________________
द्वितीये काण्डे[उपयोगस्य साकारानाकारते स्पष्टयित्वा तयोः प्रामाण्याऽप्रामाण्यकथंतामिधानम् ]
उपयोगस्य चानाकार-साकारते सामान्य-विशेषग्राहकते एव तत्र तत्राभिधीयते । अविद्यमान आकारः भेदो ग्राह्यस्य अस्येत्यनाकारं दर्शनमुच्यते । सह आकारैर्ग्राह्यभेदैर्वर्त्तते यद् ग्राहकं तत् साकारं ज्ञानमित्युच्यते । निराकार-साकारोपयोगौ तूपसर्जनीकृततदितराकारौ स्वविषयावभास५कत्वेन प्रवर्तमानौ प्रमाणम् न तु निरस्तेतराकारी, तथाभूतवस्तुरूपविषयाभावेन निर्विषयतया प्रमाणत्वानुपपत्तेरितरांशविकलैकांशरूपोपयोगसत्तानुपपत्तेश्च । तेनैकान्तवाद्यभ्युपगमः 'बोधमात्र प्रमाणम् साकारो बोधोऽनधिगतार्थाधिगन्तृत्वविशिष्टः स एव ज्ञातृव्यापारोऽर्थदृष्टताख्यफलानुमेयः संवेदनाख्यफलानुमेयो वा अनधिगतार्थाधिगन्ता इन्द्रियादिसंपाद्यः अव्यभिचारादिविशेषणविशिटार्थोपलब्धिजनिका सामग्री तदेकदेशो वा वोधरूपोऽबोधरूपो वा साधकैतमत्वात् प्रमाणम्' १० इत्यादिरूपोऽयुक्तः।
[२ प्रमाणसामान्यनिरूपणम् ] [वैभाषिक-सौत्रान्तिक-योगाचारसंमतानां निराकार-साकार-विज्ञानवादानां परस्परोपमर्द
पूर्वपक्षतयोपन्यासः] तथाहि-'बोधः प्रमाणम्' इति वदन्तो वैभाषिकाः पर्यनुयोज्याः-किं वोधमात्रस्य प्रामाण्यम् , १५ आहोस्विद्वोधविशेषस्य? यदि वोधमात्रस्य तदा तल्लक्षणप्रणयनमयुक्तम् व्यवच्छेद्याभावात्, अबोधस्य व्यवच्छेद्यत्वेऽपि संशय-विपर्ययादीनां वोधस्वभावत्वात् प्रमाणताप्रसक्तिः । न च संशयादीनामपि प्रमाणता लोक-शास्त्रविरोधात् । लोकप्रसिद्धं च प्रमाणे व्युत्पादयितुमारब्धम् तत्र चेन्द्रियादेरपि प्रमाणतायाः प्रसिद्धोधस्य प्रामाण्येऽव्याप्तिश्च लक्षणदोषः। न चाबोधरूपस्येन्द्रियादेर्लोकः प्रमाणतां न व्यपदिशति 'अंदीपेनोपलब्धम्' 'चक्षुषा दृष्टम्' 'धूमेनावगतम्' इति लौकिकानां व्यवहारदर्शनात् ।
१-कार शा-वा. बा. विना। २-पयोगावुप-आ०। ३-स्तुवि-बृ०। ४ वा बोधरूपो वा सा-वा. बा०। ५-कत्वात् वृ० वा. वा०। ६ संक्षेपेण वैभाषिकादिमतखरूपमित्थं वर्णितमस्ति षड्दर्शनसमुच्चयबृहद्वृत्तौ-"अथवा वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिकभेदाच्चतुर्धा बौद्धा भवन्ति ।
तत्रार्यसमितीयापरनामकवैभाषिकमतमदः-चतुःक्षणिक वस्तु जातिर्जनयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो विनाशयति । तथा आत्मापि तथाविध एव पुद्गल श्वासावभिधीयते । निराकारो बोधोऽर्थसहभाव्येकसामग्यधीनस्तत्रार्थे प्रमाणमिति ।
सौत्रान्तिकमतं पुनरिदम्-रूप-वेदना-विज्ञान-संज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते न पुनरात्मा । त एव हि परलोकगामिनः । तथा च तत्सिद्धान्तः–पञ्चेमानि भिक्षवः । संज्ञामात्रम् प्रतिज्ञामात्रम् संवृतिमात्रम् व्यवहारमात्रम् । कतमानि पञ्च ? अतीतोऽध्वा, अनागतोऽध्वा, सहेतुको विनाशः, आकाशम् , पुद्गल इति, अत्र पुद्गलशब्देन परपरिकल्पितो नित्यत्वव्यापकवादिधर्मक आत्मेति । बाह्योऽर्थो नित्यमप्रत्यक्ष एव ज्ञानाकारान्यथानुपपत्त्या तु सन्नवगम्यते । साकारो बोधः प्रमाणम् तथा क्षणिकाः सर्वसंस्काराः खलक्षणं परमार्थः । यदाहुस्तद्वादिनः-प्रतिक्षणं विशरारवो रूप-रस-गन्धस्पर्शपरमाणवो ज्ञानं चेत्येव तत्त्वमिति । अन्यापोहः शब्दार्थः । तदुत्पति-तदाकारताभ्यामर्थपरिच्छेदः । नैरात्म्यभावनातो ज्ञानसंतानोच्छेदो मोक्ष इति ।
योगाचारमतं विदम्-विज्ञानमात्रमिदं भुवनम् , नास्ति बाह्योऽर्थः ज्ञानाद्वैतस्यैव तात्त्विकलात् । अनेके ज्ञानसंतानाः साकारो बोधः प्रमाणम् वासनापरिपाकतो नील-पीतादिप्रतिभासाः । आलयविज्ञानं हि सर्ववासनाधारभूतम् । आलयविज्ञानविशुद्धिरेवापवर्ग इति ।
___ माध्यमिकदर्शने तु-शून्यमिदम् स्वप्नोपमः प्रमाण-प्रमेययोः प्रविभागः, मुक्तिस्तु शून्यतादृष्टेस्तदर्थं शेषभावनेति । केचित्तु माध्यमिकाः खस्थं ज्ञानमाहुः"-पृ० ४६ पं० १२-पृ० ४७ पं० १५।
एतदर्थ सर्वदर्शनसंग्रहगतं बौद्धदर्शनमपि (पृ. २८-४६) विलोकनीयम् । -ज्याःबो-आ०। ८-णमयु-वा. बा०। ९ प्रमेयक० पृ. ३ प्र० ५० ५।