपचारिकं तेषां प्रामाण्यम् प्रमितिक्रियायां साधकतमत्वेन मुख्यप्रामाण्योपपत्तेः अत एव शास्त्रान्तरेष्वपि विशिष्टोपलब्धिजनकस्य बोधाऽबोधरूपविशेपत्यागेन सामान्यतः
“लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्" [ ] इन्युक्तिः । किश्च, 'प्रमीयतेऽनेन' इति प्रमाणशब्दः करणविशेषप्रतिपादकः करणविशेषत्वं चास्य विशिष्टोपलब्धिखरूपकार्यजनकत्वेन कार्यस्य चाव्यभिचारादिस्वरूँपप्रमितिरूपत्वात् तज्जनकेनापरेण साधक-५ तमेन भाव्यम् एकस्यैव स्वात्मनि करणक्रियाविरोधात् ततो वोधावोधरूपस्य प्रमितिजनकस्य प्रमाणतोपपत्तेः 'वोधमात्र प्रमाणम्' इत्यत्राव्याप्तिर्लक्षणदोपः प्राप्नोतीति स्थितम् । अथ वोधविशेषः प्रमाणम् तदाऽत्रापि वक्तव्यम्-कः पुनरसौ बोधस्य विशेषः? यद्यव्यभिचारादिविशेषणविशिष्टत्वं तदा प्रमितिखभावस्य तस्य प्रमाणताप्रसक्तिः । न चाभ्युपगम्यत एवेति वाच्यम् करणविशेषस्य प्रमाणत्वव्यवस्थितेः।
१० ___ अत एव “निराकारो वोधोऽर्थसहभाव्येकसामग्र्यधीनस्तत्रार्थे प्रमाणम्” [ ] इति वैभाषिकोक्तमसंगतम् । अपि च, कर्मण्यसौ प्रमाणमभ्युपेयते । यत उक्तम्
__"सव्यापारमिवाभाति व्यापारेण स्वकर्मणि" [ ] इति । कर्मता च बोधसहभाविनोऽर्थस्य तद्बोधापेक्षया न सम्भवति, तत्समानकालस्य तत्कृतविकार्यत्वाद्ययोगात् अकर्मरूपे च तत्र कारणे क्रियायाः कथं प्रतिनियमः तदभावे चैकसामग्र्यधीनताया-१५ मपि सर्वः सर्वस्य बोधो भवेत् । किञ्च, एकसामग्र्यधीनत्यस्य द्वयोरप्यविशेषात् यथा बोधोऽर्थस्य ग्राहकस्तथाऽथोऽपि बोधस्य किं न भवेत् ? तन्न निराकारो वोधः प्रमाणं सम्भवति।
अथ मा भूनिराकारो बोधःप्रमाणम् साकारस्त्वसौ प्रमितिक्रियायां साधकतमत्वात् प्रमाणम्। ननु च बोधस्य प्रमाणवरूपत्वादाकारात्मकत्वमयुक्तम् प्रमेयरूपत्वापत्तः। न च प्रमेयरूपमेव प्रमाणं भवितुमर्हति प्रमाणस्य तदाहकत्वेन प्रतिभासात् । न च तथात्वेन प्रतिभासमानमपि प्रमेय-२० रूपं युक्तम् प्रमाण-प्रमेययोरन्तर्बहिर्व्यवस्थितत्वेनावभासनात् भेदेन च प्रतिभासमानं नान्यथाधिगन्तुं युक्तम् । न हि प्रतिभासः साक्षात्करणाकारत्वात् प्रत्यक्षरूपोऽर्थव्यवस्थापका प्रमाणान्तरादनुग्रहं बाधां वा प्रतिपद्यते। उक्तं च
"प्रमाणस्य प्रमाणेने न बाधा नाप्यनुग्रहः । बाधायामप्रमाणत्वमानर्थक्यमनुग्रह" ॥ [
] इति सर्वदा बहिर्विच्छिन्नार्थावभासिनोऽध्यक्षस्याप्रमाणत्वे प्रमाणान्तराप्रवृत्तिरेव । न चाध्यक्षेण शानमेव बहिराकारं वेद्यते न बाह्योऽर्थ इति कथं निराकारता तस्येति वक्तव्यम् ज्ञानरूपतया बोधस्याध्यक्षे प्रतिभासनात् अर्थस्य च ज्ञानरूपतयाऽप्रतिपत्तेः । न ह्यनहङ्कारास्पदत्वेनार्थस्य प्रतिभासेऽहङ्कारास्पदबोधरूपस्येव ज्ञानरूपता युक्ता, यदि त्वहङ्कारास्पदत्वेनार्थस्य प्रतिभासः स्यात् तदा ३० शानरूपादभिन्नत्वात् तदात्मनः 'अहं घटः' इति प्रतिभासः स्यात् । न चान्यथाभूता प्रतिपत्तिरन्यथा
१-स्य बोधरूपवि-भां० मां। २-क्षिणो भुक्षिः प्र-आ० ।-क्षिणो मुक्ति प्र-हा० । ३ "ततो यद् बोधाबोधरूपस्य प्रमाणवाभिधानकम्
"लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्"इति तत् प्रत्याख्यातम् ज्ञानस्यैवानुपचरितप्रमाणव्यपदेशाहखात्" लिखितम् “शासनादि लोके पत्रादि तत् प्रमाणम्” साक्षिणः “पुरुषाः प्रमाणम्" भुक्तिः "अनुभवः प्रमाणम्"-प्रमेयक. पृ. ३ प्र. पं० ११, टि. ४०, ४१, ४२ । षड्द० स० बृ. वृ० पृ. २०७ पं० १७-१९ । ४-रूपत्वात्-वा० बा० । ५-नकत्वेना-वा० बा०। ६-पवि-आ० हा० वि० । ७-कर्मण इ-हा० वि० । ८-पताप-बृ० वा. बा०। ९-रूपार्थ-आ० । १०-पद्येत-आ० हा०वि०। ११-न नाबा-(नाऽऽबा-) आ० । १२ अत्र 'अनुग्रहे' 'अनुग्रहः' इति द्वयमपि संभाव्यते इति विचार्य 'अनुग्रह इति' इति सर्वप्रतिषु विद्यमानः ससन्धिः पाठो न्यस्तः।