________________
ज्ञेयमीमांसा। यंत्वात, शाल्यकुरादिकार्यवत्, यश्चासौ कारणविशेषः स धर्माऽधर्माऽऽकाशलक्षणो यथासंख्यमवसेयः। कालेस्तु विशिष्टपरापरप्रत्ययादिलिङ्गानुमेयः । पुद्गलास्तिकायस्तु प्रत्यक्षाऽनुमानलक्षणप्रमाणद्वयगम्यः । यस्तेषां धर्मादीनामसंख्येयप्रदेशात्मकत्वादिको विशेषः तत्प्रदेशानां च सूक्ष्म-सूक्ष्मतरत्वादिको विभागः स "कालो य होइ सुहुमो” [
] इत्याद्यागमप्रतिपाद्य एव, नागमनिरपेक्षयुक्त्यवसेयः । एवमाश्रवादिष्वपि तत्त्वेषु युक्त्याऽऽगमगम्येषु युक्तिगम्यमंशं युक्तित५ एव, आगमगम्यं तु केवलागमत एव प्रतिपादयन् स्वसमयप्रज्ञापकः, इतरस्तु तद्विराधक इति प्रशापकलक्षणमवगन्तव्यम् ॥ ४५ ॥ [हेतुसाध्यमर्थ हेतोरेव इतरं चागमत एव साधयतो नयवादः शुद्धो नान्यस्य इति कथनम् ]
यो हेतुसाध्यमर्थ हेतुना साधयति आगमसिद्धं च आगमेन, तस्य नयवादः परिशुद्धः नान्यस्येत्येतदेवाऽऽह-'परिसुद्ध' इत्यादि। ___ यद्वा वस्तुधर्मप्रतिपादकोऽहेतु-हेतुवादप्रभेद् आगमो वाक्य-नयरूपः परिशुद्धतरभेदेन द्विरूपतां प्रतिपद्यते इत्याह
परिसुद्धो नयवाओ आगममेत्तत्थसाहओ होइ।
सो चेव दुण्णिगिण्णो दोणि वि पक्खे 'विधम्मेइ ॥ ४६॥ परि समन्तात् शुद्धो नयवादः यदा विवक्षिताऽविवक्षितानन्तरूपात्मकवस्तुप्रतिपादकं १५ नयवाक्यं प्रवर्तते 'स्यान्नित्यम्' इत्यादिकं तदा भवति, प्रमाणपरिशुद्धागमार्थमात्रस्य न्यूनाधिकव्यवच्छेदेन प्रतिपादनात् अधिकस्याऽसंभवेन न्यून स्यच नयानामसर्वार्थत्वप्रसङ्गतोऽर्थस्य परिशुद्धागमविषयत्वायोगात् । स एव नयवादः इतररूपनिरपेक्षैकरूपप्रतिपादकत्वेन यदा दुर्निक्षिप्तः प्रमाणविरुद्धार्थप्रतिपादकत्वेनाऽवतारितस्तदा द्वितीयधर्मनिरपेक्षस्य प्रतिपाद्यधर्मस्याऽप्यभावतोऽप्रतिपादनाद् अपरिशुद्धो भवति, प्रमाणविरुद्धस्य तथातदर्थस्य व्यवस्थापयितुमशक्यत्वात् ॥ ४६॥ २०
[अपरिशुद्धनयवादरूपपरसमयानां संख्यानम् ] अपरिशुद्धश्च नयवादः परसमयः स किय दो भवति ? इत्याह
जावइया वयणवहा तावइया चेव होंति णयवाया।
जावइया णयवाया तावइया चेव परसमया ॥४७॥ अनेकान्तात्मकस्य वस्तुन एकदेशस्य यद् अन्यनिरपेक्षस्याऽवधारणम् अपरिशुद्धो नयः, ताव २५ न्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मागाः-हेतवो नयाः-तावन्त एव भवन्ति नयवादास्तत्प्रतिपादकाः शब्दाः । यावन्तो नयवादास्तावन्त एव परसमया भवन्ति खेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानां परिमितिर्न विद्यते । ननु यद्यपरिमिताः परसमयाः कथं तनिबन्धनभूतानां नयानां संख्यानियमः "नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढेवंभूता नयाः"
१ "वर्तना परिणामः क्रिया परवापरले च कालस्य" । २२।-तत्त्वार्थ० अ०५। २-गलादिका-६० आ० हा० वि० । "रूपिणः पुद्गलाः । ४ । शरीरवाड्मनःप्राणापानाः पुद्गलानाम् । १९ । सुख-दुःख-जीवित-मरणोपग्रहाश्च" । २० ।
-तत्त्वार्थ० अ०५।। ३ "नित्यावस्थितानि अरूपाणि । ३ । आऽऽकाशादेकद्रव्याणि । ५। निष्क्रियाणि च । ६ । असंख्येयाः प्रदेशा धर्माधर्मयोः । ७ । जीवस्य च । ८ । आकाशस्याऽनन्ताः । ९ । संख्येयासंख्येयाश्च पुद्गलानाम् । १० । लोकाकाशेऽवगाहः । १२ । धर्माधर्मयोः कृत्स्ने । १३ । एकप्रदेशादिषु भाज्यः पुद्गलानाम् । १४ । असंख्येयभागादिषु जीवानाम्"। १५।
-तत्त्वार्थ० अ०५। ४ विहम्मेवि गु० मू० मु० मू।