________________
६५४
तृतीये काण्डेमित्यनुमानतस्तेषां चैतन्यमानं सिध्यति । साधारण प्रत्येकशरीरत्वादिकंस्तु भेदः"गूढसिर-संधि-पव्वं समभंगमहीरगं च छिण्णरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ॥"
[जीवविचा० गा० १२] इत्याद्यागमप्रतिपाद्य एव । ५ जीवलक्षणव्यतिरिक्तलक्षणास्त्वजीवा धर्माऽधर्माऽऽकाश-काल-पुद्गलमेदेन पञ्चविधाः । तत्र पुद्गलास्तिकायव्यतिरिक्तानां खतो मूर्तिमन्यसम्बन्धमन्तरेणात्मद्रव्यवदमूर्तत्वाद् अनुमानप्रत्ययावसेयता । तथाहि-गति-स्थित्यवगाहलक्षणं पुद्गलास्तिकायादिकार्य विशिष्टकारणप्रभवम् , विशिष्टका
भौममम्भः सचेतनमुक्तम् क्षतभूमिसजातीयस्वाभाविकस्य तस्य संभवात् दर्दुरवत् । अथवा, सचेतनमन्तरिक्षमम्भः अभ्रादिविकारखभावसंभूतपातात् मत्स्यवदिति । तेजोऽनिलावधिकृत्याह
अपरप्पेरियतिरियानियमियदिग्गमणओऽणिलो गो व्य । अनलो आहाराओ विद्धि-विगारोवलम्भाओ॥ सात्मको वायुः अपरप्रेरिततिर्यगनियमितदिग्गमनात् गोवत् । तथा, सात्मकं तेजः आहारोपादानात् तदृद्धौ विकारविशेषोपलम्भाच्च नरवत्"-विशेषा० भा० गा० १७५३-१७५८ पृ. ७४४-७४६।
तथा, पृथिव्यादिवनस्पत्यन्तानां स्थावराणां स्पष्टतया श्रोत्रादीन्द्रियरहितवेऽपि श्रोत्रादीन्द्रियजोऽनुभवो विलोक्यत एव अत एव वनस्पत्यन्तानां तेषां सचेतनवं साधितं पुरातनैः । स्थूलतया इन्द्रियरहितलेऽपि वनस्पतिषु केषां केषां वृक्षाणामस्मदादिवत् कीदृशः कीदृशोऽनुभवो जायते तदेतत् सर्व सविस्तरं तेनैव भाष्यकृता भाष्यटीकाकृता चेत्थमुपवर्णितम्
"जह सुहुमं भाविंदियनाणं दबिंदियावरोहे वि । तह दव्वसुयाभावे भावसुयं पत्थिवाईणं ॥ इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोक-बहु-बहुतर-बहुतमादितारतम्यभावेन द्रव्येन्द्रियेष्वसत्खपि लब्धीन्द्रियपञ्चकावरणक्षयोपशमः समस्त्येवेति परममुनिवचनम् । ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां श्रोत्र-चक्षु -ओण-रसनलक्षणानां प्रत्येकं निर्वृत्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतबादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं श्रोत्रादिभावेन्द्रियज्ञानं भवति लब्धीन्द्रियावरणक्षयोपशमसंभूताऽणीयसी ज्ञानशक्तिर्भवतीत्यर्थः । तथा तेनैव प्रकारेण द्रव्यश्रुतस्य द्रव्येन्द्रियस्थानीयस्याभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकल्लं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति–एकेन्द्रियाणां तावत् श्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यत एव वनस्पत्यादिषु स्पष्टतल्लिङ्गोपलम्भात् । तथाहि-कलकण्ठोद्गीर्णमधुरपञ्चमोद्गारश्रवणात् सद्यः कुसुम-पल्लवादिप्रसरो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्त लिङ्गमवलोक्यते । तिलकादितरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य । चम्पकाद्यहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घ्राणेन्द्रियज्ञानस्य । बकुला दिभूरुहेषु तु रम्भातिशायिप्रवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूषास्वादनात् तदाविष्करणं रसनेन्द्रियज्ञानस्य । कुरबकादिविटपिषु अशोकादिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणत्कङ्कणाभरणभूषितभव्यभामिनीभुजलताऽवगृहनसुखाद् निष्पिष्टपद्मरागचूर्णशोणतल. तत्पादकमलपाणिप्रहाराच झगिति प्रसून-पल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवनाद् वनस्पत्यादीनामाहारसंज्ञा, संकोचनवल्यादीनां तु हस्तस्पर्शादिभीत्या अवयवसंकोचनादिभ्यो भयसंज्ञा, विरहक-तिलक-चम्पक-केशराऽशोकादीनां तु मैथुनसंज्ञा दर्शितैव, बिल्व-पलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपञ्चकज्ञानवद् भावश्रुतावरणक्षयोपशमसद्भावाद् द्रव्यश्रुताभावेऽपि यच यावच्च भावश्रुतमस्त्येव एकेन्द्रियाणामित्यलं विस्तरेण"विशेषा० भा० गा० १०३ पृ० ६८-६९ ।।
१ साधारण-प्रत्येकशरीरधारिणां वनस्पतीनां सलक्षणं सविस्तर विवेचनं प्रज्ञापना(पन्नवणा)सूत्रतोऽववोद्धव्यम्प०१ सू० २२-२६ पृ. ३०-३९ ।
२ "अजीवकाया धर्माधर्माकाशपुद्गलाः। १। कालश्चेत्येके"।३८-तत्त्वार्थ० अ० ५। ३ "गति-स्थित्युपग्रहो धर्माधर्मयोरुपकारः । १७ । आकाशस्यावगाहः" । १।-तत्त्वार्थ० अ०५।