________________
ज्ञेयमीमांसा |
वृक्षायुर्वेदाभिहितप्रतिनियतकालायुष्कविशिष्टशैषधप्रयोगसंपादितवृद्धि - हानि-क्षत- भग्नसंरोहण-प्रतिनियतवृद्धिषड्भावविकांरोत्पादनाशावस्थानियतविशिष्टशरीरस्निग्धत्व- रूक्षत्व - विशिष्टदौहृद - बाल
कुमार - वृद्धावस्था - प्रतिनियतविशिष्टरसवीर्यविपाक-प्रतिनियतप्रदेशाहारग्रहणादिमत्त्वान्यथानुपपतेः, विशिष्टस्त्रीशरीरवत् इत्याद्यनुमानं भाष्यकृत्प्रभृतिभिर्विस्तरतः प्रतिपादितं तच्चैतन्यप्रसाधक
१ वराहमिहिराचार्यप्रणीतायां बृहत् ( वाराही ) संहितायां वृक्षायुर्वेदविषय इत्थं वर्णितो वर्तते— "अथ तेषां रोगज्ञानमाह -
१४ ॥
शीतवातातपै रोगो जायते पाण्डुपत्रता । अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः ॥ चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम् । विडङ्गघृतपङ्काक्तान् सेचयेत् क्षीरवारिणा ॥
१५ ॥
तथा च काश्यपः -
शाखाविटपपत्रैश्च छायया विहिताश्च ये । येऽपि पर्ण- फलैर्हीना रूक्षाः पत्रैश्च पाण्डुरैः ॥ शीतोष्णवर्षवाताद्यैर्मूलैर्व्यामिश्रितैरपि । शाखिनां तु भवेद् रोगो द्विपानां लेखनेन च ॥ चिकित्सैतेषु कर्तव्या ये च भूयः पुनर्नवाः । शोधयेत् प्रथमं शस्त्रैः प्रलेपं दापयेत् ततः ॥ कर्दमेन विडङ्गैश्व घृतमित्रैश्च लेपयेत् । क्षीरतोयेन सेकः स्याद् रोहणं सर्वशाखिनाम् ॥ अथ फलनाशचिकित्सितमाह -
फलनाशे कुलत्थैश्च माषैर्मुनैस्तिलैर्यवैः । शृतशीतपयःसेकः फलपुष्पसमृद्धये ॥ १६ ॥ अथ वृद्धयर्थप्रयोगमाह -
६५३
“अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम् । सक्तुप्रस्थो जलद्रोणो गोमांसतुलया सह ॥ १७ ॥ सप्तरात्रोषितैरेतैः सेकः कार्यों वनस्पतेः । वल्लीगुल्मलतानां च फलपुष्पाय सर्वदा ॥ १८ ॥ - बृहत्सं०] वृक्षायुर्वेदाध्या० ५४ पृ० ७४६ - ७४७ ।
२ षड्भावविकारा इत्थमवगन्तव्याः
“ षड्भावविकारा भवन्तीति वार्ष्यायणिः - जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यतीति” — यास्कनि ० पृ० ४४ पं० १३ । एतदेव विकारषङ्कपरिगणनं महाभाष्ये “भूवादयो धातवः” १-३ - १ इति सूत्रे, वाक्यपदीये तृतीयकाण्डे प्रथमजातिसमुद्देशीयषट्त्रिंशश्लोकव्याख्यायाम् (तृ० कां० पृ० ३१) हेमचन्द्रशब्दानुशासने “क्रियार्थो धातुः” ३-३-३ इति सूत्रे च विद्यते ।
३ भाष्यकृता श्रीजिनभद्रगणिक्षमाश्रमणेन वनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावेरषु अनुमानतश्चैतन्यमित्थं साधितं वर्तते -
" जम्म- जरा - जीवण - मरण - रोहणा - SSहार- दोहला - ssमयओ । रोग-तिगिच्छाईहि य नारि व्व सचेयणा तरवो ॥ सचेतनास्तरवः इति प्रतिज्ञा, जन्म- जरा - जीवन-मरण-क्षतसंरोहणा -ऽऽहार- दौहृदा-ऽऽमय-तश्चिकित्सादिसद्भावात् इति हेतु:, नारीवत् इति दृष्टान्तः । X
X
X
X
X
छिकपरोइया छिक्कमेत्तसंकोयओ कुलिंगो व्व । आसयसंचाराओ वियत्त ! वल्लीवियाणाईं ॥
सम्मादयो य साव- पबोह - संकोयणाइओऽभिमया । वउलादओ य सद्दाइ विसयकालोवलंभाओ ॥
सचेतनाः स्पृष्टप्ररोदिकादयो वनस्पतयः स्पृष्टमात्र संकोचात् कुलिङ्गः कीटादिः - तद्वत् । तथा सचेतना वल्यादयः खरक्षार्थं वृति-वृक्ष-वरण्डकाद्याश्रयं प्रति संचरणात् । तथा, शम्यादयश्चेतनत्वेन अभिमताः स्वाप - प्रबोध-संकोचादिमत्त्वात् देवदत्तवत् । तथा सचेतना बकुला - शोक - कुरुबक - विरहक - चम्पक - तिलकादयः शब्दादिविषय कालोपलम्भात्-शब्दरूप-गन्ध-रस-स्पर्शविषयाणां काले प्रस्तावे उपभोगस्य यथासंख्यमुपलम्भादित्यर्थः यज्ञदत्तवदिति । एवं पूर्वमपि दौहृदादिलिङ्गेषु कूष्माण्डी - बीजपूरकादयो वनस्पतिविशेषाः पक्षीकर्तव्या इति ।
अथ सामान्येन तरूणाम् पृथ्वीविशेषाणां च विद्रुमादीनां सचेतनत्वसाधनायाह
मंसंकुरो व्व समाणजाइरूवंकुरोवलंभाओ । तरुगण - विद्दुम- लवणो- वलादओ सासयावत्था ॥
तरुगणः तथा विद्रुम - लवणो - पलादयश्च खाश्रयावस्थाः स्वजन्मस्थानगताः सन्तश्चेतनाः छिन्नानामप्यमीषां पुनस्तत्स्थान एव समानजातीयाङ्कुरोत्थानात् अर्शोमांसाङ्कुरवत् ।
X X
अथोदकस्य सचेतनत्वं साधयितुमाह
भूमिक्खयसाभावियसंभवओ दहुरो व्व जलमुत्तं । अहवा मच्छो व सभाववोमसंभूयपायाओ ॥
X