________________
तृतीये काण्डे[तत्त्वार्थसू० १-३३] इति श्रूयते ? न; स्थूलतस्तच्छुतेः, अवान्तरमेदेन तु तेषामपरिमितत्वमेव स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्यापरिमाणत्वात् ॥४७॥
[कं कं नयमाश्रित्य कस्कः समयः प्रस्थित इति प्रश्नस्य व्याकरणम् ] ननु के नयमाश्रित्य कः परसमयः प्रवृत्तः ? को वा कस्य विषयः ? इत्याह
जं काविलं दरिसणं एयं वढियस्स वत्तव्वं ।।
सुद्धोअणतणअस्स उ परिसुद्धो पज्जवविअप्पो ॥४८॥ यत् कापिलं दर्शनं सांख्यमतम् एतद् द्रव्यास्तिकनयस्य वक्तव्यम्-तद्विषयविषयम् तदुत्थापितं चेति भावः-शौद्धोदनेस्तु परिशुद्धः पर्यायविशेष एव वक्तव्यः-परिशुद्धपर्यायास्तिकनयविशेषविषयं तदुत्थापितं च सौगतमतमित्यभिप्रायः । मिथ्याखरूपनयप्रभवत्वाद् अनयो. १० मिथ्यात्वं प्राक् प्रदर्शितमेव ॥ ४८॥ [ द्रव्यास्तिक-पर्यायास्तिकोभयाश्रितस्यापि वैशेषिकसमयस्य कथं मिथ्यात्रमिति
__ प्रश्नस्य प्रतिवचनम् ] ननु भवतु परस्परनिरपेक्षैकैकनयावलम्बिनोः साङ्ख्य-सौगतमतयोमिथ्यात्वम्, कणभुग्मतस्य तु द्रव्यार्थिक-पर्यायार्थिकनयद्वयावलम्बिनः कथं मिथ्यात्वम् ? इत्यत्राह
दोहि वि णएहि णीअं सत्थमुलूएण तह वि मिच्छत्तं ।
जं सविसअप्पहाणत्तणेण अण्णोण्णनिरवेक्खा ॥४९॥ __ द्वाभ्यामपि द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रम् उलूकेन वैशेषिकशास्त्रप्रणेत्रा, द्रव्य-गुणादेः पदार्थषट्कस्य नित्यानित्यैकान्तरूपस्य तत्र प्रतिपादनात् ।
[कणादोक्तषट्पदा व्यवस्थाया उपन्यासः] २० तथाहि-द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाख्याः षडेव पदार्थाः, न्यूनाऽधिकप्रतिपाद
कप्रमाणाभावे परस्परविविक्तस्वरूपषट्पदार्थव्यवस्थापकप्रमाणविषयत्वात्, उभयाभिमतघटादिषट्पदार्थवत् । तत्र पृथिव्यप्-तेजो-वाय्वाकाश-काल-दिगात्म-मनांसि नवैव द्रव्याणि । 'पृथिवी आपः तेजो वायुः' इत्येतत् चतुःसंख्यं नित्याऽनित्यमेदाद् द्विप्रकारं द्रव्यम्। तत्र परमाणुरूपं नित्यम्
"सदकारणवन्नित्यम्" [वैशेषिकद०४-१-१] इति वचनात्, तदारब्धं तु व्यणुकादि कार्यद्रव्य२५मनित्यम् । आकाशादिकं तु नित्यमेव, अनुत्पत्तिमत्त्वात् । एषां च द्रव्यत्वाभिसंबन्धाद् द्रव्यरूपता, द्रव्यत्वाभिसंबन्धश्च द्रव्यत्वसामान्योपलक्षितसमवायः, तत्समवेतं वा सामान्यम्, एतच्चेतरव्यवच्छेदकमेषां लक्षणम् । तथाहि-पृथिव्यादीनि मनःपर्यन्तानि इतरेभ्यो भिद्यन्ते 'द्रव्याणि' इति वा व्यवहर्तव्यानि द्रव्यत्वाभिसंबन्धात्, यानि तु नैवम् न च तानि द्रव्यत्वाभिसंबन्धवन्ति, यथा
गुणादिवस्तूनि, इति केवलव्यतिरेकिहेतुबलात् पृथिव्यादीनि द्रव्याणि गुणादिभ्यो व्यावृत्तरूपाणि ३० सिद्धानि । पृथिव्यादीनामपि भेदवतां पृथिवीत्वाभिसंबन्धादिकं लक्षणमितरेभ्यो मेदव्यवहारे तच्छब्दवाच्यत्वे वा साध्ये केवलव्यतिरेकिरूपं द्रष्टव्यम् । अभेदवतां त्वाकाश-काल-दिगद्रव्याणामनादिसिद्धतच्छब्दवाच्यता द्रष्टव्या । नवैव चैतानि द्रव्याणि, न्यूनाधिकत्वप्रतिपादकप्रमाणाभावे
१ पृ० २९६ पं० ८ तथा पृ० ३८७ पं० १८। २ दोहिं वि णएहिं गु० मू० । ३ कणादापरनाम्न उलूकमहर्षवृत्तान्तावबोधाय वायुपुराणमिहानुसंधेयम्-अ० २३ श्लो. २०३।
४ मूलप्रन्यकृता दिवाकरेण वैशेषिकशास्त्रनिःष्यन्दभता वैशेषिकद्वात्रिंशिकाऽपि रचिताऽस्ति सा च तदचितास द्वात्रिंशति द्वात्रिंत्रिकासु चतुर्दशी वर्तते एषाऽपि प्रस्तुतविषयसादृश्यावबोधाय बुभुत्सुभिरत्रावगन्तव्या भवेत्-द्वात्रिंशदद्वात्रिंशिका पृ० १८-१९ ।
अत्र द्रव्यादिपदार्थस्वरूपं सविस्तरमवबोद्धुकामेन समग्र वैशेषिकदर्शनं सभाध्यं सकन्दलिकं चानुसंधेयम् ।