________________
संमतितर्क-प्रकरणम् ।
चतुर्थो विभागः।
द्वितीयः काण्डः।
प्रथमगाथाव्याख्या।
[१ उपयोगनिरूपणम् ] [व्यस्तयोर्दर्शन-ज्ञानयोः लक्षणमभिधाय द्रव्यास्तिक-पर्यायास्तिकाभ्यां तयोः स्वभावस्य
विभज्य वर्णनम् ]
एवमर्थाभिधानरूपशेयस्य सामान्य-विशेषरूपतया यात्मकत्वं प्रतिपाद्य 'ये वचनीयविकल्पाः संयुज्यमानयोरनयोर्नययोर्भवन्ति सा स्वसमयप्रज्ञापनाऽन्यथा तु सा तीर्थकदासादना' इति यदुक्तम५ तदेव प्रपञ्चयितुम् 'उपयोगोऽपि परस्परसव्यपेक्षसामान्य-विशेषग्रहणप्रवृत्तदर्शन-ज्ञानस्वरूपद्वयात्मकः प्रमाणम् दर्शन-ज्ञानकान्तरूपस्त्वप्रमाणम्' इति दर्शयितुं प्रकरणमारभमाणो द्रव्यार्थिक-पर्यायार्थिकाभिमतप्रत्येकदर्शन-शानस्वरूपप्रतिपादिकां गाथामाहाचार्यः
जं सामण्णग्गहणं दसणमेयं विसेसियं णाणं ।
दोण्ह वि णयाण एसो पाडेकं अत्थपज्जाओ ॥१॥ द्रव्यास्तिकस्य सामान्यमेव वस्तु तदेव गृह्यते अनेनेति ग्रहणं दर्शनमेतद् उच्यते, पर्यायास्तिकस्य तु विशेष एव वस्तु स एव गृह्यते येन तत् ज्ञानम् अभिधीयते ग्रहणम् विशेषितम् इति विशेषग्रहणमित्यभिप्रायः । द्वयोरपि अनयोर्नययोरेष प्रत्येकमर्थपर्यायः अर्थ विषयं पर्येति अवगच्छति यः सोऽर्थपर्यायः ईदृग्भूतार्थग्राहकत्वमित्यर्थः।।
१-नयोनय-आ. हा. वि.। २ पृ. ४५५ गा० ५३ पं० २८ ।
३ “जं सामण्णंगहणं भावाणं णेव कुटुमायारं । अविसे सिदूण अढे दसणमिदि भण्णए समए" ॥ ४३ ॥ इतीय गाथा दर्शनखरूपप्रतिपादिका बृहद्रव्यसंग्रहगता-पृ. १६८ ।
५९ स०त.