________________
ज्ञेयमीमांसा।
६५७
परस्परव्यावृत्तनवलक्षणयोगित्वात् , उभयाभिमतनवघटादिवत् । एवं रूपादयश्चतुर्विंशतिर्गुणाः। उत्क्षेपणादीनि पञ्च कर्माणि । पराऽपरभेदभिन्नं द्विविधं सामान्यमनुगतज्ञानकारणम् । नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तबुद्धिहेतवः । अयुतसिद्धानामाधार्याऽऽधारभूतानाम् 'इह' इतिप्रत्ययहेतुर्यः संबन्धः स समवाय एको व्यापकश्च । अत्र च पदार्थषटके द्रव्याणि गुणाश्च केचिन्नित्या एव, केचित् त्वनित्या एव । कर्म अनित्यमेव । सामान्य-विशेष-समवायास्तु नित्या५ एवेति पदार्थव्यवस्था । ततश्चैतत् शास्त्रं तथापि मिथ्यात्वम्, तत्प्रदर्शितपदार्थषट्कस्य प्रमाणबाधितत्वात् ।
[कणादोक्तां तत्त्वव्यवस्थां निरसितुं पूर्व द्रव्यपदार्थस्य खण्डनम् ] यतश्चतुःसंख्यं पृथिव्यादिद्रव्यं परमाणुरूपं यन्नित्यमुपवर्णितम् , तदसंगतम्; एकान्ताऽक्षणिकत्वे क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् तल्लक्षणं सत्त्वं ततो व्यावर्तते, ततश्च असत्त्वमेव तस्य । १० येदि च स्थूलकार्यद्रव्यकारणभूतानामणूनां तजनकैकस्वभावता तदा तत्कार्याणां सकृदेव सर्वेषामुत्पत्तिप्रसक्तिः अविकलकारणत्वात् । तथा च प्रयोगः-येऽविकलकारणास्ते सकृदेवोत्पद्यन्ते, यथा समानोत्पादा बहवोऽङ्कुराः, अविकलकारणाश्च परमाणुकार्यत्वेनाऽभिमता भावा इति स्वभावहेतुः। अविकलकारणस्याप्यनुत्पादे सर्वदाऽनुत्पत्तिप्रसक्तिः विशेषाभावात् इति विपर्यये बाधकं प्रमाणम् । स्यादेतत्, समवाय्यसमवायि-निमित्तभेदात् त्रिविधं कारणम्, यत्र हि कार्य समवैति तत् समवा-१५ यिकारणम् यथा-व्यणुकस्य अणुद्वयम् । यच्च कार्यैकार्थसमवेतम् कार्यकारणैकार्थसमवेतं वा कार्य मुत्पादयति तद् असमवायि कारणम् यथा-पटावयविद्रव्यारम्भे तन्तुसंयोगः, पटसमवेतरूपाद्यारम्भे पटोत्पादकतन्तुरूपादि च । शेषं तु उत्पादकं निमित्तकारणम् यथा-अदृष्टाऽऽकाशादि । तत्र संयोगादेरपेक्षणीयस्य असंनिधेरविकलकारणत्वमसिद्धम् , असदेतत्; संयोगादिनाऽनाधेयातिशयत्वात्
१-शतिगु-बृ. विना। २ पृ. ६५६ पं० २३ ।
३ प्रस्तूयमानैषा सपूर्वपक्षा समग्राऽपि वैशेषिकाभिमतद्रव्य-गुणादितत्त्वपरीक्षणचर्चाऽविकलतया तत्त्वसंग्रहपनिकायां विद्यते-पृ० १८५ का० ५४७-पृ. २७४ का० ८६६ ।
सैव च क्वचित् क्वचित् शब्दसाम्येन क्वचिच्चान्ययाऽपि भझ्या अर्थसाम्यमजहती न्यायकुमुदचन्द्रोदये, प्रमेयकमलमातण्डे स्याद्वादरत्नाकरे च विद्यते-लि. पृ० ११६ द्वि० पं०३-पृ० १७४ द्वि०५० १० । पृ० १५६ प्र०पं०८-पृ० १८८ द्वि. पं० १३ । पृ० ८३७ पं० २०-पृ. ९७० पं० १५। ४ "तत्र नित्याणुरूपाणामसत्त्वमुपपादितम् । निःशेषवस्तुविषयक्षणभङ्गप्रसाधनात्" ॥
-तत्त्वसं० का० ५५१ पृ० १८६ । ५ "नित्यले सकलाः स्थूला जायेरन् सकृदेव हि । संयोगादि न चापेक्ष्यं तेषामस्त्य विशेषतः" ।
-तत्त्वसं० का० ५५२ पृ० १८६ । ६ बाधक प्र-वृ. आ. हा०वि० । “समग्रकारणस्याप्यनुत्पादे सर्वदैवानुत्पादप्रसङ्गो विशेषाभावादिति बाधक प्रमाणम्"-तत्त्वसं० पजि. पृ० १८६ पं० २०।।
"ननु समवायि-असमवायि-निमित्तभेदात् त्रिविधं कारणं कार्यजन्मनि व्याप्रियते । यत्र हि कार्य समवैति तत् समवायि कारणम् यथा व्यणुकस्य अणुद्वयम् । यच्च कार्यकार्थसमवेतं कार्यकारणैकार्थसमवेतं वा कार्य समुत्पादयति तद् असमवायि कारणम् यथा पटारम्भे तन्तुसंयोगः पटसमवेतरूपाद्यारम्भे पटोत्पादकतन्तुरूपादि च शेषं तु उत्पादक निमित्तकारणम् यथा अदृष्टाकाशादि" इत्यादि-न्यायकुमुद० लि. पृ० ११८ प्र. पं० १२-द्वि. पं० १-२ । प्रमेयक. पृ० १५९ द्वि. पं०१५-1 ८"असमवेतं तु यद् यस्य कारणभावं प्रतिपद्यते तद् असमवायिकारणम् यथा अवयविद्रव्यारम्मेऽवयवसंयोगः"
-तत्त्वसं० पजि. पृ० १८६ पं० २२ । ९"परिशेषं तु कारणं निमित्तकारणम् तद्यथा धर्मादय इत्ययमेषां विभागः”-तत्त्वसं० पञ्जि. पृ. १८६५०२४॥