________________
४८४
द्वितीये काण्डेइति वक्तव्यम् सकलज्ञानावेदने वादिनैवंप्रतिपत्तुमशक्तेः । न च न परमार्थतस्तयोर्व्याप्तिः अपितु व्यवहारेणेति वक्तव्यम् व्यवहारस्यापि प्रमाणत्वाभ्युपगमे उक्तदोषानतिवृत्तेः । अथाप्रमाणं विकल्पनमात्रमसौ, नन्वनुमानमप्यतः प्रवृत्तिमासादयत् तथाभूतमिति नातोऽभिमतसिद्धिः । न च मिथ्याविकल्पविषयधूमाग्निव्याप्तिप्रभवाश्यनुमानवदस्यापि स्वसाध्याव्यभिचारित्वम् मिथ्याविक५ल्पावगतव्याप्तिप्रभवस्य तस्य स्वसाध्याव्यभिचारित्वव्याघातात् न हि साध्यभाव एव साधनभावलक्षणव्याप्त्यभावे साधनप्रभवानुमानस्य कस्यचित् स्वसाध्याव्यभिचारोऽविरुद्धः । न चाविद्यमानव्याप्तिलिङ्गप्रभवादनुमानात् सौगतस्य स्वमतसिद्धिः परस्यापि तथाभूतात् कार्याद्यनुमानात् ईश्वराद्यभिमतसाध्यसिद्धिप्रसक्तेः । न च ज्ञानत्व-स्वतःप्रकाशनयोः साध्यसाधनयोः कुतश्चित् प्रमाणाद व्याप्तिसिद्धिः पारमार्थिकी ज्ञानवजडस्यापि परतोग्रहणसिद्धेहेतोरनैकान्तिकत्वप्रसक्तेः। १० जडस्य प्रकाशायोगोऽप्यप्रतिपन्नस्य प्रतिपत्तुमशक्यः शक्यत्वे वा सन्तानान्तरस्यापि स्वप्रकाशायोगः प्रेतिपत्तव्य इति तस्याप्यभावः प्रसक्तः तथा च परप्रतिपादनार्थ प्रकृतहेतूपन्यासो व्यर्थः । अथ प्रतिपन्नस्य जडस्य प्रकाशायोगस्तथापि विरोधः-'जडः प्रतीयते प्रकाशायोगश्च' इति । अथादृश्येऽपि जडे विचारात् तदयोगः प्रतीयते; ननु जडस्य तेनाप्यविषयीकरणे पूर्ववद्दोषः-'विचारस्तत्र
न प्रवर्तते तत एव च प्रकाशीयोगप्रतिपत्तिः' इति । विषयीकरणे विचारवत् प्रत्यक्षादिनापि तस्य १५विषयीकरणात् प्रकाशायोगोऽसिद्धः । न च सुखादी प्रकाशनस्य ज्ञानत्वेन व्याप्तिनिश्चयात् स्वव्यापकरहिते जडे न तस्य संभवोऽन्यथा कृतकत्वादेरप्यनित्यत्वविकल आत्मादौ संभव इति सकलानुमानोच्छेद इति वक्तव्यम् यतस्तत् तत्र तेन व्याप्तमिति कुतो निश्चितम् ? 'तस्मिन् सति दर्शनात्' इति यद्युच्येत पुरुषत्वं किञ्चिज्ज्ञत्वेन व्याप्तं तेत एव सिद्ध्येत् विपक्षे बाधकाभावः प्रकृतेऽपि समानः। अपि च, ज्ञानत्वेन व्याप्त प्रकाशनं सुखादौ स्वयमेव प्रतिपन्नं यदि तदेव नीला२०दावपि कुतश्चित् प्रमाणात् प्रतीयते तदा ततस्तत्र साध्यसिद्धिर्युक्ता न पुनः साध्यव्याप्तधर्मविलक्षणादपि 'धर्मात् प्रतिभासः' इति शब्दसाम्येऽपि अन्यथा बुद्धिमत्कारणव्याप्तघटादिसन्निवेशविलक्षणादपि पर्वतादिसन्निवेशात् तत्र बुद्धिमत्कारणसिद्धिः स्यादिति “वस्तुभेदे प्रसिद्धस्य"[ ] इत्यादेरभिधानमसङ्गतं भवेत् । न च नीलादौ सुखाद्यवभासनं परस्य सिद्धम् सिद्धौ वा विप्रति
पत्तेरभावान्न तदवबोधार्थ शास्त्रप्रणयनं सौगतस्य युक्तम् । जडतासमारोपव्यवच्छेदार्थ तदिति २५चेत्, न; स्वप्रतिभासेऽप्यन्यथाप्रतिभाससमारोपोऽस्त्येव आत्मनोऽनेकरूपेण स्वतःप्रतिभासाभ्युप
गमात् स कुतो व्यवच्छिद्यताम् ? न चाँयं न समारोपः खात्मनि स्वकार्यकारी साध्यवत् 'स्वप्रतिभासो नीलादिः अन्यग्राहकाभावे सत्युपलभ्यमानत्वात् सुखादिवत्' इत्यतोऽनुमानात् स व्यवच्छिद्यते अन्यग्राहकाभावश्चानुपलम्भादिति चेत्, न; स्वसंवेदनप्रत्यक्षतोऽहमहमिकया अन्यग्राहकोपलब्धेस्तैदभावस्यासिद्धत्वात् । अथ 'स्थूलोऽहम्' 'कृशोऽहम्' इति प्रतीतेः 'अहं'प्रत्ययः शरीरमेव ३० न च तत् नीलादेाहकम् स्वयं तस्य प्रमेयत्वात्, न; अन्धकाराद्यवगुण्ठितशरीराग्रहेऽपि सालोक
घटादिग्रहणोपलब्धेः शरीरात् तद्भेदसिद्धिस्तथाप्यभेदे न किञ्चिद् भिन्नं भवेत् । ततो भिन्नोऽपि न नीलादेाहक इति चेत्, न; अस्य प्रतिविहितत्वात् । ततो न दृष्टान्तदृष्टसाधनधर्मस्य साध्यधर्मिण्यवगतिरित्यसिद्धो हेतुः । न च नैयायिकादीन् प्रति सुखादेर्ज्ञानता सिद्धति साध्यविकलता
दृष्टान्तस्य अथात एव हेतोर्ज्ञानता सुखादेः सिद्धेति न साध्यविकलतादोषः; नन्वत्राप्यपरं निदर्शनमुपा३५ देयम् तत्राप्येतच्चोधे निदर्शनान्तरमित्यनवस्था । नीलादेर्निदर्शनत्वे इतरेतराश्रयत्वम्-सुखादिज्ञानतासिद्धौ नीलादेस्तद्रूपतासिद्धिः तस्याश्च तन्निदर्शनवशात् सुखादेस्तद्रूपतेति कथं नेतरेतराश्रयत्वम् ? न च सुखादौ दृष्टान्तमन्तरेणापि तद्रूपतासिद्धिः नीलादावपि तथैव तदापत्तेः। अथ सुखादेर्जडत्वे प्रतिभासो न भवेत् जडस्य प्रकाशायोगात्। ननु नीलादावपि प्रकाशतासिद्धावेतदेव
"प्रमाणभूतम्”-बृ० टि० । “प्रमाणरूपम्"-ल.टि.। २ प्रतिपद्यत इति बृ०। ३ "विचारेण"बृ. ल.टि.। ४-शायोगः प्र-बृ०। ५"तद्दर्शनात्"-वृ. ल.टि.। ६ प्रतीयेत त-बृ०। ७-शात तद बु-वा. बा०। ८"शास्त्रप्रणयनम्"-बृ. ल.टि.। ९-भासमारो-बृ० भां. मां. विना। १. "खप्रतिभासेऽपि यो जायते"-वृ० ल.टि.। ११ “अन्यग्राहकस्य"-बृ. ल. टि.। १२-त्वान्नाधका-ल. । -त्वान्नकारा-वृ.। १३ "तस्यां च तन्निदर्शनात्"-प्रमेयक० पृ. २४ द्वि. पं० ।